OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 1, 2017

श्रीशङ्करजन्मदिनाघोषोत्सवे कालटी ग्रामः।
कालटी >अद्वैतवेदान्तप्रतिष्ठापकस्य श्रीशङ्कराचार्यस्य जन्मग्रामः कालटी जन्मदिनाघोषलहर्यां निमग्ना वर्तते। आदिशङ्करजन्मभूमिक्षेत्रं वर्तमाने श्रृङ्गेरी शारदादेवीमन्दिरे , कुलदेवतास्थाने श्रीकृष्णस्वामिमन्दिरे ,  श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये,श्रीरामकृष्णाश्रमे , श्रीशङ्करकलालये च विविधाः सांस्कृतिक - आध्यात्मिक - कलाकार्यक्रमाः प्रचलन्तः वर्तन्ते।
   श्रीशङ्करस्य कुलदेवतास्थाने श्रीकृष्णमन्दिरे ३२ वैदिकश्रेष्ठानां नेतृत्वे १०,००८वारं दिनद्वयेन कृतः  कनकधारास्तोत्रजपः सम्पूर्णः। जन्मदिने रविवासरे सुकृतहोमः मातृवन्दनं च प्रचलितम्। आदिशङ्करजन्मभूमिस्थाने दिनत्रयात्मकं वाक्यार्थसदः प्रचलदस्ति। आदिशङ्करजन्मदेशविकसनसमित्याः नेतृत्वे सञ्चाल्यमानः महापरिक्रमः राष्ट्ररक्षासहमन्त्रिणा सुभाष् रावु भांरेवर्येण उद्घाटनं कृतम्। काञ्चि शङ्कराचार्यः जयेन्द्रसरस्वतिस्वामिनः अनुग्रहभाषणं कृतवन्तः।