OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 5, 2017

तृश्शूर् पूरं - स्फोटकोत्सवाय सोपाधिकानुमतिः।
तृश्शिवपेरूर् > तृश्शूर् पूरम् इति विख्यातस्य तृश्शिवपेरूर् मन्दिरोत्सवस्य अंशत्वेन प्रचाल्यमानाय स्फोटकोत्सवाय सोपाधिकानुमतिः। तीव्रध्वनियुक्तानि निरुद्धरासवस्तुयुक्तानि च स्फोटकानि अपहाय परम्परागतस्फोटकपदानि उपयोक्तुं स्फोटकनियन्त्रणाधिकारिणा अनुमतिः लब्धा। 
     श्व एव तृश्शूर् पूरम्। ह्यः सम्पन्नः आदर्शस्फोटकोत्सवः शब्दकठोरात् नयनमनोहरेण वर्णसङ्घातेन आस्वाद्यकरः आसीत्।

कोच्ची मेट्रो सुरक्षा अवलोकनम् अद्य समाप्यते। 
कोच्ची >यात्रानुमत्याः परिकल्पनाय दिनत्रयेण  क्रियमाणं कोच्ची मेट्रो रेल् यानयोजनायाः  सुरक्षावलोकनं शुक्रवासरे समाप्यते। सुरक्षाधिकारिणः के ए मनोहरस्य नेतृत्वे विद्यमानेन सङ्घेनैव अवलोकनं क्रियते।
     आलुवा निस्थानात् बुधवासरे आरब्धं निरीक्षणं अद्य मुट्टं यार्ड् स्थानस्य अवलोकनेन समाप्यते। अस्य आवेदनम् अचिरेणैव समर्पयिष्यते। तदाधारीकृत्य सुरक्षाप्रमाणपत्रं लभते।