OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 7, 2017

दिल्ल्यां विषवायुपरिस्रवः - ४५० छात्राः आतुरालयप्रविष्टाः।
नवदिल्ली> दक्षिणपूर्वदिल्ल्यां विषवायोः परिस्रवेण अस्वस्थबाधिताः पञ्चाशदधिक चतुश्शतं विद्यालयीयछात्राः नव अध्यापकाश्च आतुरालयं प्रविष्टाः तुग्लक्काबादे राणी झान्सी सर्वोदय कन्याविद्यालयः , सर्वकार बालिका सीनियर् सेक्कन्टरि विद्यालयः इत्येतयोः विद्यालययोः छात्राः एव अस्वस्थबाधिताः अभवन्। सर्वे सुरक्षिता इति मुख्यमन्त्रिणा अरविन्द् केज्रिवालेन निगदितम्।
     शनिवासरे प्रभाते विद्यालययोः समीपस्थायाः वायुसम्भरणशालायाः परिस्रवणमभवत्। चीनादेशादानीतं कीटनाशिनीनिर्माणोपकारकं क्लोरोमीतैल् पैरिडिन् नामकं वायुरूपं वस्तु एव दुरन्तकारणमभवत्