OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 11, 2017

ऐ एस् द्वारा बन्दिन:कृता: 39 भारतीया: अपि मोसूले- सुषमा स्वराज:।
नवदिल्ली>त्रिवर्षेभ्य: पूर्वम् इराखे ऐ एस् भीकरै: बन्दिन: कृता: नवत्रिंशत्  भारतीया: अपि मोसूले जीवन्त: सन्तीति केन्द्रसर्वकार:। विदेशकार्यमन्त्रिणी सुषमा स्वराज:  एतदनुबद्धकार्याणि असूचयदिति बन्दिन: कुटुम्बाङ्गानि न्यवेदयन्। इराखसेना ऐ एस् भीकरै: सह रूक्षयुद्धं प्रचलन्ती इराखस्य उत्तरप्रविश्या एव मोसूल:। ऐ एस् सकाशात्  मोसूलस्य नवतिप्रतिशतम् भागान् इराखीसेना प्रतिस्व्यकरोत्  तथापि भारतीयान् बन्दिन: न दृष्टवन्त:। किन्तु  एते सर्वे ऐ एस् नियन्त्रणे विद्यमानायाम्  मोसूल् मेखलायाम् भवितुमर्हन्ति इति सूषमा स्वराज: न्यवेदयदिति  बन्दिषु एकस्य कुटुम्बाङ्गम् गुरपीन्दर कौर: न्यवेदयत्। इराखे बन्दिन: अन्वेषणं सम्बद्ध्य केन्द्रसर्वकार: एतावता मौनमभजत। तन्मध्ये एकादशवारम् बन्दिन: मोचनं सम्बद्ध्य बान्धवा: केन्द्रसर्वकारेण सह चर्चाम् कृतवन्त:। चतुर्दशोत्तरद्विसहस्रे जूण् चतुर्दशे एव  ऐ एस् भीकरा: नवत्रिंशत् भारतीयान्  अपहृतवन्त:। तुर्कीस्वकीये मोसूले प्रवर्तमानात् निर्माणकार्यालयात् बाग्दादम् प्रतिगमनमध्ये  चतुर्दशोत्तरद्विसहस्रे जूण् एकादशदिनाङ्के भारतीयान् भीकरा: अपाहरन्। पञ्चाब, बङ्गालस्वदेशिन: एतेषु भूरिजना:।