OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 5, 2017

रेलमार्गं विहाय रथ्यया अपि रेल्यानं चालयितुं शक्यते इति चैनया स्पष्टीकृतम् ।
         रथ्ययापि रेलयानं धावति किम् ?     धावतीति चैना स्पष्टीकरोति । रेलमार्गं त्यक्त्वा रथ्यया सञ्चरत: रेलयानस्य दृश्यचित्राणि सामान्यचित्राणि  च चैनया बहिरानीतानि वर्तन्ते । लोके एव प्रप्रथमं  स्यादिदम् परीक्षणम् । किन्तु  सामान्यरेलयानेषु उपयुज्यमानानि दृढायोनिर्मितानि चक्राणि विहाय  रबर् चक्राणि एव एव रेलयानेषु  उपयुक्तानि। चैनानगरस्य ह्यूनानप्रविश्यायां जूण् द्वितीयदिनाङ्के  रेलयानस्य नूतनसेवनम् आरब्धम् । अत्याधुनिकसाङ्केतिकज्ञानसाह्येन निर्मितं रेलयानमिदं लोके एव विप्लवात्मकपरिवर्तनम् आनयेत् इति विश्वास:।  त्रयोदशोत्तरद्विसहस्रतमे  एव  अस्या: कल्पनाया: बलेन यत्नोयं सफलीकृतम् । चैनाया: रेल् कोर्परेषन् संस्थाया: नूतनसंरम्भ: अयम् पूर्णतया अष्टादशोत्तरद्विसहस्रतमे एव प्रवर्तनक्षमम् भवेत्। सामान्यमार्गेषु  निर्दिष्टचिह्नितमार्गेण एव रेलयानं सञ्चरेत् । रेलयाननियन्त्रणाय  अनेकानि सेन्सर् यन्त्राणि  च उपयुज्यन्ते । एतेषां सेन्सर् यन्त्राणां साहाय्येन चालक:  मार्गस्थरेलमार्गम् अभिव्यनक्ति । घण्टायां सप्तति: कि मी वेगमानकयुतं  मुखयन्त्रसहितं ( एन्जिन् ) रेलयानं दशनिमेषाणां वैद्युतिग्रहणेन पञ्चविंशति: कि मी पर्यन्तं दूरं सञ्चरेत् ।