OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 28, 2017

 आकाशे भारतस्य त्रयोदश गुप्तचरनेत्राणि।
      नवदिल्ली> कार्टोसाट् २ ई उपग्रहस्य सफलविक्षेपणेन सैनिकावश्यकतायै भारतेन विक्षेपितानाम् निरीक्षणोपग्रहाणां सङ्ख्या त्रयोदश अभवन् इति ऐ एस् आर् ओ सूचयति। एतानुपयुज्य राष्ट्रसीमानां निरीक्षणम्, समुद्रमार्गेण भौममार्गेण वा शत्रूणां चलनानि च अवगन्तुं शक्यते इत्यपि ऐ एस् आर् ओ वृत्तानि ज्ञापयति। कार्टोसाट्, रिसाट् उपग्रहा: एव प्राधान्येन निरीक्षणाय उपयुज्यन्ते। नाविकसेनया एतानतिरिच्य जीसाट् सप्त उपग्रहश्च सैनिकावश्याय उपयुज्यते। समीपकाले विक्षेपितस्य कार्टोसाट् २ परम्परान्तर्गतस्य निरीक्षणोपग्रहस्य भूम्या: शून्यं दशांशं षट्  चतुरश्रमीटर् मितोन्नतवसतूनि अपि कृत्यतया निरीक्षितुं शक्ति: वर्तते। गतशुक्रवासरे एव कार्टोसाट् परम्परान्तर्गतम् कार्टोसाट् २ उपग्रहम् भारतम् व्याक्षिपत्।  भारतस्य सर्वे  निरीक्षणोपग्रहा: भौमोपरितलात् द्विशतत: द्विशतोत्तरसहस्रं किलोमीटर् पर्यन्तं पोलार् भ्रमणपथे वर्तन्ते। कृत्यतया भूमिं निरीक्षितुम् एतत् सहायकरम्। किन्तु भारतस्य  उपग्रहवेधायुधानि विक्षेप्तुं शक्तिरस्ति तथापि बहिराकाशस्य सैनिकवत्करणे तात्पर्यं नास्तीत्यपि ऐ एस् आर् ओ शास्त्रज्ञा: व्यक्तीकृतवन्त:।