OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 5, 2017

श्वासवायुस्तूपिकां विना चत्वारो  भारतसैनिका: एवरस्ट् शृङ्गे ।
काठमण्डु:> श्वासवायुस्तूपिकां विना एवरस्ड् शृङ्गम् अधिरुह्य चत्वारो भारतसैनिका:।   कुञ्जोक्क् टेण्ट:  , केलषाङ् दोर्जि भूट्टिया , कलदेन् पञ्जूरः, सोनम् फन्तोस्क:  एते सैनिका: धीरसाफल्यम् प्राप्तवन्त:। मई एकविंशतिदिनाङ्के एतेषां सङ्घ:  एवरस्ट् अध्यारोहत् । शुक्रवारे प्रत्यागतवन्तश्च । चतुर्दशजनानां सङ्घ: दौत्याय सन्नद्ध:  प्रस्थितश्च। श्वासवायुस्तूपिकां विना एवरस्ट् आरोढुं  दशजनानां सङ्घ: रूपीकृत:। एतेषु चत्वार: एव दौत्यविजेतार: इति दौत्यसङ्घनायक: केणल् विशालदुबे उक्तवान्। " हिमसिंह: एवरस्ट् एक्स्पडिषन् २०१७ " ( स्नो लयण् एवरस्ट् एक्स्पडिषन् सप्तदशोत्तरद्विसहस्रम् )  इत्यासीत् दौत्यस्य नाम । अष्टचत्वारिंशदुत्तराष्टशताधिकाष्टसहस्रम् मीटर् उन्नतम् एवरस्ट् शृङ्गम् एतावता चतुस्सहस्राधिका:  आरूढवन्त:। एतेषु  सप्ताशीत्यधिकशतम् पर्वतारोहका: एव श्वासवायुस्तूपिकां विहाय शृङ्गमिदमारूढवन्त:। षट् षेर्पा मार्गनिर्देशकाश्च  सफलप्रयत्ना: । इदंप्रथमतया एक: सङ्घ: साहसिकयात्रायै प्रस्थित: इति वैशिष्ट्यम् भारतसेनाया: ।  लोकमूर्ध्नि  मानवेन पादस्पर्शं कृत्वा चतुष्षष्टिवर्षेषु पूर्तीकृतेषु  सुवर्णनिमिषेस्मिन्नेव सेनाया: दौत्यसाफल्यमित्यपि कौतुककरम्। त्रिपञ्चाशदुत्तरनवशताधिकसहस्रतमे  एड्मण्ड् हिलारि:  टेन्सिंग् नोर्गे च मिलित्वा  प्रप्रथमंम्  एवरस्ट् अधिरूढवन्तौ । एकसप्तत्युत्तरत्रिशतम्  पर्वतारोहकाणां कृते  अस्याम् ऋतौ  एवरस्ट् आरोढुम् अनुमतिर्दत्ता वर्तते नेपालेन । अस्मिन् वर्षे आहत्य एतावत्पर्यन्तं दश पर्वतारोहका: मृता:। आहत्य एतावता त्रिशतम् च मृतवन्त: । तेषु द्विशतानाम् मृतदेहोपि न प्राप्त:॥