OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 29, 2017

राममहोदयस्मारकसमित्या: पुरस्कार: अय्यम्पुषा हरिकुमाराय।
       कोच्ची>सर्वश्रेष्ठसंस्कृताध्यापकाय दीयमान: चोट्टानिक्करा राममहोदयस्मारकपुरस्कार: संस्कृताध्यापकाय तथा सम्प्रतिवार्ता अन्तर्जालवार्तापत्रिकाया:, अन्तर्जालशृङ्खलायाश्च मुख्यसम्पादकाय श्रीमते अय्यम्पुषा हरिकुमाराय। तेवरा सेन्ट् मेरीस् विद्यालयस्य अध्यापकोयम् संस्कृतभाषाप्रचारणाय 'सम्प्रतिवार्ता' नाम संस्कृतभाषा अन्तर्जालपत्रिकाम् आरब्धवान्। तत: विद्यालयीयछात्रान् संयोज्य अन्तर्जालवार्तावतरणं च प्रारब्धम्। सप्तदशोत्तरद्विसहस्रे राज्यस्तरीयोत्तमप्रवर्तनरूपेण सर्वशिक्षाभियानेन देशीयसङ्गोष्ठीम् प्रति चित: संरम्भ: अयम्। लोके इदंप्रथमतया एव छात्रा: (लघुबाला:) अन्तर्जालद्वारा वार्तां वाचयन्ति। संस्कृतभाषां नवमाध्यमै: अवतार्य भाषाप्रचारणे नूतनमार्ग: निर्मित: अनेन। एतादृशप्रवर्तनै: संस्कृतप्रचारणरङ्गे श्रद्धेयव्यक्ति: इति रूपेण पुरस्काराय एनं चितवन्त:। जुलै एकत्रिंशत्तमे सोमवासरे सायं त्रिवादने चोट्टानिक्करा सर्वकारीयोच्चविद्यालये प्रचाल्यमाने कार्यक्रमे अयम् पुरस्कृत: भविष्यति।