OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 10, 2017

भारताय चरित्रविजयः। 
भुवनेश्वर् > कलिङ्गयुद्धभूमौ भारताय अन्यः चरित्रविजयः।  एष्यायाः कायिकप्रतिभासङ्गमे [एष्यन् अत्लटिक् मीट्] इदंप्रथमतया भारताय प्रथमं स्थानम्।  प्रथमदिनादारभ्य अनुवर्तितम् अग्रगामित्वम् अन्तिमदिनं यावत् परिपाल्य भारतं द्वादश सुवर्णानि , पञ्च रजतानि, द्वादश कांस्यानि च लब्ध्वा एव प्रथमस्थानं प्राप्तवत्।  अन्तिमदिने भारतेन ५ सुवर्णानि, एकं रजतं, ३ कांस्यानि च प्राप्तानि।
     अष्ट, सप्त, पञ्च इति क्रमेण सुवर्ण रजत कांस्यपतकानि प्राप्य चीना द्वितीयस्थानं प्राप्रवती।  गतेषु १७ वारेष्वपि प्रथमस्थानं प्राप्तस्य चीनाराष्ट्रस्य सर्वाधिपत्यमेव अधुना भारतेन भञ्जितम्।  आगामी कायिकप्रतिभासङ्गमः २०१९तमे संवत्सरे दोहायां प्रचलिष्यति।