OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 19, 2017

संस्कृताय लन्दनतः नवदिल्ल्याम्
नवदिल्ली >संस्कृतभाषायाः संवर्धनमुद्दिश्य जुलाई मासस्य सप्तदशदिनांके नवदिल्ल्याम्  "संस्कृतभाषायाः वैश्विकसमुन्नयने महाविद्यालयानां भूमिका''  इति विषयमवलम्ब्य विशिष्टं सम्मेलनं समायोजितम् ।
           सम्मेलनमिदं बालभारतीपब्लिकस्कूल इत्यस्मिन् विद्यालये समनुष्ठितम् | तत्र दिल्लीस्थानां निजिविद्यालयानां प्रधानाचार्या: संस्कृतशिक्षकाश्च भागग्रहीतारः आसन् । लन्दननगरस्य सेंट्-जेम्स्-विद्यालयस्य निदेशकः पॉल्-पॉलमारोजा विद्यालयस्य संस्कृताध्यापिका हेलेनहार्परश्च लन्दननगरे संस्कृतस्य लोकप्रियतां महत्तां च प्रतिपादितवन्तौ| उभाभ्यां सेंट्-जेम्स्-विद्यालयस्य संस्कृतपाठ्यक्रमेण पाठ्यशैल्या च  छात्राणां व्यवहारे समागतानां सकारात्मक-सात्विक-सामाजिक-नैतिकपरिवर्तनां P.PT इति संगणकीयदृश्यांकनमाध्यमेन प्रदर्शनमपि प्रस्तुतम् |
मुख्यातिथिरूपेण CBSE इति केन्द्रीयमाध्यमिकशिक्षापरिषद: अध्यक्ष: राजेशकुमारचतुर्वेदी-महोदय: आसीत्।