OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 21, 2017

यू एन् स्थिराङ्गत्वम्; ट्रम्पं अनुभाव्य प्रतीक्षया भारतम्।
    न्यूयोर्क्> ऐक्यराष्ट्रसङ्घटनम् परिष्कर्तुं  यू एस् राष्ट्रपते: डोणाल्ड् ट्रम्पस्य निर्णयम् अनुभाव्य भारतम्, यू एन् रक्षासमित्यां स्थिराङ्गत्वमिति लक्ष्यं सार्थकम् भूयादिति प्रतीक्षायाम्। अधिकानि स्थिराङ्गानि संयोज्य यू एन् रक्षासमिति: परिष्करणीयेति भारतस्य चिरकालावश्यं, यू एस् इदानीन्तनविचाराश्च समानदिशि इति प्रतीक्षाया: कारणम्। यू एन् जनकीयसभासम्मेलने भागं वोढुम् आगता विदेशकार्यमन्त्री सुषमा स्वराज:, ह्य: यू एस् राष्ट्रपतिना ट्रम्पस्य आध्यक्ष्ये प्रवृत्ते उन्नततलयोगेपि भागं स्व्यकरोत्। यू एन् कार्यदर्शीप्रमुख: अन्टोणियो गुट्टेरसेन उन्नीयमानं यू एन् नवीकरणपद्धतिम् यू एसेन स्वागतीक्रियते इति श्वेतगृहवक्ता न्यवेदयत्। उभयकक्षिसहकरणम्, व्यापारसन्धीश्च दृढीकर्तुं पञ्चविदेशराष्ट्रप्रतिनिधिभिस्सह सुषमास्वराज: ह्य: मिलितवती। तुनीसिया, बहरैन्, लात्विया, यू ए ई, डेन्मार्क् एतेषां राष्ट्राणां विदेशकार्यमन्त्रिभिस्सहासीत् मेलनम्। बङ्गलादेशप्रधानमन्त्रिणा षेख् हसीनया सहापि सुषमा अमिलत्। किन्तु रोहिङ्ग्या अभयार्थिविषय: नैव चर्चित:। तन्मध्ये, ईजिप्त् राष्ट्रपति: अब्दल् फत्ता अल् सिसि  इस्रायेल् प्रधानमन्त्री बेन्यामिन् नेतन्याहुना सह प्रथममेलनायापि यू  एन् वेदिका अभवत्। मेखलाया: समाधानश्रमाणाम् भागत्वेन आसीदिदम् मेलनमिति पश्चात् विशदीकृतम्। पाकिस्थानप्रधानमन्त्री षाहिद् घाखान् अब्बासिश्च ह्य: न्यूयोर्कं प्राप्तवान्। कश्मीरविषय एव अधुनापि पाकिस्थानेन सभायाम् उन्नीयमानप्रधानप्रश्न: इति सर्वेषाम् मति:।