OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 18, 2017

मुम्बैनगरं निमज्जयितुं पुनरपि समेघघट्टनं वृष्टिपातः भविष्यति ।
घोरवृष्ट्या आगस्त्मासस्य नवविंशतिदिनाङ्के मुम्बैनगरे संभूतः जलोपप्लवः <सञ्चिकाचित्रं >
मुम्बै - अप्रतीक्षित वृष्ट्याघातात् मोचनात्पूर्वं मुम्बे निवासिनां कृते पुनरपि कालावस्थाकेन्द्रस्य सूचना   I सोमवासरादारभ्य त्रिदिनानि यावत् समेघघट्टं घोरवृष्टि: विभिन्नस्थलेषु भविष्यतीति कालावस्थानिरीक्षणकेन्द्रप्रवचनम्। अस्मिन् सन्दर्भे गोवा - मुम्बै इत्यादिस्थलेषु पुनरपि जलेपप्लवसंभावना भवतीति पूर्वसूचने अवदत् ।
कोङ्कण्‌ - कर्णाटकतीरप्रदेशेषु गोवायां मध्यप्रदेशे च घोरवृष्टिः भविष्यति। महाराष्ट्र-गुजरातसीमाप्रदेशेष्वपि वर्षा लभेत । आगास्त्मासस्य एकोनविंशतिदिनाङ्के भूतवर्षादुरितानन्तरमेव मुम्बैदेशाय पूर्वसूचनम्।
एकोनिवंशतितमे दिनाङ्के केवलं मुम्बैप्रदेशे   ३३१ मि. लि. मिता वर्षा अलभत । चतुर्विंशतिघण्टाभिरेव तादृशवर्षापातः समभवदित्यनेन नगरवासिनः क्लेशमनुभूतवन्तः I अधिकप्रदेशेषु जलोपप्लवः सञ्जातः । गतागतसेवनं सब्धम् । अतः सर्वकार: अवकाशं दत्तवान् ।
अष्टाविंशतिदिनाङ्कादार भ्य विंशतिदिनाङ्कपर्यन्तं  घोरवृष्टिः भविष्यतीति कालावस्थानिरीक्षणकेन्द्रेण पूर्वसूचनं दत्तमासीत् । दक्षिणकोङ्कणस्थासु रत्नगिरि-सिन्धुदुर्गजिल्ला स्वेव अतिवृष्टिः भविष्यति। उत्तरकोङ्कणान्तर्भूते मुम्बैनगरे पाल्गर्, राय्गढ्जिल्लासु च वर्षा तीव्रभावं प्राप्स्यति । मध्यमहाराष्ट्रे अपि समेघघट्टनम् अतिवृष्टिः भविष्यति।
कोङ्कण् तीरे गोवायां च केषुचित्प्रदेशेषु अतिघोरा वृष्टिः भविष्यति इत्येव पूर्वसूचनम्। अस्मिन्नेव दिने मध्यमहाराष्ट्रे कर्णाटकतीरप्रदेशेष्वपि घोरा वृष्टिः भविष्यति।
नवदशे दिनाङ्के कोङ्‌कण तीरे गोवायां च वर्षाया: किञ्चिदुपशमः भवेत्। किन्तु मध्यमहाराष्ट्रे कर्णाटकतीरप्रदेशेष्वपि घोरा वृष्टिः अनुवर्तेतI
विंशतिदिनाङ्के कोङ्कण्तीरे गोवायां च क्वचित् घोरवृष्टिः स्यात्। महाराष्ट्रे कर्णाटकतीरप्रदेशेष्वपि वृष्टिशमनं न स्यात्।
किन्तु एकविंशतितमे दिनाङ्‌के वृष्टिपातः न्यूनीभविष्यति इति कालावस्थानिरीक्षणकेन्द्रेण प्रकाशिते वार्ताविज्ञापने सूच्यते।