OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 22, 2017

बेङ्गलूरु-नगरे ‘द्वि-दिवसीय-संस्कृत-कार्यशाला’ सुसम्पन्ना


      बेङ्गलूरु> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः   ‘द्वि-दिवसीय-संस्कृत-कार्यशाला  (स्तरः – I)’ हैदराबाद् नगरस्य प्रसिद्धेन भाषावैज्ञानिकेन  डॉ. वाई.एन्. राव्-महोदयेन 2017-वर्षस्य सेप्टेम्बर्-मासस्य नवम-दशम-दिनाङ्कयोः बेङ्गलूरु-नगरे (कर्नाटक-राज्ये, भारते) ‘सायि विश्राम् होटल्’-परिसरे सुसम्पन्ना।

      कार्यशालायां बेङ्गलूरु-हुविनहदगलि-टूटिकोरिन्-हैदराबाद्-नगरेभ्यः विंशति-प्रतिभागिनः (पुरुषाः महिलाः बालाश्च) भागं गृहीतवन्तः।

       एतस्याः कार्यशालायाः दिनद्वयस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः  अभ्यासः  इत्यादीनि वैज्ञानिकदृष्टिकोण-द्वारा पाठितानि।   केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां  शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि  संस्कृतेन विशेषरूपेण पाठितम्।  श्रीमान् शक्तिवर्यः सम्भाषणसंस्कृत-वर्गाणां सञ्चालने सक्रिय-समर्थनं दत्तवान्।

        अस्याः संस्कृत-कार्यशालायाः आरम्भः 2017-सेप्टेम्बर्-मासस्य नवम-दिनाङ्के प्रातः दशवादने त्रिवारम् ‘ॐ’ इति मन्त्रोच्चारणेन अभवत्।  अन्ते निमेषं यावत् मौनमपि अनुष्ठितम्।


        श्रीमान् पी.आर. सेल्वगणेशः दीप-प्रज्ज्वलनानन्तरं कार्यशाला-स़ञ्चालकस्य डॉ. वाई.एन्. राव्-वर्यस्य   स्वागतं कृतवान् ।  डॉ. वाई.एन्. राव्-वर्यः विभिन्न-प्रदेशेभ्यः मातृभाषाभ्यः आयुर्वर्गेभ्यः च आगतानां प्रतिभागिनां स्वागतं कृतवान् ।  तत्परं  ‘साफिक, पुदुच्चेरी’ इति संस्थायाः संक्षिप्त-परिचयमपि  दत्तवान्।

             एतस्याः कार्यशालायाः समारोप-समारोहः 2017-सेप्टेम्बर्-मासस्य दशम-दिनाङ्के सायङ्काले   सार्धत्रिवादनतः सम्पन्नः। एतस्मिन् अवसरे ‘सायि विश्राम् होटल्’ इति संस्थायाः महाप्रबन्धकः श्रीमान् नितिन् आर्. फड्नीस् समारोहस्य अध्यक्षासनं गृहीतवान् । शृङ्गेरी-दक्षिणाम्नाय-श्री
शारदापीठस्यान्तर्गतायाः श्री-सुरसरस्वती-सभायाः निदेशकः डॉ. एन्.एस्. सुरेशः एतस्मिन् अवसरे मुख्य-अतिथिः अभवत्।

समारोहस्यारम्भः वेद-पण्डितद्वयस्य वेदपठनेन कुमारी. आशा-गणपति-महाभागायाः प्रार्थनया च अभवत् ।

डॉ. एन्.एस्. सुरेशः देवभाषा-संस्कृतस्य मूलस्य महत्त्वं संक्षिप्त-विवरणं च दत्तवान् । तदनन्तरं देशजनानां सर्वेषां  संस्कृतभाषाध्ययनस्यावश्यकतायाः समर्थनं कृतवान् ।

स्वीय-अध्यक्षीय-भाषणे श्रीमान् नितिन् आर्. फड्नीस् “अस्माकं देशस्य नागरिकाणां सर्वेषां संस्कृतभाषाध्ययनस्यावश्यकता विशेषतः सम्भाषणसंस्कृतस्याध्ययनावश्यकता अस्ति” इति उक्तवान् ।

तदनन्तरं मुख्य-अतिथिः प्रतिभागेभ्यः प्रमाणपत्र-वितरणम् अकरोत्।  तत्पूर्वं प्रतिभागिनः कार्यशालावसरे प्राप्तान् स्वानुभवान् प्रकटितवन्तः, सन्तृप्तिं सन्तोषञ्च सूचितवन्तः।   कार्यशाला-स़ञ्चालकः डॉ. वाई.एन्. राव्-वर्यः ‘धन्यवाद-समर्पणम्’ कृतवान् !

इयं संस्कृत-कार्यशाला ‘ॐ’ इति मन्त्रोच्चारणेन समाप्ता अभवत्।  अन्ते निमेषं यावत् मौनमपि अनुष्ठितम्।