OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 9, 2017

अधीतविद्यालयाङ्कणात् मृत् स्वीकृत्य तिलकं धृत्वा मोदिन: गुजरात्तयात्रा।।
    वटनगरम्( गुजरात्)>जन्मदेशे गुजराते वटनगरे प्रधानमन्त्री भूत्वा प्रथमयात्रावेलायां नरेन्द्रमोदिन: उज्ज्वलस्वीकरणम्। अधीतविद्यालयाङ्कणं नत्वा तत: किञ्चित् मृत् स्वीकृत्य ललाटे तिलकं यदा धृतं तदा ग्रामीणा: आवेशभरिता: अभवन्। अहमदाबादत: शतम् कि मी दूरे, मोहसानामण्डले प्राचीन-बौद्धधर्मकेन्द्रत्वेन विराजिते वटनगरे विभिन्नविकसनायोजनानाम् उद्घाटनाय एव रविवासरे प्रात: प्रधानमन्त्री आगतवान्। गुञ्जा हेलिमैदानात् नगरम् प्रति षट् कि मी यात्रा एकघण्टादैर्घ्ययुता मार्गप्रदर्शनमेव अभवत्। गतनिर्वाचने नव आसन्देषु भा ज पाम् संग्राह्य त्रयस्त्रिंशत् आसन्दै: मण्डलग्रामसभाया: शासनम् कोण्ग्रसेन गृहीता मेहसाना पटेलसंवरणसमरस्य प्रधानकेन्द्रेषु एका। मोदिन: सन्दर्शनम् आगामि नियमसभानिर्वाचनं लक्ष्यीकृत्य प्रचारणत्वेन पर्यवर्तयत् भा ज पा नेतृभि:। मार्गपार्श्वेषु प्रधानमन्त्रिण: बाल्यकालं चित्रयन्ति बृहत् फलकानि, शतानां  जनानाम् पुष्पवृष्टि: 
बहुत्र वाहनं स्थगयित्वा प्रधानमन्त्री जनान् अभिवादयन्नासीत्। बाल्यकाले चायाविक्रीतम् रेल्स्थानकं तत्रत्यम् आपणञ्च कमनीयरीत्या अलङ्कृतवन्त:। पूर्वविद्यालयस्य बी एन् विद्यालयस्य पुरत: वाहनं स्थगयित्वा अटन् अङ्कणमेत्य स: आदरमर्पयत्। तत: नगरस्य पुरातनमन्दिरे हटकेश्वरमहादेवमन्दिरे च आरतिमर्पयत्। वयोवृद्धान् कुशलमपृच्छत्। "" अहम् किमपि अभवम् चेत् तत् एतस्मात् मृत: पठितपाठेभ्य: एव......"" समाजसम्मेलने स: अवदत्। जी एम् ई आर् एस् वैद्यकीयकलालयस्य पञ्चशतं कोटि रूप्यकव्ययेन निर्मितं नूतनभवनम् स: उद्घाटितवान्। केरलं तथा सप्तदशराज्येषु सम्पूर्णशिशुरोगप्रतिरोधकार्यक्रमस्य इन्द्रधनुष: राष्ट्रत लोद्था स: निरवहत्।।