Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
विद्यालयच्छात्राः जनं टि वि माध्यमे संस्कृत-वार्तावतारकाः। वार्तावतारिका रूपेण मीनाक्षी एन् वी, श्रीलक्ष्मी जी, फात्तिमा मुण्डेत्त्, तारा जी एताः चिताः। एताः केरलराज्यस्य विद्यालयेषु पठन्ति।

marquee

अन्तरिक्षमलिनीकरणम्-सम-विषम-संख्या सम्प्रदायं कारयितुं देहली-सर्वकाराय विशेषानुमतिः।

Tuesday, November 14, 2017

Bookmark and Share
अद्य शिशुदिनम्। आभारतम् अद्य शिशुदिनम् आधुष्यते। 

     नवदिल्ली>भारतस्य राष्ट्रपतिना राम् नाथ् कोविन्देन तथा प्रधानमन्त्रिणा  नरेन्द्रमोदिना शिशुभ्यः बालिका-बालकेभ्यश्च सर्वेभ्यः शुभाशंसाः अर्पिताः। भारते विविध-राज्येषु तत्तत्प्रदेशस्थैः मुख्यमन्त्रिभिः  शिशु-दिनीयसमारोहस्य उद्‌घाटनं क्रियते। क्रीडा विनोदैः पदसञ्चलनादि शोभायात्रया च दिनमिदं शिशूनां चित्तेषु सामोदं विलसेत् इत्यत्र न वर्तते कोऽपि  सन्देहः। भारतस्य प्रथमस्य प्रधानमन्त्रिणः जवहर् लाल् नेहृ वर्यस्य जन्मदिनमेव शिशु दिनत्वेन पर्वायते।