OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 5, 2017

संस्कृतस्य प्रसारार्थं दीर्घधावनम्

           नवदिल्ली>संस्कृतस्य प्रसारार्थं संवर्धनार्थञ्च ग​तेषु ​दिने​षु ​[​१९​-नवम्बर’२०१​७, रविवासरे ] नवदिल्ल्यां जवाहरलाल-नेहरु-क्रीडाङ्गणतः दीर्घ-धावनम् आयोजितम् | अस्मिन् अनन्यतमायाः "नेक्टरलेण्ड्" [ NectarLand ] इति संस्कृतस्य स्वयं-सेविसंस्थायाः अनेकैः सदस्यैः सोत्साहं सहभागित्वं निर्व्यूढम् | नवम्बर-मासे प्रतिवर्षम् आयोज्यमाने अस्मिन् दीर्घधावने "नेक्टरलेण्ड्" [ NectarLand ]- इत्यस्याः इदं​ चतुर्थं ​सहभागित्वं वर्तते | एषा संस्था अभिकल्पनाभिः विविध-वर्णैः चित्रैश्च प्रकाशितैः हिन्दी-आङ्ग्ल-अनुवाद-लिप्यन्तरणयुतैः लघु-लघु-पुस्तकैः जनेषु, विशेषेण च युवजनेषु संस्कृतानुरागिषु च संस्कृत-भाषां संस्कृत-साहित्यञ्च प्रति पठन-संभाषण-रुचिं समुत्पाद्य “भाषैषा कठिना” इति भ्रान्तिम् अपनोदयति | ​अस्मिन् दीर्घ-धावने सहभागिभिः सम्भूय तारस्वरेण यदा "जयतु जयतु संस्कृतभाषा, वदतु वदतु संस्कृतभाषा", "सरला भाषा संस्कृतभाषा, सुगमा भाषा संस्कृतभाषा" चेति समाघोषाः उच्चारिता, तदा पूर्णोsपि परिवेशः संस्कृतमयः सञ्जातः | ​

        ​ ​अनया संस्थया वर्ष​-द्वय-पूर्वं​ भारतीय-संस्कृत-पत्रकार-संघेन आयोजितायां पञ्चम्यां संस्कृत-पत्रकार-संगोष्ठ्यां सहभागित्वम् आदाय संस्कृत-शिक्षणस्य कृते समाजे विहितानि संस्कृत-विषयकाणि विविध-कार्याणि प्रदर्शितानि आसन् | अस्याः संस्थायाः वैशिष्ट्यमस्ति यत् प्रायेण युवानः वैज्ञानिकाः, अभिकल्पकाः [ designers ], प्रविधिज्ञाः [ technicians ], अभियन्तारः, चित्रमुद्रण-विशेषज्ञाः [ graphic-experts ] च सदस्यत्वेन संस्कृत-कार्याणि परिनिष्ठित-भावेन समाचरन्ति |