OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 1, 2018

“मनोगतम्”  [सोपानम् ३९] 
 - नरेन्द्रमोदी        
    
[“मनोगतम्” - “मन की बात”- इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ] 
(प्रसारण-तिथि:- 31.12.2017)                          
 - भाषान्तर-कर्ता -  डॉ बलदेवानन्द-सागरः (संस्कृत वार्ता प्रसारकः)

            मम प्रियाः देशवासिनः ! नमस्कारः | इदं ‘मन की बात’-प्रसारणं हि, अस्य वर्षस्य अन्तिमोऽयं कार्यक्रमः, तथा च संयोगं पश्यन्तु यत् अद्य, सप्तदशोत्तर-विंशति-शत-तमस्य वर्षस्य अपि अन्तिमो दिवसोऽस्ति | सम्पूर्णेsपि वर्षेऽस्मिन् अनेके विषयाः अस्माभिः भवद्भिः च संविभाजिताः | ‘मन की बात’-प्रसारणस्य कृते भवद्भिः प्रेषितानां बहूनां पत्राणाम्, अनेकासां टिप्पणीनां, विविधानां च विचाराणाम् आदान-प्रदानम्, मम कृते तु सदा नूतनायाः ऊर्जायाः प्रदायकं सिद्ध्यति | 
      कासाञ्चन होराणाम् अनन्तरं वर्षमिदं परिवर्तिष्यते, परञ्च अस्मदीयः एषः कथा-क्रमः इतः परमपि एवमेव प्रवर्तिता| आगमिष्यमाणे वर्षे वयं, नवीनाः कथाः करिष्यामः, नूतनान् अनुभवान् च संविभाजयिष्यामः | भवद्भ्यः सर्वेभ्यः अष्टादशोत्तर-विंशति-शत-तम-वर्षस्य कृते भूरिशो मङ्गल-कामनाः | नातिचिरं डिसेम्बर-मासे पञ्चविंशति-तमे दिनाङ्के अशेष-जगति क्रिस्मस्-पर्व सोत्साहम् आमानितम् | भारतेsपि जनैः सोत्साहं पर्वेदम् आमानितम् | क्रिस्मस्-पर्वणि वयं ईसा-मसीहस्य बहुमूल्यान् उपदेशान् स्मरामः, तथा च, ईसा-मसीहेन यस्मै विषयाय सर्वाधिकं बलं प्रदत्तम्, सः आसीत्  - “सेवा-भावः” | सेवा-भावनायाः सारं वयं बाइबले अपि पश्यामः |  “The Son of Man has come, not to be served, But to serve, And to give his life, as blessing, To all humankind.”   अर्थात् मानव-पुत्रः समायातः, सेवा-प्राप्तये नैव, अपि तु सेवा-कार्यार्थम्, आशीर्भूतं स्वीयं जीवनं मानवतायै अर्पयितुम्” 
        इदं द्योतयति यत् किं नाम सेवायाः माहात्म्यम् ? भवतु नाम विश्वस्य काचिदपि जातिः, कश्चन अपि धर्मः, परम्परा, वर्णः वा, परञ्च सेवाभावो हि मानवीय-मूल्यानाम् अनुपम-अभिज्ञानत्वेन प्रवर्तते | अस्मदीये देशे ‘निष्काम-कर्म’-विषये सुबहु श्रूयते अर्थात् तादृशी सेवा या हि काञ्चिदपि अपेक्षां विना क्रियते | अस्माकं ग्रन्थेषु तु प्रोक्तमेव– “सेवा परमो धर्मः” | ‘जीव-सेवा एव शिव-सेवा’ तथा च, गुरुदेवः रामकृष्ण-परम-हंसः तु कथयति – शिव-भावेन जीव-सेवां कुर्यात् अर्थात् विश्वस्मिन् विश्वे एतानि सर्वाणि मानवीय-मूल्यानि तुल्यानि एव सन्ति | आगच्छन्तु, वयं सर्वे एतान् महापुरुषान्, पवित्र-दिवसान् च स्मरन्तः, अस्मदीयायै अस्यै महत्यै मूल्य-परम्परायै नूतनां चेतनां, नवीनाञ्च ऊर्जाम् आनयेम तथा च, स्वयमपि एनां जीवितुं
प्रयतेम |

       मम प्रियाः देशवासिनः ! एतद् वर्षं गुरुगोविन्द-सिंहस्य सार्ध-त्रिशती-रूपेण प्रकाश-पर्व-वर्षमपि आसीत् | गुरुगोविन्द-सिंहस्य साहस-त्याग-सम्भरितम् असाधारणं जीवनम् अस्माकं कृते प्रेरणा-स्रोतस्त्वेन वर्तते | गुरुगोविन्द-सिंहः महान्ति जीवन-मूल्यानि उपादिशत् तथा च, तानि आधृत्य स्वीयं जीवनं यापितवान् | अन्यतमः गुरुः, कविः, दार्शनिकः, महान् योद्धा च गुरुगोविन्द-सिंहः एतासु सर्वास्वपि भूमिकासु जनान् प्रबलतया प्रेरितवान् | असौ उत्पीडनम् अन्यायञ्च विरुद्ध्य संघर्षमकरोत् | जाति-धर्मयोः बन्धनानि परिहर्तुं सः जनान् शिक्षितवान् | एवंक्रियमाणः असौ व्यक्तिगतरूपेण बहुशः हानिमपि सम्मुखीकृतवान् | परञ्च सः न कदापि द्वेष-भावनान्वितः सञ्जातः | जीवनस्य प्रत्येकमपि क्षणे सः प्रेम्णः त्यागस्य शान्तेश्च सन्देशं प्रादात् | कियतीभिः महतीभिः विशेषताभिः सम्भरितमासीत् तस्य व्यक्तित्वम् ! ममेदं सौभाग्यं यत् एतद्-वर्षस्य आरम्भे गुरुगोविन्द-सिंहस्य सार्ध-त्रि-शती-जयन्त्याः अवसरे पटनासाहिब-स्थले आयोजिते प्रकाशोत्सवे सहभागित्वम् आवहम् | आगच्छन्तु, वयं सर्वेsपि संकल्पयेम तथा च, गुरुगोविन्द-सिंहस्य महद्भ्यः उपदेशेभ्यः प्रेरणादायि-जीवनात् च शिक्षाम् आदाय निज-जीवने तदाचरितुं प्रयतेम |
        अष्टादशोत्तर-विंशति-शत-तम-वर्षे जान्युआरि-मासे प्रथम-दिनम् अर्थात् श्वः, मम मन्तव्यानुसारेण श्वस्तनः विशिष्ट-दिवसः अस्ति | स्यात् भवन्तः अपि आश्चर्यम् अनुभविष्यन्ति यन्नूतनं वर्षम् आयाति, जान्युआरि-मासीयः प्रथम-दिनमपि प्रतिवर्षम् आगच्छति परं यदाहं विशिष्ट-दिनमिदम् इति कथयामि, तत्तु नूनं विशिष्टमेव ! ये जनाः [ 2000 ] द्विसहस्र-तमे वर्षे जनिं लब्धवन्तः आहोस्वित् ततः परं जाताः अर्थात् एकविंशति-तमे शताब्दे समुत्पन्नाः ते अष्टादशोत्तर-विंशति-शत-तम-वर्षे जान्युआरि-मासे प्रथम-दिनात् मतदातृ-रूपेण अर्हाः भवितारः | भारतीय-लोकतन्त्रं, एकविंशति-तम-शताब्दस्य मतदातॄणां, नूतन-भारतं भवतां मतदातॄणां स्वागतं करोति | अहम्, एतान् अस्मदीयान् युव-जनान् वर्धापयामि, सर्वान् च साग्रहं व्याहरामि यत् भवन्तः आत्मानं मतदातृ-रूपेण पञ्जीकारयन्तु | अशेष-भारतं भवतः एकविंशति-तम-शताब्दस्य मतदातृ-रूपेण वर्धापयितुं लालायते | एकविंशति-तम-शताब्दस्य मतदातृ-रूपेण भवन्तः अपि गौरवमनुभवेयुः | भवतां मतदानं नूतन-भारतस्य आधारः सेत्स्यति | मतदानस्य शक्तिः, कस्मिन्नपि लोकतन्त्रे महत्तमा शक्तिः भवति | लक्षशो जनानां जीवने सकारात्मकं परिवर्तनम् आपादयितुं मतदानं हि सर्वोत्तमं प्रभावि साधनं वर्तते | न केवलं भवन्तो मतदानार्थम् अर्हाः भवन्ति अपि तु, एकविंशति-तम-शताब्दस्य भारतं कीदृशं स्यात् ? एकविंशति-तम-शताब्दस्य भवतां स्वप्नानि कानि स्युः ? भवन्तोsपि एकविंशति-तम-शताब्दस्य भारतस्य निर्मातारः भवितुम् अर्हन्ति तथा च, अस्य आरम्भः जान्युआरिमासस्य प्रथम-दिनाङ्कात्   विशेषरूपेण सञ्जायते | तथा चाद्य स्वीयेsस्मिन् ‘मन की बात’-प्रसारणे अहम् अष्टादशतः पञ्चविंशति-वर्षीयैः ऊर्जा-संकल्प-सम्भरितैः यशस्विभिः युवभिः सम्भाषितुमीहे | अहमेतान् ‘New India Youth’-इति नूतन-भारतस्य तारुण्यम् आमिनोमि | नूतन-भारतस्य तारुण्यम् इत्यस्य अर्थो भवति- उमङ्गः, उत्साहः, ऊर्जा च | दृढमहं विश्वसिमि यत् अस्मदीयानाम् एतेषां ऊर्जावतां यूनां कौशलेन शक्त्या चैव अस्माकं नूतन-भारतस्य स्वप्नं पूर्णं भविता | यदा वयं नूतन-भारत-विषये वदामः, तदा तु, इदं हि तत् भारतं यद्धि जातिवाद-सम्प्रदायवाद-आतङ्कवाद-भ्रष्टाचाराणां गरलात् मुक्तं स्यात् | अस्वच्छतातः निर्धनतातः च मुक्तं स्यात् | ‘New India’ - इति नूतनं भारतं यत्र सर्वेभ्योsपि तुल्यावसराः भवेयुः, यत्र च सर्वेषामपि आशाः आकाङ्क्षाः च पूर्णाः स्युः | अभिनवं भारतं यत्र शान्तिः, एकता, सद्भावना चैव अस्मदीया सञ्चालन-शक्तिः भवेत् | ममेदं नवीन-भारतस्य तारुण्यम् अग्रे आगच्छेत् मन्थनं च कुर्यात् यत् केन विधिना भविष्यति नवीनं भारतम् ? सः स्वयमपि आत्मनः कृते मार्गं निश्चिनुयात्, यैः साकं सः सम्पृक्तोsस्ति, तान् अपि संयोजयेत्, एवं हि पथिक-सार्थः संवर्धेत | भवन्तोsपि अग्रेसरन्तु, देशोsपि अग्रेसरेत् | सद्यः यदाहं भवद्भिः सम्भाषे तदा मम मनसि विचारः स्फुरितः यत् किं वयं भारतस्य प्रत्येकमपि जनपदे mock parliament- इति विडम्बितां संसदम् आयोजयितुं शक्नुमः ? यत्र अष्टादशतः पञ्चविंशति-वर्षीयाः युवानः, सम्भूय नूतन-भारत-विषयकं मन्थनं कुर्युः, मार्गान् मृगयेयुः, योजनाः विरचयेयुः ? केन प्रकारेण च वयं अस्मदीयानि स्वप्नानि एतत्-शताब्दस्य द्वा-विंशति-तम-वर्षात् पूर्वमेव साधयिष्यामः ? केन प्रकारेण च वयं तादृशं भारतं विरचयिष्यामः यस्य स्वप्नम् अस्मदीयाः स्वतन्त्रता-सैनिकाः अवालोकयन् ? महात्म-गाँधी स्वतन्त्रतायाः आन्दोलनं जनान्दोलनं व्यदधात् |
        मम तरुणाः सखायः ! साम्प्रतं कालस्य इयम् अपेक्षा यद्वयं अपि एकविंशति-तम-शताब्दस्य भव्य-दिव्य-भारतस्य कृते जनान्दोलनमेकं प्रवर्तयेम | विकासस्य जनान्दोलनम् ! प्रगतेः जनान्दोलनम् !! सामर्थ्यवतः शक्तिशालिनश्च भारतस्य जनान्दोलनम्  !!! अहमभिलषामि यत् ओगष्ट-मासे प्रायेण पञ्चदशे दिनाङ्के दिल्ल्याम् एकां विडम्बितां परिभावितां च संसदम् आयोजयेम यत्र प्रत्येकमपि जनपदात् चितः एकः युवा, विषयमेनं परिचर्चेत यत् आगामिनि वर्ष-पञ्चके नूतन-भारतस्य निर्माणं केन प्रकारेण कर्तुं शक्यते ? संकल्पतः सिद्धिः कथं प्राप्तुं शक्यते ? सम्प्रति यूनां कृते बहवः अवसराः सञ्जाताः | Skill Development- इति कौशल-विकासतः Innovation-entrepreneurship- इति नवाचार-उद्यमिता-क्षेत्रे अस्मदीयाः युवानः अग्रगामिनो भवन्ति सफलाश्च वर्तन्ते | अभिलषामि यत् एतेषां सर्वेषामपि अवसराणां योजनानां सूचना नवीन-भारतस्य तरुणाः एकत्र एव कथं प्राप्नुयुः ? तथा च, विषयेsस्मिन् तादृशी काचित् व्यवस्था भवेत् येन प्राप्ते सति अष्टादश-वर्षीयायुषि सः एतत्-जगतः, एतेषां विषयाणां कृते च सहजतया सूचितो भवेत्, स च आवश्यकान् लाभान् अपि अवाप्नुयात् |
              मम प्रियाः देशवासिनः ! विगते ‘मन की बात’-प्रसारणे अहं भवतां समक्षं positivity- इति उत्साह-निश्चययोः महत्व-विषये किञ्चित् ख्यापितवान् |  साम्प्रतं संस्कृत-वाङ्मयस्य श्लोकमेकं स्मरामि –     

       उत्साहो बलवान् आर्य ! नास्त्युत्साहात् परं बलम् |               
       सोत्साहस्य च लोकेषु न किञ्चिदपि दुर्लभम् ||                   
             अर्थात् उत्साह-समन्वितः जनः अतितरां बलशाली भवति, यतो हि उत्साहात् परं न किमपि उत्तमं विद्यते | उत्साह-समन्वितस्य रचनात्मकता-युतस्य च जनस्य कृते न किञ्चिदपि अशक्यमस्ति | आङ्ग्ल-भाषायाम् अपि जनाः निगदन्ति – ‘Pessimism leads to weakness, optimism to power’ | निराशावादः दुर्बलताम् अनुभावयति, आशावादश्च शक्तिं प्रददाति | विगते ‘मन की बात’-प्रसारणे देशवासिनो मया प्रार्थिताः आसन्  यत् ते वर्षेsस्मिन् अधिगतान् रचनात्मकान् क्षणान् संविभाजयेयुः तथा च, आगामि-वर्षस्य स्वागतं रचनात्मके आशापूर्णे च परिवेशे कुर्युः | नूनं प्रसीदामितरां यत् जनानाम् अधिसंख्यं सामाजिक-सञ्चार-माध्यमेषु, MyGov-NarendraModi App - चेत्यत्र सोत्साहं उत्तरितवत्, स्वीयान् अनुभवान् च संविभाजितवत् | Positive India hashtag (#)- इत्यनेन सह लक्षशो tweet-सन्देशाः विहिताः ये हि प्रायेण सार्धैक-कोट्यधिक-जनैः अवगताः |  एकतः उत्साहस्य अयं सञ्चारः भारताद् आरभत, स च, कृत्स्नेsपि जगति प्रसृतो जातः | ये हि tweet-सन्देशाः अपराणि चोत्तराणि अधिगतानि तानि सुतरां प्रेरणादायीनि वर्तन्ते | अयं हि सुखदोsनुभवः आसीत् | केचन देशवासिनः वर्षेsस्मिन् तान् घटनाक्रमान् संविभाजितवन्तः ये हि तेषां मनान्सि विशेषेण सकारात्मक-रूपेण   प्रभावितवन्तः, केचन तु स्वीयानां व्यक्तिगतोपलब्धीनां संविभाजनं कृतवन्तः |
ध्वनि-सन्दर्भाः {साउंड बाईट} #
# मम नाम मीनू भाटिया अस्ति | अहं मयूर-विहार-पॉकेट-वन-फेज़-वन- दिल्ल्यां निवसामि | मम पुत्री एम.बी.ए.-इति अध्ययनं वाञ्छति स्म, एतदर्थं मह्यं बैङ्कात् ऋणम् अपेक्ष्यते स्म तद्धि अहं अतितरां सरलतया प्राप्तवती तथा च, मम पुत्र्याः अध्ययनं निर्विघ्नं प्राचलत् | 
# मम नाम ज्योति-राजेंद्र-वाडे अस्ति | अहं बोडल-तः वदामि | मम पतिः प्रतिमासं रूप्यक-प्रदेयं आगोपं कृतवान् | दुर्घनायां सः मृतः | तस्मिन् समये अस्मदीया अवस्था कीदृशी जाता - तत्तु वयमेव जानीमः | सर्वकारस्य अमुना साहाय्येन वयं प्रभूतं लाभान्विताः जाताः, अहञ्च आश्वस्ता संवृत्ता | 
# मम नाम संतोष-जाधवः अस्ति |  ऐषमः वर्षे, अस्मदीयात् भिन्नर-ग्रामतः National Highway- इति राजमार्गः प्रावर्तत | एतस्मात् कारणात् अस्मदीयः मार्गः समीचीनः समभवत् तथा च, व्यापार-कार्याणि अपि वर्धमानानि सन्ति |
# मम नाम दीपांशु-आहूजा, मोहल्ला-सादतगंज, ज़िला-सहारनपुरम्, उत्तर-प्रदेश-निवासी अस्मि | भारतीय-सैनिकानां घटना-द्वयं वर्तते- एतयोः अन्यतरा तु - पाकिस्तानोपरि विहितं  surgical strike-इति शस्त्र-निपातनात्मकम् आक्रमणं येन आतङ्कवादस्य आरम्भिक-सोपानानि समूलं प्रणाशितानि, युगपदेव अस्मदीयानां भारतीय-सैनिकानां पराक्रमं डोकलाम्-इत्यत्र दृष्टवन्तः सः तु अतुलनीयः एवास्ति |
# मम नाम सतीश-बेवानी अस्ति | अस्मदीयायां वसतौ पेय-जलस्य समस्या आसीत् | प्रायेण विगतेभ्यः चत्वारिंशत्-वर्षेभ्यः वयं सेनायाः जल-प्रणालिकासु निर्भराः आस्मः | अधुना एषा पृथक्तया प्रणालिका व्यवस्थापिता अस्ति, नूनम् इयम् अस्य वर्षस्य अस्मदीया महती उपलब्धिः वर्तते | 
        एतादृशाः अनेके जनाः सन्ति ये नैजेषु स्तरेषु तादृन्शि कार्याणि कुर्वन्ति यानि अनेकेषां जीवनेषु सकारात्मकं परिवर्तनं विदधति | वस्तुतस्तु एतदेवास्ति - नूतनं भारतम् - यस्य निर्माणं वयं सर्वे सम्भूय कुर्मः | आगच्छन्तु, आभिः लघु-लघु-प्रसन्नताभिः सहैव वयं नव-वर्षे प्रविशेम, नव-वर्षस्य शुभारम्भं करवाम, तथा च, ‘positive India’-इति रचनात्मक-भारततः ‘progressive India’- इति प्रगतिशील-भारतस्य दिशि दृढतरं पद-क्षेपं विदधेम | अस्मिन् सन्दर्भे अहमपि कश्मीरस्य प्राशासनिक-सेवा-स्पर्धायाः प्रथम-स्थान-भाजिनः अंजुम-बशीर-खान-खट्टकस्य ( Anjum Bashir Khan Khattak) प्रेरणादायि-वृत्तम् उदाहर्तुम् अभिलषामि | सः विद्वेष-आतङ्कवादयोः दंशात् बहिः निष्क्रम्य Kashmir Administrative Service-परीक्षामुत्तीर्य प्रथमं स्थानम् अध्यगच्छत् | भवन्तः उदन्तमिमं श्रुत्वा आश्चर्यम् अनुभविष्यन्ति यत् विगते शताब्दे नवतितमे वर्षे आतङ्कवादिनः तस्य पैतृकं गृहं प्रदाहितवन्तः | तत्र हिंसातङ्कवादयोः तादृशः परिवेशः आसीत् येन विवशीभूतं तस्य कुटुम्बं स्वीय-पैतृक-भूमिं अत्यजत् | लधुः बालकः यं परितः यः हिंसा-परिवेशः आसीत्, हृदि अन्धकारात्मकं कटुतरं च भावं जनयितुम् अलमासीत् - परञ्च अंजुमः एवम् नैवाकरोत् | सः न कदापि आशां पर्यत्यजत् | सः आत्मनः कृते पृथगेकं पन्थानम् अवाचिनोत् - जनानां सेवा-मार्गम् | साम्प्रतमसौ न केवलं जम्मू-कश्मीरस्यैव, अपि तु अशेष-देशस्य यूनां कृते प्रेरणा-प्रदः सिद्ध्यति | अंजुमेन इदं प्रमाणितं यत् कस्याञ्चन अपि प्रतिकूलायां स्थितौ सकारात्मकैः कार्यैः निराशायाः अभ्रम्लिहाः अपि ध्वंसयितुं शक्यन्ते |     
               नातिचिरं विगते एव सप्ताहे अहं जम्मू-कश्मीरस्य काश्चन पुत्रीः मेलितुम् अवसरं लब्धवान् | तासु अप्रतिमः भावः, अतुलनीयः उत्साहः, उत्कृष्टानि च स्वप्नानि आसन्, मया श्रुतं यत्ताः जीवनस्य केषु केषु क्षेत्रेषु प्रगतिमनुष्ठातुं समीहन्ते | ताश्च कियतीं प्रबलाम् आशां सन्धारयन्ति ! ताभिः साकं संवादावसरे मया अनुभूतं यत्तासु निराशा-लेशोsपि नैवास्ति - उत्साहः, उमङ्गः, ऊर्जा, स्वप्नानि, संकल्पाः चैवासन्  | अहमपि प्रेरितोsभवम् | एषा एवास्ति - देशस्य शक्तिः, एते एव सन्ति मदीयाः युवानः, एतत् एव विद्यते मदीय-देशस्य भविष्यत् |
       मम प्रियाः देशवासिनः ! न केवलं अस्मदीयस्य देशस्य अपितु, विश्वस्य प्रसिद्ध-धार्मिक-स्थलानि यदा यदा चर्च्यन्ते तदा केरलस्य सबरीमाला-मन्दिरस्य चर्चा स्वाभाविकतया भवत्येव | विश्व-प्रसिद्धेsस्मिन् मन्दिरे, भगवतः अय्यप्पा-स्वामिनः आशीर्वादम् आदातुं प्रतिवर्षं श्रद्धालवः कोटिशो जनाः आयान्ति | यत्र एतावन्तो बृहन्मात्रिकाः श्रद्धालवः आयान्ति तत्र स्वच्छता-सन्धारणं हि कियत् दुष्करं समाह्वान-रूपम् ? विशेषेण तस्मिन् स्थले यद्धि पर्वतानां काननानाञ्च मध्ये विराजते | परञ्च एनां समस्यां संस्कारत्वेन केन प्रकारेण परिवर्तयितुं शक्यते, जन-सहभागित्वस्य च कियती शक्तिः वर्तते चेति प्रमाणयितुं सबरीमाला-मन्दिरं हि उदाहरण-रूपं वर्तते | पी.विजयन्-नाम रक्षि-अधिकारी ‘पुण्यम्  पुन्कवाणम्’ (Punyam Poonkavanam) इत्यभिधेयं कार्यक्रमम् आरभत यस्यान्तर्गतं स्वच्छतायाः जागरुकतायै स्वैच्छिकम् अभियानं सः प्रवर्तितवान् | तेन एतादृशी परम्परा प्रवर्तिता यत् यः कश्चन अपि यात्री आगच्छति, तस्य यात्रा तावदेव पूर्णा नैव भविष्यति यावत् सः स्वच्छता-कार्यक्रमे कञ्चन अपि शारीरिक-श्रमं नैव विधास्यति | अभियानेsस्मिन् न कश्चन ज्येष्ठः वा श्रेष्ठः वा न कश्चन कनिष्ठो वा लघुः भवति | प्रत्येकमपि यात्री, भगवतः पूजायाः अंशत्वेन किञ्चित्-कालार्थं स्वच्छता-कार्याणि करोति, मलिनतायाः अपसारणं च विदधाति | प्रति-प्रभातं अत्र स्वच्छतायाः दृश्यम् अतितराम् अद्भुतं भवति, सर्वेsपि तीर्थयात्रिणः सम्भूय अत्र संलग्नाः भवन्ति | भवतु नाम कश्चन विशिष्टो जनो वा समृद्धो वा विशेषाधिकारी, प्रत्येकमपि सामान्य-यात्रि-रूपेण ‘पुण्यम् पुन्कवाणम्’ (Punyam Poonkavanam)- इति कार्यक्रमस्य अङ्गत्वेन स्वच्छतां विधाय एव अग्रे यान्ति | अस्माकं देशवासिनां कृते एतादृन्शि अनेकानि उदाहरणानि सन्ति | सबरीमाला-क्षेत्रे एतावत्-सम्वर्धितम् एतत् स्वच्छता-अभियानम्, तत्रापि च ‘पुण्यम् पुन्कवाणम्’ (Punyam Poonkavanam), इदं हि प्रत्येकमपि यात्रिणः यात्रायाः अङ्गमेव भवति | तत्र कठोर-व्रतेन साकं स्वच्छतायाः कठोर-संकल्पः अपि युगपदेव प्रचलति |
           मम प्रियाः देशवासिनः ! एतद्-शताब्दस्य चतुर्दशे वर्षे ओक्टोबर-मासे द्वितीये दिने पूज्य-बापू-वर्यस्य जन्म-जयन्त्याः अवसरे वयं सर्वे संकल्पितवन्तः यत् पूज्य-बापू-वर्यस्य अपूर्णं कार्यं यद्धि ‘स्वच्छ-भारतम्’, ‘मलिनता-मुक्तं भारतम्’ चेति वर्तते, तस्य सार्ध-शती भवेत् तदा अस्यां दिशि नूनं किञ्चिद् किञ्चिदपि करवाम | स्वच्छतादिशि सम्पूर्णेsपि भारते व्यापक-स्तरीयः प्रयासो भवति | ग्रामीणेषु महानगरीयेषु च क्षेत्रेषु व्यापकेण जन-सहभागितयापि परिवर्तनं दृग्गोचरीभवति | पौर-क्षेत्रेषु स्वच्छता-स्तरस्य उपलब्धीनाम् आकलनार्थम् आगामिनि जान्युआरिमासे चतुर्थ-दिनाङ्कतः मार्च-मासीयं दशम-दिनं यावत् जगतः सर्वोच्चं सर्वेक्षणं- ‘स्वच्छ-सर्वेक्षणम् - अष्टादशोत्तर-एकविंशति-तम-वर्षम्-[2018]’- इति विधास्यते | सर्वेक्षणमिदं, चतुःसहस्राधिकेषु नगरेषु प्रायेण चत्वारिंशत्-कोट्यधिक-जनानां वसतिषु विधास्यते | अस्य सर्वेक्षणस्य अवधौ, नाना वृन्दानि विभिन्नानि नगराणि निरीक्षिष्यन्ते | नागरिकैः सम्भाष्य तेषां प्रतिभावान् एकत्रीकरिष्यन्ति | स्वच्छता-App- इति उपादानस्य उपयोगेण तथा च, विभिन्न-प्रकारकेषु सेवा-स्थलेषु सञ्जातान् परिष्कारान् विश्लेषयिष्यन्ति | स्वच्छता, न केवलं प्रशासनस्य दायित्वम् | प्रत्येकमपि नागरिकः नागरिक-संघटनानि चापि एतदर्थं नितरां समुत्तरदायीनि सन्ति | सर्वान् नागरिकान् प्रार्थये यत्ते सम्पत्स्यमानेsस्मिन् स्वच्छता-सर्वेक्षणे सोत्साहं सहभागित्वं निर्वाहयेयुः | दृढं विश्वसिमि यत् गृहस्य शुष्कम् आर्द्रञ्च अवकरं पृथक्-कृत्वा नील-वार्णिकेषु हरित-वार्णिकेषु च कण्डोलेषु निक्षेप्स्यन्ति | अवकरस्य मलिन-वस्तूनाञ्च reduce, re-use, re-cycle- इति अपचय-पुनःप्रयोग-पुनःसर्जनात्मकः सिद्धान्तः अतितरां प्रभावी भवति | यदा जान्युआरिमासे चतुर्थ-दिनाङ्कतः मार्च-मासीयं दशम-दिनं यावत् जगतः सर्वोच्चं सर्वेक्षणं- ‘स्वच्छ-सर्वेक्षणं भविता तदा स्वच्छतायाः अस्यां स्वस्थ-स्पर्धायां कदाचित् भवान् पश्चवर्ती मा स्यादिति - प्रत्येकमपि नगरे सार्वजनिक-चर्चायाः विषयो भवेत् | भवतां सर्वेषां इदं स्वप्नं स्यात्, ‘अस्मदीयं नगरम् - अस्मदीयः प्रयासः’, ‘ अस्मदीया प्रगतिः - देशस्य प्रगतिः’ | आगच्छन्तु, अमुना संकल्पेन साकं वयं सर्वे पुनरेकवारं पूज्य-बापू-चरणं स्मरन्तः स्वच्छ-भारतस्य संकल्पं स्वीकुर्वन्तः पुरुषार्थस्य पराकाष्ठाम् अनुतिष्ठेम |
         मम प्रियाः देशवासिनः ! केचन विषयाः प्रथम-दृष्ट्या लघवः प्रतीयन्ते परञ्च समाज-दृशा अस्मदीयम् अभिज्ञानं सुदीर्घकालं यावत् सततं प्रभावयन्ति | अद्यतनस्य ‘मन की बात’-प्रसारणस्य माध्यमेन अहं भवद्भिः साकं तादृशमेकं विषयं संविभक्तुं वाञ्छामि | अहं सूचितोsस्मि यत् काचित् मुस्लिम-महिला, हज-यात्रार्थं गन्तुकामा अस्ति चेत् सा ‘महरम’-इति वा स्वीय-पुरुष-अभिभावकं विना गन्तुं नैव शक्नोति | मया चिन्तितं यत् केन अयं नियमः विरचितः ? कथम् एतादृशो भेद-व्यवहारः ? मया गभीरतया चिन्तितं तदा आश्चर्यम् अनुभूतम् - स्वतन्त्रतायाः प्राप्तेः सप्ततेः वर्षाणाम् अनन्तरमपि एतादृक्-नियमनस्य प्रवर्तकाः अपि वयमेव | विगतेभ्यः दशकेभ्यः मुस्लिम-महिलाभिः साकम् अन्याय-व्यवहारः प्रवर्तते स्म, परञ्च न केनापि विषयोsयं चर्च्यते स्म | न केवलम् एतावदेव, केषुचित् इस्लामिक-देशेष्वपि एतादृशो नियमः नास्ति | परञ्च भारते मुस्लिम-महिलानां कृते अयमधिकारः सुलभः नासीत् | प्रसन्नताम् अनुभवामि यत् अस्मदीयेन सर्वकारेण एतद् अवहितम् | अस्माकम् अल्पसंख्यक-कार्य-मन्त्रालयेन आवश्यकोपायाः विहिताः तथा च, सप्तति-वर्ष-प्राचीनां परम्पराम् उत्सार्य एतादृक्-नियमनम् अपाकृतम् | साम्प्रतं मुस्लिम-महिलाः, ‘महरम’-इत्येनं विना हज-यात्रार्थं गन्तुं शक्नोति, अहं नितरां प्रसीदामि यत् ऐषमः क्रमे देशस्य प्रायेण विभिन्न-भागेभ्यः त्रयोदश-शत-मिताः मुस्लिम-महिलाः ‘महरम’-इत्येनं विना हज- यात्रार्थम् आवेदितवत्यः | अल्पसंख्यक-कार्य-मन्त्रालयमहं परामर्शितवान् यत् तादृशीः सर्वाः अपि महिलाः हज-यात्रायै अनुमताः स्युः | पूर्ण-विश्वासेन वदामि यत् भारतस्य विकास-यात्रा, अस्माकं नारी-शक्तेः बलाधृतास्ति, तासां प्रतिभाधारेण समुन्नता तथा च, सततम् अग्रेसरिष्यति | अस्मदीयोsयम् अनारतः प्रयासः स्यात् यत् अस्माकं महिलाः अपि पुरुष-तुल्यान् अधिकारान् अवाप्नुयुः, समानावसरान् च लभेरन्, येन ताः अपि प्रगति-पथि युगपदेव सम्भूय अग्रेसर्तुं पारयेयुः |
           मम प्रियाः देशवासिनः ! जान्युआरि-मासीयं षड्-विंशतमं दिनम्  अस्माकं कृते ऐतिहासिक-पर्व वर्तते  | परम् ऐषमः दिनमिदं विशेषतया स्मरिष्यते | एतद्-वर्षीये  गणतंत्र-दिवस-समारोहे सर्वेषामपि दश-संख्याकानाम् आसियान-(ASEAN)-देशानां नेतारः मुख्य-अतिथि-रूपेण भारतमागमिष्यन्ति | गणतंत्र-दिवसावसरे अस्मिन् क्रमे एकः एव नैव ‘दश’ (10) मुख्याः अतिथयो भवितारः | भारतस्य इतिहासे पूर्वं न कदाचिद् एवं जातम् | एतद्-वर्षं सप्तदशोत्तर-द्विसहस्रतमम् [2017], आसियान-(ASEAN) देशानां भारतस्य च कृते विशिष्टमेव अवर्तत | आसियान-संघटनेन (ASEAN)- सप्तदशोत्तर-द्विसहस्रतमे वर्षे स्वीयानि पञ्चाशत्-वर्षाणि पूर्णतां नीतानि, अपि च, सप्तदशोत्तर-द्विसहस्रतमे एव वर्षे आसियान-संघटनेन (ASEAN) साकं भारतस्य सहभागितायाः पञ्च-विंशति-मितानि वर्षाणि पूर्णतां नीतानि | जान्युआरि-मासीये षड्-विंशे दिनाङ्के विश्वस्य दश-देशानां महान्तः नेतारः सम्भूय समुपस्थास्यन्ते इति तु सर्वेषामपि भारतीयानां कृते गौरवास्पस्दमेव |
        मम प्रियाः देशवासिनः ! अयं हि उत्सवानाम् ऋतुः | वस्तुतस्तु अस्मदीयोsयं देशः पर्वणाम् उत्सवानाञ्च देशोsस्ति | स्यादेव कश्चन दिवसोsस्ति यस्मिन् पर्व वा उत्सवो वा नास्ति | नातिचिरम् अस्माभिः क्रिस्मस्-उत्सवः आमानितः, इतः परं नूतन-वर्षमागम्यमानमस्ति | आगामि-नूतन-वर्षं भवतां सर्वेषां कृते अनेक-विध-प्रसन्नता-प्रदायकं सुख-समृद्धि-वर्धकञ्च स्यादिति | वयं सर्वेsपि नवीनेन उत्साहेन, नूतनेन उमङ्गेन, अभिनवेन संकल्पेन, नूत्नया च ऊर्जया च साकम् अग्रेसरेम, राष्ट्रमपि अग्रेसारयेम | जान्युआरि-मासः आदिदेवस्य आदित्यस्य सूर्यस्य उत्तरायण-गमनस्य कालोsस्ति, तथा च अस्मिन्नेव मासे मकर-संक्रान्तिः आमान्यते | एतद्धि प्रकृत्या सम्पृक्तं पर्व वर्तते | यद्यपि अस्मदीयं प्रत्येकमपि पर्व कथं कथञ्चन रूपेण प्रकृत्या सम्पृक्तं वर्तते परञ्च विविधता-पूर्णायाम् अस्मदीयायां संस्कृतौ, प्रकृतेः अद्भुत-घटनायाः  पृथक्-पृथक्-रूपेण आयोजनस्य प्रथापि वर्तते | पंजाबे उत्तर-भारते च लोहड़ी-पर्व सानन्दम् आयोज्यते, अपरतः उत्तर-प्रदेशेsपि, अपरत्र च, बिहारे खिचड़ी-तिल-संक्रांति-पर्व सोत्साहं प्रतीक्ष्यते | राजस्थाने संक्रांत-इति, असम-राज्ये च माघ-बिहू-इति, आहोस्वित् तमिलनाडु-राज्ये पोंगल-इति - एतानि सर्वाणि अपि पर्वाणि निज-वैशिष्ट्य-युतानि सन्ति, एतेषां सर्वेषामपि नैजं नैजं महत्वमस्ति | एतानि सर्वाण्यपि पर्वाणि प्रायेण जान्युआरि-मासस्य त्रयोदशतः सप्तदश-दिनाङ्कस्य मध्ये आयोज्यन्ते | एतेषां सर्वेषाम् उत्सवानां नामानि पृथक्-पृथक् वर्तन्ते परञ्च एतेषां मूल-तत्वन्तु एकमेवास्ति - प्रकृत्या कृष्या च सार्धं सम्पृक्तिः | 
      सर्वेषामपि देशवासिनां कृते एतेषां शुभ-पर्वणाम् अवसरे भूरि भूरि शुभकामनाः वितरामि | पुनरेकवारं अष्टादशोत्तर-विंशति-तमेति नूतन-वर्षावसरे हार्दिक्यः मङ्गल-कामनाः |  भूरिशो धन्यवादाः ! प्रियाः देशवासिनः ! इतः परम् अष्टादशोत्तर-विंशति-तमे वर्षे पुनः सम्भाषणं करिष्यामः |  धन्यवादः !
                     
             ---     भाषान्तर-कर्ता -   डॉ.बलदेवानन्द-सागरः
                      दूरभाषः -   ९८१० ५६२२ ७७
                      ईमेलः - baldevanand.sagar@gmail.com