Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ अक्षयतृतीया कनकधारायज्ञः- अादिशङ्करस्य जन्मभूमौ - एप्रिल् 16 तः 20 पर्यन्तम्।। वित्तकोशान् विरुद्ध्य सामूहिकमाध्यमद्वारा प्रतिषेधः ।।

Thursday, January 4, 2018

Bookmark and Share
भारतसीमां प्रति चीनायाः वीथीनिर्माणम्। 
           नवदिल्ली > भारतसीमामतिक्रम्य चीनाराष्ट्रेण वीथीनिर्माणं कृतम्। अरुणाचलप्रदेशस्य जनसान्निध्यरहितं सीमाप्रदेशं लक्ष्यीकृत्य एव नूतनमार्गः निर्मितः। अनतिविदूरे भारत-तिबटन् सीमारक्षणसैन्यस्य केन्द्रं वर्तते अपि द्वादशपादपरिमितं विस्तारे षट्शतं मीटर् परिमितं दीर्घयुक्तं मार्गं निर्मीय एव भारतस्य दृष्टिपथमागतम्।
           वीथीनिर्माणाय चीनासर्वकारस्य साक्षादेव बन्धः अासीदिति न प्रत्यभिज्ञातम्। किन्तु डिसम्बर् २६ तमे दिनाङ्के वीथीनिर्माणमारब्धमिति सूच्यते।