OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 19, 2018

निर्वाचनसज्जीकरणाय आह्वानं कारयत् कोण्ग्रस् प्लीनरि सम्मेलनं समाप्तम्। 
       नवदिल्ली > आगामिसंवत्सरे प्रचाल्यमाणं लोकसभानिर्वाचनं 'कुरुक्षेत्रम्' उपमीय सामाजिकनिर्वाचनाय सन्नद्धाः भवितुं प्रवर्तकान् नेतृजनान् च आह्वयतः राहुलगान्धिनः समापनप्रभाषणेन कोण्ग्रस् दलस्य  सम्पूर्णसम्मेलनं नवदिल्ल्यां समाप्तम्। प्रधानमन्त्रिणं नरेन्द्रमोदिनं तथा भा ज पा दलं च विरुध्य राजनैतिकसङ्ग्रामं महाभारतयुद्धम् उपमीय आसीत् राहुलस्य प्रभाषणम्।
     "कुरुक्षेत्रयुद्धे कौरवाः संघटिताः आर्थिक-सैनिकबलयुक्ताः चासन्। ते तु अधिकारमदोन्मत्ताश्चासन्। तादृशाः भवन्ति नरेन्द्रमोदी बिजेपी नेतारश्च। किन्तु बले स्तोकाः पाण्डवाः सत्यधर्मनीतिपक्षपातिनः आसन्। तथास्ति कोण्ग्रस् दलम्। अस्य धर्मयुद्धः सत्याय भवेत्" राहुलगान्धी अवदत्।