OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 21, 2018

कोच्चीनगरे अट्टस्य  भूरन्तर्गमनः - निर्माणे अपाकः इति सूच्यते।
      कोच्ची > कलूरस्थ मेट्रोरेल् यान निस्थानस्य समीपे निर्मीयमानः अट्टः भग्नीभूय भूमेः अन्तः प्रविष्टः। अस्य घटनायाः कारणं निर्माणस्य अपाकः इति सूच्यते। आधारविधानस्य क्षमताप्राप्त्याः पूर्वम् उपर्युपरि अट्टनिर्माणं कृतम् इति बलक्षयस्य कारणत्वेन उह्यते।
     अट्ट निर्माणस्वामिनः निर्माणाय परिकल्पितः अधिकारः  कोच्ची कोर्परेषन् अधिकारिभिः प्रतिस्वीकृतः। अस्मिन् घटनायाम् आरक्षकैः विकल्पनियामकविधानं स्वीकृतम्। गुरुवासरे रातौ एव अट्टः भग्नः। भूमेः अन्तर्भागे  त्रिंशत्पादमितेषु गर्ते  पञ्चशतं स्थम्भेषु निर्मितमासीत् अयम् अट्टः।
      अपघातकाले अट्टे कर्मकराः नासन् इत्यनेन जीवहानिः नास्ति। समीपस्थ अट्टाः च भीषायामेव। मार्गस्य पार्श्वे भूभङ्गः दृश्यते। अतः मार्गस्य बलं वर्धापयित्वा एव गतागतस्य पुनस्थापना भविष्यति।