OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 23, 2018

संस्कृतं न केवलं ज्ञानस्य भाषा अपितु विज्ञानस्यापि- भारतराष्ट्रपतिः ।
-पुरुषोत्तम शर्मा -

      नवदिल्ली> श्री लालबहादुरशास्त्री राष्ट्रियसंस्कृतविद्यापीठस्य सप्तदशदीक्षांतसमारोह: अप्रैलमासस्य एकविंशति: दिनांके समायोजित:। दीक्षान्तसमारोहे भारतस्य राष्ट्रपति: श्रीरामनाथकोविन्द: मुख्यातिथित्वेन स्वामी विवेकानन्दयोग-अनुसन्धानसंस्थानस्य कुलाधिपति: डॉ. एच. आर. नागेन्द्र: विशिष्टातिथित्वेन अथ च नीति आयोगस्य सदस्य: डॉ. बिबेकदेबराय: सारस्वतातिथित्वेन उपस्थिता: अभवन् | राष्ट्रपतिना श्रीकोविन्देन दीक्षांतभाषणे प्रोक्तं यत्  संस्कृते भारतस्य आत्मा दृश्यते। एतद् हि विश्वकल्याणाय प्रासंगिकं विद्यते। संस्कृतं न केवलं ज्ञानस्य अपितु विज्ञानभाषा भवति।  छात्रान् प्रेरयता तेनोक्तं यत् ते श्रीलालबहादुरशास्त्रिण: आदर्शान् जीवने आचरन्तु।
डा गङ्गाधरन् नायर महोदयाय महामहोपाध्याय पुरस्काकारं प्रयच्छति।
          आचार्यगंगाधरन् नायर् वर्यः  भारतीयव्याकरण-भाषाविज्ञान- भारतीयदर्शनविचार-पद्धतौ उल्लेखनीययोगदानाय महामहोपाध्यायोपाधिना विभूषित:। कुलपतिना प्रो. रमेशकुमारपाण्डेयेन विद्यापीठस्योपलब्धय: विस्तारपूर्वकं वर्णिता:। समारोहस्य अध्यक्षता कुलाधिपतिना डॉ. हरि-गौतमेन विहिता। दीक्षान्तसमारोहे 2016-17 वर्षे स्वर्णपदकप्राप्तकर्तार: 26 छात्रा: सम्मानिता:। अन्येभ्यश्च छात्रेभ्य: विद्यावारिधि: विशिष्टाचार्य-आचार्य-शिक्षाचार्य-शिक्षाशास्त्री-शास्त्री-वास्तु-पी.जी डिप्लोमा-ज्योतिषप्राज्ञ-ज्योतिषभूषणोपाधय: प्रदत्ता:।