OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 13, 2018

संस्कृते बालसाहित्यमित्याख्या राष्ट्रियसङ्गोष्ठी समायोजिता
विशेषावेदनम्
प्रत्ननगर्यां काञ्चीपुरे गत पञ्चविंशतिवर्षेभ्यः कश्चन मानितविश्वविद्यालयः विराजते श्रीचन्द्रशेखरेन्द्रसरस्वतीविश्वमहाविद्यालय इति नाम्ना। अस्य विश्वविद्यालयस्य संस्कृतभारतीयसंस्कृतिविभागः सर्वदा सर्वथा च संस्कृतस्याभिवर्धने सेवायां च विभिन्नानां संस्थानां सहयोगेन तत्परो भवति। सम्प्रति अनेन विभागेन पाण्डिचेरीस्थ श्री अरविन्द फाउण्डेशन् फोर् इण्डियन् कल्चर् (Sri Aurobindo Foundation for Indian Culture - SAFIC) इत्यस्याः संस्थायाः संस्कृतबालसाहित्यपरिषदा सह अप्रैल्-मासस्य चतुर्थदिनाङ्कादारभ्य षष्टमदिनाङ्कपर्यन्तं संस्कृते बालसाहित्यमित्याख्या राष्ट्रियसङ्गोष्ठी आयोजिता। संस्कृते बालसाहित्यमित्याख्या सङ्गोष्ठी आभारते द्वितीया भवति। अस्याः उद्घाटनं अप्रैल्-मासस्य चतुर्थदिनाङ्के श्रीचन्द्रशेखरेन्द्रसरस्वतीविश्वमहाविद्यालय इति मानितविश्वविद्यालये सञ्जाता।
कार्यक्रममुं विश्वविद्यालयस्य
माननीयकुलपतिवर्याः प्रो.विष्णु-पोट्टि-महाभागाः प्रारभन्। जगद्गुरुकृपालुविश्वविद्यालयस्य माननीयकुलपतिवर्याः प्रो. रामरत्न-महाभागाः मुख्यातिथयः आसन्। एतैः आचार्यैः सह श्रीचन्द्रशेखरेन्द्रसरस्वतीविश्वमहाविद्यालयस्य कुलसचिववर्याः प्रो. श्रीनिवासु-महाभागाः, संस्कृतभारतीयसंस्कृतिसङ्कायस्य सङ्कायप्रमुखाः प्रो. रामकृष्ण-पिशिपाटि-महोदयाः, SAFIC संस्थायाः निदेशकवर्याः डॉ. सम्पदानन्द-मिश्र-महोदयाः, संस्कृतभारतीयसंस्कृतिविभागाध्यक्षाः डॉ. देवज्योति-जेना-महोदयाश्च मञ्चमलमकुर्वन्। डॉ. देवज्योति-जेना-महोदयैः आगतेभ्यः अतिथिवर्येभ्यः स्वागतं व्याहृतम्। मुख्यातिथिभिः संस्कृते बालेभ्यः सङ्गीतसाहित्यम् इत्याङ्ग्लभाषायां स्वमतं प्रस्तुतम्। आधुनिककाले बालेभ्यः संसस्कृतस्य आवश्यकता बालसंस्कृतसाहित्यस्य विकासाय च उपायाः इत्यादयः विषयाः प्रो.विष्णु-पोत्ति-महाभागैः तेषामाध्यक्षभाषणेनोपस्थापिताः। अन्यैः आचार्यैश्च सङ्गोष्ठीसमित्यै स्वाभिनन्दानि प्रकटितानि।
एतत्सङ्गोष्ठ्यर्थम् आगतानि शोधपत्राणि सङ्कल्य काचित् पत्रिका विनिर्मिता। तस्या अपि पुस्तकरूपेण सान्द्रमुद्रिका-(C.D.) रूपेण च उद्घाटनसभायां विमोचनमभवत्। सङ्गोष्ठ्याः द्वितीयदिने सायङ्काले पञ्चवादने श्रीगणेशः इति नामाङ्कितस्य संस्कृत-कार्टून्-चलचित्रस्यापि प्रदर्शनमभवत्।
अस्याः सङ्गोष्ठ्याः मुख्यमुद्देश्यं तावत् संस्कृते बालसाहित्यनिर्माणम्, समुपलब्धबालसाहित्यानां मूल्याङ्कनम् समीक्षणम् च, अपि च बालेभ्यः संस्कृतशिक्षणे विविधानाम् उपायानाम् आविष्करणम्। प्रायः चत्वारिंशत्विद्वद्भिः पत्राणि मण्डितानि। उपशतं जनाश्च सङ्गोष्ठ्यां भागं गृहीतवन्तः। तत्र उत्तरप्रदेश-मध्यप्रदेश-पश्चिमबङ्ग-उत्कल-राजस्थान-महाराष्ट्र-तेलङ्गाना-गुर्जर-आन्ध्रप्रदेश-केरला-तमिलनाडु-पाण्डिचेरी-हरियाणादिभिः भारतस्य विभिन्नेभ्यः राज्येभ्यः विद्वांसः आगताः।
अस्याः सङ्गोष्ठ्याः समापनं अप्रैल्-मासस्य षष्ठदिनाङ्के सञ्जाता। संस्कृतभारतीयसंस्कृतिविभागस्य वरिष्ठाचार्याः प्रो.नारायण-जी-झा-महाभागाः समापनसमारोहमारभन्।  समापनसमारोहाय तिरुपतिस्थ श्रीवेङ्कटेश्वरवैदिकविद्यालयस्य कुलसचिवचराः तिरुपतिस्थ राष्ट्रियसंस्कृतविद्यापीठस्य साहित्याचार्याः प्रो.जी.एस्.आर्.कृष्णमूर्ति-महाभागाः मुख्यातिथयः आसन्। संस्कृतभारतीयसंस्कृतिविभागस्य विज्ञानझरी इत्याख्यायाः वार्षिकीशोधपत्रिकायाः विमोचनमपि समापनसमारोहे सञ्जाता। संस्कृतभारतीयसंस्कृतिविभागाध्यक्षाः डॉ. देवज्योति-जेना-महोदयाः अस्याः सङ्गोष्ठ्याः समायोजकाः आसन्।