Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः

Tuesday, May 1, 2018

Bookmark and Share
 'मनोगतम्-४३’ ‘मन की बात’ नरेन्द्रमोदी
प्रसारण-तिथि: - 29.04.2018
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]
 संस्कृत-भाषान्तर-कर्ता    -  डॉ.बलदेवानन्द-सागरः  

             मम प्रियाः देशवासिनः! नमस्कारः |  नातिचिरं एप्रिल-मासे चतुर्थतः पञ्चदश-दिनाङ्कं यावत् ऑस्ट्रेलिया-देशे एकविंशति-तमाः राष्ट्र-मण्डलीयाः क्रीडा-स्पर्धाः आयोजिताः| भारत-सहिताः विश्वस्य एकसप्ततिः देशाः आसु क्रीडा-स्पर्धासु सहभागित्वम् आवहन्| यदा एतावत् बृहत् आयोजनं भवेत्, अशेष-विश्वस्मात् समागताः सहस्रशो हि क्रीडकाः अत्र सहभागित्वम् आवहन्तः सन्ति, कल्पयितुं शक्नुमः यत् कीदृशो नु परिवेशः भवेत् ? ऊर्जा, शक्तिः, उत्साहः, आवेगः आशाः, आकाङ्क्षाः, किञ्चित् विशिष्टं प्रदर्शयितुं शिव-सङ्कल्पः – यदा एतादृशः परिवेशो भवेत्, तदा को नाम अस्मात् आत्मानं पृथक् स्थापयितुं शक्नुयात्| अयं हि एतादृशः कालः आसीत् यदा प्रतिदिनं अशेष-देशस्य नागरिकाः विचारयन्ति स्म यदद्य कः कः क्रीडकः क्रीडिष्यति ? भारतस्य प्रदर्शनं कीदृशं भविष्यति? वयं कति पदकानि जेष्यामः? एतत् सर्वं सुतरां स्वाभाविकमपि आसीत्| अस्माकं क्रीडकाः अपि देशवासिनाम् आकाङ्क्षानुसारं भद्रतरं प्रदर्शनं कृतवन्तः, तथा च, अनुक्रमं पदकानि विजितवन्तः | भवतु नाम  लक्ष्यवेधो वा मल्ल-युद्धम्, भवतु तत् भारोत्तोलनम् वा  table tennis-स्पर्धा, आहोस्वित् badminton-स्पर्धा; भारतेन आभिलेख्यं प्रदर्शनं विहितम् | पदकानां षड्-विंशतिः सौवर्णानि [ 26 Gold], विंशतिः राजतानि [ 20 Silver], विंशतिश्च कांस्यमयानि [ 20 Bronze] – आहत्य भारतेन षट्-षष्टिः [66] पदकानि विजितानि |  
    प्रत्येकमपि भारतीयः अस्याः सफलतायाः विषये गौरवम् अनुभवति | पदक-विजयो हि क्रीडकानां कृते गौरवस्य प्रसन्नतायाश्च विषयो भवति| इदं हि अशेष-देशस्य कृते, सर्वेषामपि देशवासिनां कृते अत्यन्तं गौरवपर्व भवति| क्रीडा-स्पर्धायाः अन्ते यदा पदकैः साकं भारतस्य प्रतिनिधित्वं कुर्वन्तः क्रीडकाः तत्र सन्तिष्ठन्ते, त्रिवार्णिकेन ध्वजेन परिवेष्टिताः, राष्ट्रगानस्य स्वर-लहर्यश्च गुञ्जायमानाः भवन्ति तदा या नाम भावानुभूतिः भवति, यो हि सन्तोषो जा
यते, या प्रसन्नता समुद्भवति, एतत्सर्वं गौरवं विवर्धयति, मान-सम्माननञ्च वितानयति, किञ्चिद् अनुपमं विशिष्टञ्च अनुभूयते | अमुना अनुभवेन शरीरं मानसञ्च झङ्कृतं जायते | उर्मि-हिल्लोलेन संभरितो भवति समग्रः परिसरः| वयं सर्वे अनन्य-भाव-भरिताः भवामः | तादृशान् भावान् अभिव्यञ्जयितुं मम शब्द-वैभवं न्यूनायते | परञ्च, एतेभ्यः क्रीडिका-क्रीडकेभ्यः अहं यत्किमपि श्रुतवान्, तत् भवतः श्रावयितुम् अभिलषामि | नूनमहं गर्वम् अनुभवामि, भवन्तोsपि गर्वम् अनुभविष्यन्ति |

             अहं मनिका-बत्रा, Commonwealth-क्रीडा-स्पार्धासु चत्वारि पदकानि विजितवती | तेषु द्वे सौवर्णे, एकं राजतं,  एकञ्च काञ्स्य-मयम् | ‘मन की बात’- प्रसारणस्य श्रोतॄन् अहं सूचयितुं वाञ्छामि यत् अतितरां प्रसीदामि, यतो हि प्रप्रथमं भारते table tennis-क्रीडा एतावती लोकप्रिया जायते |नूनम्, अहम् उत्कृष्टतया table tennis-स्पर्धाम् अक्रीडिष्यम् | सम्पूर्णस्यापि जीवनस्य उत्कृष्टा table tennis-क्रीडा ! एतत्पूर्वं मया यः पूर्वाभ्यासः कृतः तद्विषये सूचयितुमिच्छामि यत् निज-प्रशिक्षकेण सन्दीप-महोदयेन साकं सुबहु अभ्यासम् अकरवम् | राष्ट्र-मण्डलीय-क्रीडा-स्पर्धाभ्यः प्राक् Portugal-देशे अस्माकं शिबिराणि आसन्, प्रशासनेन तत्र क्रीडा-स्पर्धासु सहभागित्वार्थं वयं प्रेषिताः आसन्, एतदर्थं प्रशासनाय साधुवादान् व्याहर्तुं वाञ्छामि यतो हि, तत्र गत्वा बह्वीषु आन्ताराष्ट्रिय-स्पर्धासु वयं क्रीडनावसरान् लब्धवन्तः | युव-जनान् केवलम् इदमेव सन्देष्टुं समीहे यत् ते न कदापि निज-निर्णयात् विचलिताः भवेयुः| explore yourself... आत्मानम् अनुसन्दधतु !
                                
           अहं पी. गुरुराजः, ‘मन की बात’-प्रसारणस्य श्रोतॄन् अहं सूचयितुं वाञ्छामि यत् ऐषमः [2018 commonwealth game-] राष्ट्र-मण्डलीय-क्रीडा-स्पर्धासु पदक-विजयार्थं मया स्वप्नं दृष्टम् आसीत् | प्रप्रथमं आसु स्पर्धासु भारताय पदकोपलब्धिं दत्वा अतितरां प्रसन्नोsस्मि | कुन्दापुरा-इति (kundapur)  निज-जन्म-ग्रामाय, कर्णाटक-इति मम राज्याय, मम राष्ट्राय च एतत्-पदक-प्राप्तिं समर्पयामि |   
                       
        अहं मीराबाई चानूः, एकविंशति-तमासु राष्ट्रमण्डलीय-क्रीडा-स्पर्धासु भारतस्य कृते प्रथमं सुवर्ण-पदकं विजितवती |अनया उपलब्ध्या प्रसीदामितमाम् | भारतस्य मणिपुरस्य च कृते मया स्वप्नं दृष्टम्  आसीत् यदहं श्रेष्ठ-क्रीडिका स्यामिति, एतत्सर्वम् अहं चलचित्रेषु पश्यन्ती आसम्| यथा मणिपुरे मम भगिनी, तथा चान्यत् सर्वं दृष्ट्वा अहमपि भारतस्य मणिपुरस्य च कृते उत्कृष्ट-क्रीडिका भवितुं स्वप्नं दृष्टवती | मम सफलतायाः कारणमस्ति- ममानुशासनम्, मम एकनिष्ठता, समर्पणम्, कठोर-श्रमश्च |
                 राष्ट्रमण्डलीय-क्रीडा-स्पर्धासु भारतस्य प्रदर्शनम् उत्कृष्टं तु आसीदेव, युगपदेव,  एतद् विशिष्टमपि आसीत् | अस्मिन् क्रमे अनेके विषयाः प्रथमवारमेव अभूवन् इति कृत्वा इदं विशिष्टम् |  किं भवन्तः जानन्ति यत् ऐषमः राष्ट्रमण्डलीय-क्रीडा-स्पर्धासु सर्वेsपि भारतीयाः मल्लाः, सर्वेsपि..., पदकानि विजितवन्तः | मनिका-बत्रा सर्वास्वपि स्पर्धासु पदकानि विजितवती | सा प्रथमा भारतीया महिला वर्तते, या हि वैयक्तिक- table tennis-स्पर्धायां भारताय सुवर्ण-पदकं अवाप्नोत् | भारतस्य कृते सर्वाधिकानि पदकानि लक्ष्य-वेधार्थम् अधिगतानि | पञ्चदश-वर्षीयः भारतीयः लक्ष्य-वेधकः अनीश-भानवाला, राष्ट्रमण्डलीय-क्रीडा-स्पर्धासु भारतस्य पक्षतः सुवर्ण-पदक-विजेता कनिष्ठः क्रीडकः सम्वृत्तः | सचिन-चौधरी, राष्ट्रमण्डलीय-क्रीडा-स्पर्धासु पदक-विजयार्थं अनन्यः भारतीयः Para Power-lifter-इति भारोत्तोलकः अस्ति | ऐषमः क्रमे स्पर्धाः विशिष्टाः आसन् इति वक्तुं शक्यते यतो हि पदक-प्रापकेषु क्रीडिकानाम् अधिसंख्यमासीत् | Squash-क्रीडा भवतु वा boxing- इति मुष्टामुष्टिः, भारोत्तोलनं वा स्यात् वा भवेत् लक्ष्यवेधः – महिला-क्रीडिकाभिः नितरां उत्तमं प्रदर्शनं विहितम् | Badminton-स्पर्धायान्तु अन्त्य-चक्रे भारतस्यैव साइना-नेहवालः पी.वी.सिन्धुश्च क्रीडिका-द्वयस्य मध्ये द्वन्द्वं जातम् | सर्वेsपि समुत्सुकाः आसन् यत् द्वन्द्वन्तु अस्त्येव परञ्च पदकद्वयमपि भारतमेव अवाप्स्यति – तत्सर्वम् अशेष-राष्ट्रेण अवलोकितम् |  अहमपि एतद् दृष्ट्वा सुखम् अन्वभवम् | क्रीडा-स्पर्धालवः एते क्रीडकाः,  देशस्य विभिन्न-भागेभ्यः, लघु-लघु-नगरेभ्यः समायाताः आसन् | अनेकाः बाधाः, नैकविधानि काठिन्यानि चातिक्रम्य एतावत्-पर्यन्तम् आगतवन्तः, तथा च, एते यां सोपान-सरणीम् अधिरूढवन्तः, तेषां तासाञ्च अस्यां जीवन-यात्रायां, भवतात् पितरौ, भवेद्वा अभिभावको वा संरक्षकः, भवतु वा प्रशिक्षकः वा, सहायकः कार्मिकः, स्याद्वा सः विद्यालयो वा विद्यालय-शिक्षकः, भवेद्वा विद्यालयीय-परिवेशः – अत्र सर्वेषामपि योगदानमस्ति | तन्मित्राणामपि योगदानं विद्यते, ये हि सर्वास्वपि परिस्थितिषु तेषां तासाञ्च मनोबलं प्रोत्साहितवन्तः | अहं एतेभ्यः क्रीडकेभ्यः, युगपदेव तेभ्यः सर्वेभ्योsपि भूरिशो वर्धापनानि, शुभकामनाश्च वितरामि| 
        विगते मासे ‘मन की बात’-प्रसारणावधौ अहं देशवासिनः विशेषेण च अस्मदीयान् युवकान् fit India- इति स्वस्थ-भारताभियानाय समाह्वयम्, तथा चाहं प्रत्येकमपि नागरिकं निमन्त्रितवान् ! आगच्छन्तु ! fit India- इत्यमुना आत्मानं संयोजयन्तु, fit India – इति स्वस्थ-भारताभियानञ्च सन्नयन्तु | तथा चाहं बहु प्रसीदामि यत् जनाः महता उत्साहेन अमुना आत्मानं संयोजयन्ति | अनेके जनाः एतदर्थं स्वीय-समर्थनं प्रदर्शयन्तः माम् अलिखन्, पत्राणि प्रेषितवन्तः, सामाजिक-सञ्चार-माध्यमेषु निज-fitness-मन्त्रान्, fit India stories- इति वृत्तान्यपि सम्विभाजितवन्तः|
        अन्यतमः सज्जनः श्रीमान् शशिकान्त-भोंसलेः तरण-तालस्य निज-चित्रं सम्प्रेषयन् अलिखत् -
    “My weapon is my body, my element is water, My world is swimming.”... अर्थात् ममायुधं हि मम शरीरम्, मदीयं सत्त्वं चास्ति जलम्, सन्तरणमेव मम विश्वम् |”  
     रूमा-देवनाथः लिखति–  प्रातः भ्रमणेन आत्मानं प्रसन्नां स्वस्थाञ्च अनुभवामि| ततः परं सा कथयति - “For me – fitness comes with a smile and we should smile, when we are happy.”
     देवनाथ-महोदये ! नात्र सन्देह-लेशः प्रसन्नता एव स्वस्थता अस्ति|
         धवल-प्रजापतिः trekking – इति दीर्घ-पद-यात्रायाः निज-चित्रं सम्विभाजयन् अलिखत् – मम कृते तु पर्यटनं दीर्घा पदयात्रा च एव fit India-इत्यभियानमस्ति| एतद्-दृष्ट्वापि सुतरां सुखम् अन्वभवं यत् अनेके सुख्याताः लोकप्रियाश्च विशिष्ट-जनाः अपि अतितरां रोचक-रीत्या fit India-इत्यस्य कृते अस्मदीयान् युव-जनान् सततं प्रेरयन्ति | चलचित्र-कलाकारः अक्षयकुमारः twitter-इत्यत्र एकां दृश्य-मुद्रिकां सम्विभाजितवान् | अहञ्च ताम् अवालोकयम्, भवन्तोsपि सर्वे ताम् अवश्यम् अवलोकयन्तु; अत्र सः wooden beads-इति काष्ठ-गुटिकाभिः साकं व्यायामं कुर्वन् अवालोक्यते, तथा चासौ अवोचत् यत् अमुना व्यायामेन शरीरस्य पृष्ठ-भागस्य उदरस्य च मांस-कोशिकाः पर्याप्तं लाभान्विताः भवन्ति | अपरापि तस्य दृश्य-मुद्रिका एका बहुशः प्रचलिता जाता, यस्यामसौ जनैः साकं volleyball-क्रीडां खेलति | अनेके अन्येsपि युवानः fit India efforts- इत्येतैः सार्धं सम्भूय नैजान् अनुभवान् सम्विभाजितवन्तः | विचारयामि यदेतादृन्शि आन्दोलनानि अस्माकं सर्वेषां कृते, अशेष-देशस्य च कृते अतितरां लाभदायीनि भवन्ति |... अपरमेकं तथ्यं नूनं कथयिष्यामि – विनैव कञ्चिदपि व्ययं fit India – इत्यान्दोलनस्य नामास्ति -‘योगाभ्यासः’  | fit India-अभियाने योगस्य विशेष-महिमास्ति, तथा च, भवन्तः अपि सन्नद्धतायां संलग्नाः जाताः इति मन्ये | जून-मासीयः एकविंशति-तमो दिवसः ‘आन्ताराष्ट्रीय-योग-दिवसः’, अस्य माहात्म्यन्तु साम्प्रतं निखिलेsपि विश्वे स्वीकृतमेव | भवन्तोsपि इतः परं सन्नद्धाः भवन्तु | एकाकी नैव–  भवतां नगरम्, भवतां ग्रामः, वसतिः, विद्यालयः, भवतां महाविद्यालयः- प्रत्येकमपि... – सर्वविधायुष्मन्तः – भवतु नाम  सः पुरुषः वा महिला, योगेन साकम् आत्मानं संयोजयितुं तैः नूनं प्रयतनीयम्| सम्पूर्णस्य शारीरिक-विकासस्य कृते, मानसिक-विकासस्य कृते, मानसिक-सन्तोलनार्थं च योगस्य किं नाम उपयोगित्वम् इति साम्प्रतं भारते वा जगति अन्यत्र कथयितुं नावश्यकम्, तथा च भवद्भिः दृष्टं स्यात् यत् एकस्यां animated video- इति रेखाचित्रित-दृश्य-मुद्रिकायां, यस्याम् अहं प्रदर्शितोsस्मि, सा दृश्यमुद्रिका अद्यत्वे अतितरां प्रचलिता जायते | Animation-जनान् अहम् एतदर्थं वर्धापयामि यत्तैः अतिसूक्ष्मतया, कार्यम् अनुष्ठितम्, यथा हि कश्चित् शिक्षकः कर्तुं पारयति| भवन्तोsपि अनया दृश्यवाहिकया नूनं लाभान्विताः भवितारः|
     मम युवानः सखायः! भवन्तः सम्प्रति परीक्षा-परीक्षा-परीक्षा-चक्रतः निष्क्रम्य अवकाश-विषयं चिन्तयन्तः स्युः | अवकाश-दिनानि केन प्रकारेण यापयानि, कुत्र-कुत्र वा पर्यटितव्यमिति इति विचारयन्तः भवेयुः| अहमद्य नूतन-कार्यार्थं भवतः निमन्त्रयितुं किमपि कथयितुमिच्छामि, तथा च, अहं दृष्टवान् यत् अनेके युवानः एतेषु दिनेषु किञ्चित् किञ्चित् नूतनं शिक्षितुमपि निज-कालं यापयन्ति | Summer Internship- इति ग्रीष्म-कालीनस्य प्रशिक्षणस्य माहात्म्यम् एधतेतराम्, तथा च, युव-जनाः अपि अस्य अन्वेषणं सततं कुर्वन्तः सन्ति,  तथा च, एतादृक्-प्रशिक्षणं नूनं स्व-प्रकारकः नूतनानुभवो भवति | कक्षातो बहिः, लेखनी-कर्गदाभ्यां विनैव,  कम्प्यूटरतः दूरे  जीवनम् अभिनवरीत्या जीवितुम् अनुभवितुञ्च अवसरो लभ्यते |
       मम युवानः सखायः! कस्यचित् विशेषस्य internship- इति प्रशिक्षणस्य कृते अद्याहं भवतः साग्रहं कथयामि | भारत-सर्वकारस्य मन्त्रालयाः, सन्तु नाम ते – क्रीडा-मन्त्रालयो वा मानव-संसाधन-विकास-मन्त्रालयः आहोस्वित् पेयजल-मन्त्रालयस्य विभागो वा – सर्वकारस्य त्रि-चत्वारः मन्त्रालयाः सम्भूय [‘Swachh Bharat Summer Internship 2018’] ऐषमः स्वच्छ-भारत-ग्रीष्मकालीन-प्रशिक्षणम् आरभन्त |      
     महाविद्यालयीयच्छात्राः, NCC-युवानः, NSS-युवानः, नेहरु-युवकेन्द्रस्य युवानः, ये हि किमपि कर्तुमिच्छन्ति, समाजस्य कृते, देशस्य कृते तथा च, किमपि शिक्षितुं वाञ्छन्ति, समाज-परिवर्तनार्थं च, ये हि आत्मानं संयोजयितुम् अभिलषन्ति,  निमित्त-मात्रं भवितुम् ईहन्ते;  रचनात्मिकाम् ऊर्जामाधृत्य समाजस्य कृते किमपि किमपि अनुष्ठातुं समीहन्ते, तेषां सर्वेषां कृते अवसरोsस्ति, अपि च, अमुना प्रयासेन स्वच्छतापि बलवती भविता, तथा च, यदा वयं ओक्टोबर-मासस्य द्वितीय-दिनाङ्कतः महात्म-गान्धिनः सार्ध-शतीं जयन्तीम् आयोजयिष्यामः, तत्पूर्वं किमपि कृतमिति सन्तोषं वयम् अनुभविष्यामः | एतदपि अत्र सविशेषं सूचयिष्यामि यत् ये नाम उत्तमोत्तमाः प्रशिशिक्षवः भविष्यन्ति, यैः महाविद्यालयेषु उत्तम-कार्याणि कृतानि भवेयुः, विश्वविद्यालयेषु वा कृत-कार्याः सन्ति – एतादृशेभ्यः सर्वेभ्यः राष्ट्रियाः पुरस्काराः प्रदास्यन्ते | ‘स्वच्छ-भारत-मिशन’- इत्यमुना सर्वेभ्यः सफलेभ्यः प्रशिशिक्षुभ्यः प्रमाणपत्रमपि दास्यते | नैतावत् केवलं, सफलेभ्यः प्रशिशिक्षुभ्यः, UGC – इति विश्व-विद्यालयानुदानायोगः योग्यताङ्क-द्वयमपि प्रदास्यति | छात्रच्छात्राः, युवानश्च पुनरेकवारं निमन्त्रयामि यत्ताः ते च, अस्मात् प्रशिक्षणात् लाभान्विताः भवेयुः | भवन्तः MyGov – इत्यत्र गत्वा ‘Swachh Bharat Summer Internship’- इत्यत्र पञ्जीकरणं कर्तुं प्रभवन्ति | आशासे यत् अस्मदीयाः युवानः स्वच्छतायाः एतदान्दोलनम् इतः परमपि अग्रेसारयिष्यन्ति | भवतां प्रयास-विषयेsपि अवगन्तुं समुत्सकोsस्मि | भवन्तः स्वीय-सूचनाः अवश्यमेव प्रेषयन्तु, वृत्तं विवरणञ्च प्रेषयन्तु, चित्राणि दृश्य-वाहिकाश्च नूनं प्रेषयन्तु | आगच्छन्तु! अभिनवस्य अनुभवस्य कृते एतानि अवकाशदिनानि प्रशिक्षणावसरत्वेन यापयेम| 
      मम प्रियाः देशवासिनः! यथा-सौविध्यं लब्धावसरोsहं दूरदर्शनस्य ‘Good News India’- इति कार्यक्रमम् अवश्यमेव पश्यामि, तथा च, देशवासिनोsपि निवेदयामि यत् ‘Good News India’-इति कार्यक्रमः अस्माभिः सर्वैः अवलोकनीयः, तत्र चेदं विज्ञायते यत् अस्माकं देशस्य कस्मिन्श्चित् कोणे कियन्तो जनाः केन केन प्रकारेण समुचितं भद्रतरं रचनात्मकञ्च कार्यं कुर्वन्ति,  समीचीनञ्च घटते|  
     अहं विगतेषु दिनेषु अवालोकयम् यत् दिल्ल्याः तादृशानां यूनां वृत्तान्तं प्रदर्श्यते स्म यत्ते निर्धानानां बालानां शिक्षा-हेतोः नि:स्वार्थ-भावेन कार्य-संलग्नाः सन्ति | अमुना यूनां समूहेन दिल्ल्यां street child-इति आवास-रहितानां मलिन-वसति-वास्तव्यानाञ्च बालानां शिक्षा-हेतोः बृहद्-अभियानमेकम् आरब्धम् | आरम्भे तु, मार्गेषु भिक्षा-याचकानां क्षुल्लक-कार्य-निरतानां बालानां च दशाम् अवलोक्य एते करुणार्द्र-चित्ताः अस्मिन् रचनात्मके कर्मणि संलग्नाः अभूवन् | दिल्ल्याः गीता-कालोनीति वसतेः पार्श्वे लघु-कुटीराणां पञ्चदश-बालकैः सह आरब्धमिदम्  अभियानमद्य राजधान्याः द्वादशेषु स्थानेषु द्विसहस्रं बालानां कृते कार्याणि करोति, अमुना अभियानेन संयुताः युवानः, शिक्षकाः च निज-कार्य-बहुलायाः दिनचर्यायाः होरा-द्वयं मुक्त-कालं धृत्वा सामाजिक-परिवर्तनस्य भगीरथ-प्रयासेsस्मिन् व्यापृताः सन्ति |
            भ्रातरः भगिन्यश्च! तादृक्-रीत्या एव उत्तराखण्डस्य पर्वतीय-क्षेत्राणां केचन कृषकाः समग्रस्य देशस्य कृषकाणां कृते प्रेरणास्रोतस्त्वेन   सिद्धाः जाताः| ते समन्वितैः प्रयासैः न केवलं स्वस्यैव अपितु निज-क्षेत्रस्यापि भाग्य-परिवर्तनं कृतवन्तः | उत्तराखण्डे बागेश्वरे मुख्यरूपेण मण्डवा-चौलाई-मक्का-जौ-इति यव-भण्डीर-करम्भकेति देशजानाम् अन्नानां शस्यानि भवन्ति | पर्वतीय-क्षेत्रत्वात् कृषकाः एषाम् अन्नानाम् उचित- मूल्यानि नैव लभन्ते स्म परञ्च कपकोट-इति उपजनपदस्य कृषकाः साक्षात् विपण्यां एतेषां विक्रयेण सञ्जायमानायाः हानेः अपेक्षया ते मूल्य- वृद्धेः मार्गम् अङ्गीकृतवन्तः, value addition-इति पन्थानं स्वीकृतवन्तः | तैः किं कृतम् ? एभ्यः क्षेत्रोत्पादेभ्यः शस्येभ्यः एव biscuit-इति पिष्टक-निर्माणं आरब्धम्, ते पिष्टकानाञ्च विक्रयम् आरभन्त | क्षेत्रेsस्मिन् मान्यतैषा बद्धमूलास्ति यत् iron rich-इति  लौह-तत्व-संयुतानि एतानि पिष्टकानि गर्भवतीनां महिलानां कृते अतितरां समुपयोगीनि भवन्ति| एते कृषकाः मुनार-ग्रामे एकां सहकारि-संस्थां विरचितवन्तः तथा च, तत्र पिष्टक-निर्माणीं स्थापितवन्तः | कृषकाणां पराक्रमं दृष्ट्वा प्रशासनमपि राष्ट्रिय-आजीविका-मिशन-इति कार्यक्रमेण एतान् संयोजितवत् | एतानि पिष्टकानि साम्प्रतं न केवलं बागेश्वर-जनपदस्य प्रायेण पञ्चाशति आंगनवाड़ी-केन्द्रेषु, परञ्च अल्मोड़ा-कौसानी-पर्यन्तं प्राप्यन्ते | कृषकाणां परिश्रमेण अस्याः संस्थायाः वार्षिको विक्रयः न केवलं दशतः पञ्चदश-लक्ष-रूप्यकात्मको भवति, अपि तु, नव-शतं कुटुम्बानि वृत्तितावसरान् प्राप्तवन्ति अतः जनपदात् सञ्जायमानं पलायनम् अवरुद्धम्| 
             मम प्रियाः देशवासिनः! प्रायेण वयं शृण्मः यत् भविष्यति काले जगति जल-विषयकाणि युद्धानि भवितारः | प्रायेण सर्वो जनः इदं भाषते परञ्च विषयेsस्मिन् अस्माकीनमपि किमपि दायित्वमस्ति न वा ? किं वयं नैतद् अनुभवामः यत् जल-संरक्षणं हि सामाजिकोत्तरदायित्वं स्यात्?  प्रत्येकमपि जनस्य इदं दायित्वं भवेत् | वर्षायाः प्रत्येकमपि बिन्दुः केन प्रकारेण संरक्षणीयः, तथा च अस्माकम् अधिसंख्यं जानाति यत् अस्माकं भारतीयानां हृदयेषु जल-संरक्षणं हि कश्चन नूतन-विषयो नैवास्ति, ग्रन्थानां वा भाषायाः वा विषयो नैवास्ति | शताब्देभ्यः अस्माकं पूर्वजाः विषयमेनं जीवने क्रियान्वितं कृतवन्तः | प्रत्येकमपि जल-बिन्दोः माहात्म्याय ते प्राथमिकतां दत्तवन्तः | ते तादृशान्नव-नवीनान् समुपायान् अन्विष्टवन्तः यैः जलस्य प्रत्येकमपि बिन्दुं  संरक्षितुं प्रभवेम ? भवत्सु ये तमिलनाडु-यात्रायाः अवसरान् लभन्ते, ते जानन्ति यत् तमिलनाडु-राज्ये कानिचित् मन्दिराणि तादृन्शि सन्ति यत्र सेचन-व्यवस्थायाः, जल-संरक्षण-व्यवस्थायाः, अकाल-प्रबन्धनस्य च बृहन्तः  शिलालेखाः प्राप्यन्ते | मनारकोविल-चिरानमहादेवी-कोविलपट्टी-पुदुकोट्टई- (Pudukottai)-प्रभृतिषु सर्वत्र बृहन्तः शिलालेखाः दृश्यन्ते | अद्यत्वेsपि विभिन्नाः वाप्यः, [step wells] पर्यटन-स्थल-रूपेण चिन्हिताः सन्त्येव परञ्च नैतद् विस्मर्तव्यं यत् एतत्सर्वम् अस्मदीयानां पूर्वजानां जल-संग्रहस्य अभियानस्य साक्षात्-जीवन्तीव साक्ष्याणि सन्ति | गुजराते अडालज-इत्यस्य पाटणस्य च “राणी नी वाव” (बावड़ी) इति वापी, या हि UNESCO World Heritage site - इति विश्व-रिक्थत्वेन विराजते, अनयोः भव्यता नितरां दर्शनीया वर्तते; प्रकारान्तरेण एताः वाप्यः जलमन्दिराणि एव सन्ति |यदि भवन्तः राजस्थानं यान्ति चेत् जोधपुरे चाँद-बावड़ीति वापीम् द्रष्टुं नूनं यान्तु | एषा भारतस्य बृहत्तमासु सुन्दरतमासु चान्यतमा वापी वर्तते, अपि च, अत्र विशेषेण इदं ध्यातव्यमस्ति यत् एषा वापी तस्यां भूमौ विराजते यत्र प्रायेण जलाभावोsनुभूयते | April-May-June-July-इति मास-चतुष्टयस्य कालो हि तादृशः भवति यदा वर्षाजलस्य संग्रहस्य उत्तमावसरो भवति, तथा च, यदि वयं पूर्वमेव यावत्यः सन्नद्धताः कुर्मश्चेत् तावान् लाभो भविता | मनरेगा-इति कार्यक्रमस्य आय-व्यय-पत्रकमपि एतज्-जल-संरक्षणस्य कृते क्रियया अन्वीयते | विगत-वर्ष-त्रयावधौ जल-संरक्षण-जल-प्रबन्धनयोः दिशि प्रत्येकमपि जनः स्व-स्व-रीत्या प्रयतितवान् | प्रतिवर्षं मनरेगा-आय-व्यय-पत्रकात् अतिरिच्य जल-संरक्षण-जल-प्रबन्धनयोः कृते प्रायेण द्वात्रिंशत्-सहस्र-कोटि-रूप्यकाणि व्ययीकृतानि | विगत-वर्ष-त्रयावधौ एतादृशोः जल-संरक्षण-जल-प्रबन्धनयोः समुपायानां माध्यमेन प्रायेण सार्धैक-शत-हैक्टेयर-मिता भूमिः अधिक-मात्रया लाभान्विता जाता | जल-संरक्षण-जल-प्रबन्धनयोः कृते भारत-सर्वकारद्वारा, या धनराशिः मनरेगा-योजनायै लभ्यते, केचन जनाः अस्याः उत्तमोत्तमान् लाभान् अवाप्नुवन् | केरळे कुट्टूमपेरूर-इत्यत्र (Kuttemperoor), नद्यां सप्त-सहस्रं मनरेगा-कर्मकराः सप्ततौ दिनेषु कठोरतरं श्रमं विधाय तां नदीं पुनर्जीवितां कृतवन्तः | गंगा यमुना चेति नद्यौ जलभरिते स्तः किन्तु उत्तर- प्रदेशे कानिचित् अपराणि अपि क्षेत्राणि सन्ति; यथा फतेहपुर-जनपदस्य ससुर- खदेरीति लघु-नदी-द्वयं ये हि शुष्के जाते | जनपद-प्रशासनं मनरेगा-योजनान्तर्गतं बृहन्मात्रिकया मृत्तिकायाः जल-संरक्षणस्य च कार्यदायित्वं स्वीकृतवत् |  प्रायेण चत्वारिंशतः पञ्च-चत्वारिंशतो ग्रामाणां जनानां साहाय्येन एतं शुष्कीजातं ससुर-खदेरीति नदी-द्वयं पुनर्जीवितं विहितम् | भवतु नाम  पशुः वा पक्षी, भवेद्वा कृषको वा कृषिक्षेत्रम् आहोस्वित् ग्रामः , कियती हि बृहती आशीर्भरिता एषास्ति सफलता !  अहन्तु इदमेव वच्मि यत् पुनरेकवारं April-May-June-July-इति मास-चतुष्टयस्य कालोsस्माकं पुरस्तात् विराजते, जल-सञ्चय-जल-संरक्षणयोः कृते वयमपि किञ्चिद्-दायित्वम् आवहेम, वयमपि काश्चन योजनाः विरचयेम, वयमपि किञ्चित् क्रियान्वितं कृत्वा प्रदर्शयेम|
              मम प्रियाः देशवासिनः! यदा ‘मन की बात’-प्रसारणं भवति तदा अहं परितः सन्देशान् पत्राणि दूरभाष-संवादान् च सततम् अवाप्नोमि | पश्चिम- बंगालस्य उत्तर-चतुर्विंशति-परग़ना-जनपदस्य देवीतोला-ग्रामस्य आयन-कुमार-बनर्जी, MyGov – इत्यत्र स्वीय-टिप्पण्याम् अलिखत् - “वयं प्रतिवर्षं रबीन्द्रनाथ-जयंतीम् आयोजयामः परञ्च अनेके जनाः नोबेल-पुरस्कार-विजेतुः रबीन्द्रनाथ-ठाकुरस्य शान्तिपूर्ण-रीत्या, सुन्दरतया, समन्वित-भावेन च साकं जीवन-दर्शनस्य विषये नैव जानन्ति | कृपया ‘मन की बात’-कार्यक्रमे विषयमेनम् आलक्ष्य चर्चां करोतु येन जनाः एतद्विषये अवगताः स्युः|”
     अहं आयन-महोदयाय धन्यवादान् व्याहरामि यतो हि सः ‘मन की बात’-प्रसारणस्य सर्वेषामपि बन्धूनां ध्यानमत्र आकर्षयत् | गुरुदेव-ठाकुरः ज्ञान- विवेकयोः सम्पूर्ण-व्यक्तित्व-युतः सन् स्वीय-लेखनैः प्रत्येकमपि जनं अप्रतिम-रूपेण प्राभावयत् |  रबीन्द्र-ठाकुरः प्रतिभाशाली व्यक्तिः आसीत्,  बहुआयामी सर्जकश्च,  परञ्च तस्मिन् वर्तमानम् अन्यतमं शिक्षकं प्रतिपलमनुभवितुं शक्यते | सः गीताञ्जल्याम् अलिखत् - ‘He, who has the knowledge has the responsibility to impart it to the students.’ अर्थात् यस्य पार्श्वे ज्ञानं वर्तते, तस्येदं परमं दायित्वं यत् सः तज्ज्ञानं जिज्ञासुभ्यः वितरेत् |’
        अहं बङ्ग-भाषां नैव जानामि, परञ्च यदाहं बालः आसं तदा प्रातः शीघ्रोत्थानस्य अभ्यासः आसीत् बाल्यकालादेव, तथा च, पूर्वीये हिन्दुस्थाने आकाशवाणी-प्रसारणं शीघ्रम् आरभते, पश्चिमीये च हिन्दुस्थाने विलम्बात् आरभते अतः प्रायेण अनुमिनोमि यत् प्रातः सार्ध-पञ्चवादने रबीन्द्र-संगीतेन साकं प्रसारणमिदं प्रारभते स्म, तथा चैतस्य श्रवणस्य ममाभ्यासः जातः| भाषां तु नैव जानामि स्म, परञ्च प्रातः शीघ्रम् उत्त्थाय आकाशवाण्या प्रसार्यमाणस्य रबीन्द्र-संगीतस्य श्रवणाभ्यास-कारणात् यदा आनन्दलोके-आगुनेर-पोरोशमोनी- इत्यादि-कवितानां श्रवणावसरो लभ्यते स्म, तदा मम मानसम् नितरां चैतन्यानुभूतिं करोति स्म| भवन्तोsपि रबीन्द्र-संगीतेन, तस्य च कविताभिः नूनं प्रभाविताः इति मन्ये | अहं रबीन्द्र-नाथ-ठाकुराय सादरं अञ्जलिम्  अर्पयामि |
       मम प्रियाः देशवासिनः! कतिपय-दिनानन्तरं रमज़ानस्य पवित्र-मासः आरप्स्यते | अशेष-जगति रमज़ान-मासः पूर्ण-श्रद्धया ससम्मानञ्च आयोज्यते | रोज़ा-इत्युपवासस्य सामूहिक-पक्षोsयं यत् यदा मानवः स्वयं क्षुधितो भवति तदा सः अन्येषामपि क्षुधामनुभवति | यदा सः स्वयं पिपासार्तो भवति तदा सः इतरेषां पिपासायाः अनुभवं करोति | पैगम्बर-मोहम्मद-साहिबस्य शिक्षायाः उपदेशानां सन्देशानाञ्च अयं स्मरणस्य शुभावसरः | तस्य जीवनात् प्रेरणा-मादाय समानतायाः भ्रातृत्वस्य च मार्गानुसरणं हि अस्मदीयं दायित्वं भवति | एकदा अन्यतमः जिज्ञासुः पैगम्बर-साहिबम् अपृच्छत् - “इस्लाम-विचार-सरणौ किं नाम कार्यं सर्वोत्तमम् ?”  पैगम्बर-साहिबः उदतरत्– “कस्मैचित् निर्धनाय अपेक्षावते च भोजन-प्रदानं तथा च, सर्वैः साकं परिचितैः वा अपरिचितैः  सद्भाव-पुरस्सरं मेलनं हि उत्तमोत्तमं कार्यम्|”  पैगम्बर-मोहम्मद-साहिबः करुणा-ज्ञानयोः विश्वसिति स्म |  सः अहंकार-शून्यः आसीत्| सः कथयति स्म  यत् अहङ्कारात् ज्ञानं पराजयते | पैगम्बर-मोहम्मद-साहिबः आमिनोति स्म यत् भवतः पार्श्वे यदि किमपि वस्तु-जातं भवतः आवश्यकतातोsधिकतरमस्ति चेत् तर्हि तत् अपेक्षावते जनाय ददातु, अत एव रमज़ान-मासे दान-कर्मणः समधिकं महत्वं वर्तते |  जनाः पवित्र-मासेsस्मिन् अपेक्षावद्भ्यः दानं कुर्वन्ति | पैगम्बर-मोहम्मद-साहिबः आमिनोति स्म यत् कश्चन अपि जनः निज-पवित्रात्मना धनी भवति, न च भौतिक-धन-वैभवेन| अहं सर्वेभ्यो देशवासिभ्यः रमज़ान-पवित्र-मासोपलक्ष्ये शुभकामनाः व्याहरामि तथा चाशासे यत् अवसरोsयं जनेभ्यः शान्ति-सद्भावनात्मकं सन्देशमनुसर्तुं सततं प्रेरयिष्यति|
        मम प्रियाः देशवासिनः! बुद्ध-पूर्णिमा प्रत्येकमपि भारतीयस्य कृते विशेष-दिनत्वेन वर्तते | वयं गौरवम् अनुभवामः यत् भारतं हि सेवा-करुणा-त्यागादि-गुणानां शक्ति-प्रदर्शकस्य महामानवस्य भगवतो बुद्धस्य भूमिः, यो हि अशेष-जगति कोटिशो जनानां मार्गदर्शनम् अकरोत् | बुद्ध-पूर्णिमा-पर्व भगवतो  बुद्धस्य स्मरण-पुरस्सरं तेन प्रदर्शित-मार्गानुसरणस्य प्रयासार्थं सङ्कल्पार्थम् अग्रेसरणार्थञ्च सर्वेषामपि अस्माकं दायित्वं पुन: स्मारयति | भगवान् बुद्धः  शान्ति-समानता-सद्भाव-बन्धुत्व-भावानां प्रेरणा-शक्तिः वर्तते | एतानि तान्येव मानवीय-मूल्यानि सन्ति, येषामावश्यकता अद्यतने जगति सर्वाधिकानुभूयते |     
       बाबा-साहिबः डॉ.आम्बेडकरः सबलं निगदति यत् तस्य सामाजिक-दर्शने भगवतो बुद्धस्य महती प्रेरणासीत् | सः अवोचत् – “My Social philosophy may be said to be enshrined in three words; liberty, equality and fraternity. My Philosophy has roots in religion and not in political science. I have derived them from the teaching of my master, The Buddha.”
   बाबासाहिबः सम्विधान-माध्यमेन दलितान्, पीड़ितान्, शोषितान्, वञ्चितान् निर्धनान् च कोटि-कोटिशो जनान् समर्थान् व्यदधात् | इतः परम् उत्कृष्टं करुणोदाहरणं नान्यत् भवितुमर्हति| जनानां पीड़ा-निवारणार्थम् एषा करुणा, भगवतो बुद्धस्य महत्तमेषु गुणेषु अन्यतमासीत्| एवं निगद्यते यत् बौद्ध-भिक्षवः विभिन्न-देशानां यात्रां कुर्वन्ति स्म | ते आत्मना साकं भगवतो बुद्धस्य समृद्ध-विचारान् आदाय गच्छन्ति स्म तथा चेदं सर्वेष्वपि कालेषु सञ्जायते स्म | कृत्स्नेsपि एशिया-क्षेत्रे भगवतो बुद्धस्य शिक्षा, उपदेशाश्च अस्मभ्यं रिक्थत्वेन प्राप्ताः सन्ति |  एते अनेकेषु एशिया-द्वीपीय-देशेषु; यथा –  चीन-जापान-कोरिया-थाईलैण्ड-कम्बोडिया-म्यामार-प्रभृतिषु देशेषु बुद्धस्य एषा परम्परा, बुद्धस्य शिक्षा, मूलैः सहकृतास्ति तथा च, इदमेव कारणं यत् वयं Buddhist Tourism-इति बौद्धपर्यटनार्थम् आधारात्मकं स्वरूपं विकासयामः, यद्धि दक्षिण-पूर्वीयैशिया-क्षेत्रस्य महत्वपूर्ण-स्थानानि, भारतस्य विशिष्टैः बौद्ध-स्थलैः संयोजयति | भारत-सर्वकारः अनेकेषां बौद्धमन्दिराणां पुनरुद्धारकार्येषु सहभा- गित्वमावहन्ति इति कृत्वा अहं नितरां प्रसीदामि| अहं बुद्ध-पूर्णिमावसरे जगति सर्वत्र वर्तमानेभ्यः भगवतः बुद्धस्य करुणा-सिद्धान्तेषु आहित-विश्वासेभ्यः मङ्गलमयीं कामनाम् अर्पयामि | 
मम प्रियाः देशवासिनः! पुनः “मन की बात”-प्रसारणे मेलिष्यामः तदा पुनः सम्भाषणं करिष्यामः | भूरि भूरि धन्यवादः !!!                            *****   
                                  - डॉ.बलदेवानन्द-सागरः  
                                    Cell- 9810 5622 77                                            
                          Email - baldevanand.sagar@gmail.com