OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 13, 2018

कोल्कत्ताबङ्गलुरुदलयोः विजयः 
-रजीष्‌ नम्पीशः
      बङ्‌गलुरु > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडयोः कोल्कत्ताबङ्गलुरुदलयोः विजयः। कोल्कत्तादलं ३१ धावनाङ्कैः पञ्जाबदलं पराजयत्। प्रथमक्रीडनवेलायां कोल्कत्ता ६ क्रीडकानां नष्टेन २४५ इति अस्याः सपर्यायाः बृहदङ्कान् समपादयत्। कोल्कत्तादलाय सुनिल् नरैन् ३६ कन्दुकेभ्यः ७५ धावनाङ्कान्, नायकः कार्तिक् २३ कन्दुकेभ्यः ५० धावनाङ्कान् च प्राप्तवन्तौ। प्रतिक्रीडनावसरे पन्जाबदलाय राहुलः अश्विन्  च उत्तमरीत्या  क्रीडितवन्तौ। किन्तु अन्यैः कैरपि सामर्थ्यं न प्रकटितम्। अङ्कस्थितिः- कोल्कत्ता नैट् रैडेर्स् २४५/६ किङ्स् इलवन् पञ्जाब् २१४/८. अन्यस्यां क्रीडायां बङ्गलुरुदलं ५ क्रीडकैः दल्हीदलं पराजयत्। ऋषभपन्तस्य प्रकटनेन दल्हीदलं ४ क्रीडकानां नष्टेन १८१ धावनाङ्काः समपादयत्। पन्त् ६१ धावनाङ्कान् प्राप्तवान्। प्रतिक्रीडनावसरे बङ्गलुरुदलं कोहलि-डिविलेर्स् सख्ययोः प्रकटनेन ५ क्रीडकानां नष्टेन विजयं प्रापयत्। कोह्लिः७० ,डिविलेर्स् ७२ च धावनाङ्कान् प्राप्तवन्तौ। अङ्कस्थितिः- दल्ही डेर्डेविल्स् १८१/४ रोयल् चलञ्चेर्स् बङ्गलुरु-१८७/५.