OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 12, 2018

बालभारती -विद्यालयेऽद्वितीया संस्कृतसमूहगानस्पर्धानुष्ठिता
-पुरुषोत्तमशर्मा
    करोल्-भाग् नवदिल्ली>नवदिल्ल्यां राजेंद्रनगर-सर गंगाराम-चिकित्सालय-मार्गस्थे बाल भारती पब्लिक्-विद्यालये हिन्दी चलच्चित्र-गीतानां संस्कृतानूदित-रूपस्य अन्तर्विद्यालयीया समूहगान-प्रतिस्पर्धा समनुष्ठिता। अस्यां प्रतिस्पर्धायां दिल्लीस्थानां दश-निजीयविद्यालयानां  षष्टिमिता: छात्रा: भागमभजन्त।


    प्रतिसप्ताहं डी. डी. न्यूज़ वाहिन्याम् प्रसार्यमाणे लोकप्रिये संस्कृतपत्रिकाकार्यक्रमे 'वार्तावली' इत्येतस्मिन् प्रस्तूयमानां 'संस्कृतचलचित्रगीतानुवादप्रतियोगितामनुसृत्य एव  बालभारती पब्लिक्-विद्यालयेन  सर्वप्रथमतया एषा सामूहिक-संस्कृत-चलचित्र-गीत-गान-प्रतिस्पर्धा' समनुष्ठिता।

    अस्यां प्रतिस्पर्धायां  दिल्लीस्थानां निजीयविद्यालयानां छात्रै: प्रतिभागिता  विहिता 'ज्योति कलश छलके','ये तो सच है की भगवान है', 'ना कजरे की धार, ना मोतियों के हार', 'है प्रीत जहाँ की रीत सदा, मैं गीत वहाँ के गाता हूँ','तुझे सब है पता, मेरी माँ','स्वॅग से स्वागत','धीरे धीरे से मेरी ज़िन्दगी में आना' सनम रे, सनम रे , सन्निभानि हिन्दी बॉलीवुड गीतानि  छात्रै: अत्यंत समुत्साहपूर्वकम् आत्मविश्वासेन सह संस्कृतभाषायां प्रस्तुतानि |

   बालभारती पब्लिक्-विद्यालयस्य प्रधानाचार्यस्य श्रीलक्ष्यवीरसहगल-वर्यस्य तत्वावधाने संस्कृतविभागेन  समायोजितायाम् अस्यां प्रतिस्पर्धायां समागतै: प्रतिस्पर्धकै: छात्रदलै: एतदतिरिच्यापि विभिन्न-अधुनातनानि पुरातनानि च हिन्दी चलच्चित्रीय-गीतानि स्वर-लय-ताल-पूर्वकं संस्कृतभाषायां सम्प्रस्तूय श्रोतृ-समवायस्य मनांसि भृशं रंजितानि। प्रतिस्पर्धाया: मध्ये मध्ये अस्यैव विद्यालयस्य-छात्रै: विभिन्न-भारतीय-शास्त्रीय-नृत्यानि अपि प्रस्तूय जनमनांसि प्रह्लादितानि।  प्रतियोगितायां विभिन्न विद्यालयानां षष्टिकक्षात: दशमीकक्षा पर्यन्तमधीयानै: छात्रै: प्रतिभागिता विहिता।  कार्यक्रमस्य शुभारम्भ: कनिष्ठवर्गीय-छात्राणां सरस्वतीवन्दनापूर्वकम् अभवत्। प्रतिस्पर्धायां एन.सी.ज़िन्दल पब्लिक् विद्यालययेन प्रथमस्थानमधिगतम्, पंजाबी बागस्थ: हंसराजमॉडल् विद्यालय: द्वितीयस्थानभाजनीभूत:। तृतीये स्थाने च पीतमपुरास्थ: बालभारती पब्लिक् विद्यालय: व्यराजत।  अन्तर्विद्यालयीये संस्कृत-समूहगान-प्रतिस्पर्धा-कार्यक्रमे विशिष्टातिथित्वेन समुपस्थितया बालभारती विद्यालयस्य पूसारोड़मार्गस्थस्य परिसरस्य प्रमुखया डॉक्टर सुनीतागेहानी वर्यया कार्यक्रमस्य अवसान-समये प्रोदितं यत्
  संस्कृतं सर्वभाषाणां  जननी वर्तते। अत: संस्कृतस्य  संरक्षणाय प्रसाराय च विद्यालयीय-स्तरे  एतादृशानां विशिष्ट-कार्यक्रमाणामायोजनमत्यावश्यकमस्ति येन लघु-बालकेषु संस्कृतस्य सांगीतिक-पक्ष:, शृंगारिक-पक्षश्चापि बुद्धिपथे सम्प्रविशेताम् छात्राश्च संस्कृतं प्रति समाकृष्टा: स्यु: ।

     प्रतियोगितायां *निर्णायकरूपेण संस्कृतसेवक:, संस्कृतप्रचारक:, संस्कृतानुसन्धाता च  श्रीसुनील जोशी महोदय: , बालभारती विद्यालयस्य च संगीतशिक्षक: श्रीसुमनकुमारझा महोदय:* उपस्थितौ आस्ताम्। निज  निर्णायकीय-वक्तव्ये सुनीलजोशीवर्येण प्रोक्तं यदेतादृशम् अद्वितीयम् अद्भुतं च नूतनं समूहगान-स्पर्धायोजनं   दिल्लीस्थेषु विद्यालयेषु न कुत्रापि मया व्यलोकि। वस्तुतः एतादृशायोजनेन बाल-भारती-पब्लिक्-विद्यालय: अन्येभ्यो विद्यालयेभ्योSपि प्रेरणाप्रद: सिध्यति। अस्मिन्नवसरे अनेन विजेतृदलेभ्य: सम्मानपत्रकमपि वितरितम्। कार्यक्रमस्य अन्ते कार्यक्रमस्य संयोजिका तत्रत्या संस्कृत-शिक्षिका  डॉक्टर ज्योत्स्ना श्रीवास्तव वर्या न्यगादीत् यत् अस्माभि: प्रतिवर्षम् बालेषु संस्कृताभिरूचि-संवर्धनाय अन्तर्विद्यालयीया: संस्कृत-नाटकम्, कब्बाली, भाषणम्, संस्कृतवाद-विवाद:, श्लोकोच्चारणम्, स्तोत्रगानं, एकलसंगीतं, समाचारवाचनं,  चेत्यादि-भूरि प्रतियोगिता: अनुष्ठीयन्ते। यासु प्रतियोगितासु  विविध-विद्यालयानां छात्र-छात्रा: अहमहमिकया प्रतिभागं निर्वहन्ति। अस्य कार्यक्रमस्य आयोजन-समन्वये श्रीयुवराजभट्टराईवर्यस्य, श्रीदीपकशर्मणश्च महद्योगदानमवर्तत।