OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 11, 2018

कर्मयज्ञसाफल्म् - गुहायां संलग्नाः पादकन्दुकदलीयाः १२ ताय्बालकाः परिशीलकश्च बहिर्नीताः। 
     बाङ्कोक् > आविश्वजनततेः प्रार्थनायाः रक्षादौत्यसङ्घस्य कर्मयज्ञस्य च शुभान्त्यम्। ताय्लान्ट् राष्ट्रस्य उत्तरस्यां तां लुवाङ् नामिकायां गुहायां संलग्नाः १२ पादकन्दुकक्रीडकाः छात्राः तेषां परिशीलकश्च सुरक्षिततया बहिर्नीताः।   दशकिलोमीटर् दैर्घ्ययुक्तायां गुहायां गुहामुखात् ४ कि. मी. अन्तः घोरान्धकारे मलपङ्कयुक्ते जलप्रवाहे उन्नते शिलाग्रे प्राणभयेन १८अहोरात्राणि नीताः ते ९० संख्यकानां निमज्जनविदग्धानां नेतृत्वे कृतस्य भगीरथप्रयत्नस्य फलेनैव रक्षिताः! गुहान्तर्भागं प्रति १३ अन्ताराष्ट्रनिमज्जनविदग्धाः ५ नाविकाश्च प्लवनं कृतवन्तः। बहिश्च सर्वसज्जाः रक्षिपुरुषाः सैनिकाश्च उपसहस्रं सन्नद्धभटाः। एतेषां संयोजितपरिश्रमफलेनैव १३ जनानाम् अतिजीवनं साध्यमभवत्। 
    परन्तु कठिनप्रयत्नस्य मध्ये कश्चन निमज्जनविदग्धः स्वप्राणानपि त्यक्तवान्।