OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 26, 2018

हैदराबाद्-नगरे ‘द्वि-दिवसीय-संस्कृत-कार्यशाला’ सुसम्पन्ना

  हैदराबाद्> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः   ‘द्वि-दिवसीय-संस्कृत-कार्यशाला    ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः  ‘श्री-अरविन्द-भवन’-परिसरे   सुसम्पन्ना। हैदराबाद् नगरस्य प्रसिद्धेन भाषावैज्ञानिकेन  डॉ. वाई.एन्. राव्-महोदयेन कक्ष्या चालिता।

   कार्यशालायां तेलङ्गाणा राज्यस्य हैदराबाद्/सिकन्दराबाद्- नगरद्वय जगित्याल् च-नवदेहली-गुरुग्रामम्-महाराष्ट्र राज्यस्य नागपुर्-कर्णाटक राज्यस्य बेङ्गलूरु-आन्ध्र प्रदेश राज्यस्य विशाखपट्टणम् काकिनाडा विजयवाडा-विदेशस्य दुबाई (यू.ए.ई.) च-नगरेभ्यः pÂazt!-प्रतिभागिनः (पुरुषाः महिलाः बालाश्च) भागं गृहीतवन्तः।


  एतस्याः कार्यशालायाः दिनद्वयस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः  अभ्यासः  इत्यादीनि वैज्ञानिकदृष्टिकोण-द्वारा पाठितानि।   केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां  शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि  संस्कृतेन विशेषरूपेण पाठितम्।  बेङ्गलूरु नगरस्य संस्कृत-स्वयंसेवकः श्रीमान् जी.बी. शक्तिवर्यः सम्भाषणसंस्कृत-वर्गाणां सञ्चालने सक्रिय-समर्थनं दत्तवान्।

  अस्याः संस्कृत-कार्यशालायाः आरम्भः 2018-जुलै-मासस्य एकविंशतितम-दिनाङ्के अभवत्। 
‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद-शाखायाः अध्यक्षः श्रीमान् प्रेम् चन्दर् उद्घाटन-समारोहस्य अध्यक्षः अभवत् संस्कृतभाषाध्यनावश्यकता-विषये स्ववक्तव्यं च दत्तवान्।  उक्त संस्थायाः सचिवः श्रीमान् मुलुगु श्रीनिवास-  वर्यः विभिन्न-प्रदेशेभ्यः मातृभाषाभ्यः आयुर्वर्गेभ्यः च आगतानां प्रतिभागिनां स्वागतं कृतवान्।  तत्परं  ‘साफिक्, पुदुच्चेरी’ इति संस्थायाः संक्षिप्त-परिचयमपि  दत्तवान्।

   एतस्याः कार्यशालायाः समारोप-समारोहः 2018-जुलै-मासस्य द्वाविंशतितम-दिनाङ्के सायङ्काले पञ्चवादनतः सम्पन्नः। एतस्मिन् अवसरे हैदराबाद् नगरस्य ‘वेद-संस्कृति-समितिः’ इति संस्थायाः अध्यक्षः श्रीमान् ए.हेच्. प्रभाकर राव् समारोहस्य मुख्य-अतिथिः अभवत्।

समारोहस्यारम्भः वेद-पण्डितद्वयस्य वेदपठनेन प्रतिभागिनां प्रार्थनया च अभवत्।

 श्रीमान् ए.हेच्. प्रभाकर राव् देवभाषा-संस्कृतस्य मूलस्य महत्त्वं संक्षिप्त-विवरणं च दत्तवान्। तदनन्तरं देशजनानां सर्वेषां  संस्कृतभाषाध्ययनस्यावश्यकतायाः समर्थनं कृतवान् संस्कृतभाषायां अन्य विज्ञानानि मध्ये उपस्थित-सम्बन्ध-विषये सविवरणं उक्तवान् “संस्कृतभाषा निकट-भविष्ये एव अस्माकं भारतवर्षस्य  ‘राष्ट्रभाषा’ भविष्यति“ इति भविष्यवाणीं  अपि च उद्घोषितवान्।

तदनन्तरं मुख्य-अतिथिः प्रतिभागेभ्यः प्रमाणपत्र-वितरणम् अकरोत्।  तत्पूर्वं प्रतिभागिनः कार्यशालावसरे प्राप्तान् स्वानुभवान् प्रकटितवन्तः, सन्तृप्तिं सन्तोषञ्च सूचितवन्तः।   कार्यशाला-स़ञ्चालकः डॉ. वाई.एन्. राव्-वर्यः ‘धन्यवाद-समर्पणं’ कृतवान्।

इयं संस्कृत-कार्यशाला त्रिवारम् ‘ओम्’ इति मन्त्रोच्चारणेन समाप्ता अभवत्।  अन्ते निमेषं यावत् मौनमपि अनुष्ठितम्।