OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 9, 2018

सप्तदश विश्वसंस्कृतसम्मेलनस्योद्घाटनमद्य कनाडाया: वैङ्कूवरनगरे
-पुरुषोत्तमशर्म
    केन्द्रीयमानवसंसाधनविकासमन्त्री प्रकाशजावडेकर: अद्य कनाडादेशस्य वैंकूवरनगरे जुलाई मासस्य नवमदिनाङ्कात् त्रयोदशदिनाङ्कं यावत् आयोक्ष्यमाणस्य सप्तदश विश्वसंस्कृतसम्मेलनस्योद्घाटनं करिष्यति ।
     अस्मिन् सम्मेलने पञ्चशताधिकसंस्कृतविद्वांस: चत्वारिंशद्देशानां शिष्टमण्डलानि च सहभागं करिष्यन्ति। विभिन्नविषयेषु शोधपत्रै: संस्कृतज्ञानस्य  आदानप्रदानं भविष्यति। ऐतिहासिके साहित्ये वैदिकसाहित्ये च  महिलानां शिक्षा संस्कृतं बौद्धधर्म: मनुस्मृति: योगशाला मीमांसा गार्गीया-ज्योतिषनुसन्धानादिविषयेषु विशेषचर्चा भविष्यति । 
     पञ्चदिवसीयसम्मेलनस्योद्देश्यं जगति दैनन्दिनव्यवहारे संस्कृतभाषाप्रयोग: संस्कृतसंवर्धनं साहित्यप्रसारश्च विद्यते। विश्वसंस्कृतसम्मेलनस्ययोजनं जगिति पृथक्-पृथग्राष्टेषु वर्षत्रयान्तराले भवति। भारते इदानीं यावत्  त्रिवारं विश्वसंस्कृतसम्मेलनमभवत् । अस्मिन् वर्षे  भारतीयशिष्टमण्डल दश विद्वांस: द्वौ अधिकारिणौ च विद्यन्ते।