OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 13, 2018

पुण्यकोटिः- अनुप्राणित-उल्लिखित-चल-चित्रे भागं कर्तुम् अवसरः।

     कोच्चीची> पुण्यकोटिः नाम दक्षिणभारतस्य एकेन प्रख्यातजानपदगीतेन प्रेरितम् आदिममं संस्कृतभाषामयं अनुप्राणित-उल्लिखित-चल-चित्रं भवितुं सिद्धं वर्तते । इन्फोसिस्-नामिकायां सङ्गणकसूचना-प्रौद्योगिकी-संस्थायां प्रौद्योगिकी-तन्त्रज्ञत्वेन कार्यं कुर्वाणेन रविशङ्कर-नाम्ना संस्कृत-अनुरागातिरेकात् लिखित-निर्मितम् इदम् चित्रम् अद्यतनीयेषु युवसु संस्कृतप्रचारार्थम् । एतत् कर्म भारते तत्र तत्र निवसताम् अनेकेषां चित्र-अनुप्राणन-तज्ज्ञानाम् सश्रद्धं कठिनपरिश्रमस्य परिणामः अस्ति, येषु केचन निस्स्वार्थाः  इदं सत्कर्मार्थम् इति भावयन्तः धन-लाभ-अनपेक्षाः अपि । अपि च बहुप्रख्यातः इलयराजा-नामकः सङ्गीतनिर्माता अस्य चित्रस्य सङ्गीतरचयिता अस्ति। तथा दक्षिणभारते अतिविख्याता रेवती-नामा चल-चित्र-अभिनेत्री अस्मिन् चित्रे स्वध्वनिदानेन भागं निरवहत् ।

      एतन्निमित्तं रवि-वर्येण अद्यावधि प्रायः ५३ लक्षं रूप्यकाणि सञ्चितानि सन्ति स्वहितैषिणाम् अपि च चित्रस्य तद्गतसन्देशस्य च अनुमोदकानाम् च साहाय्यात् । विश्बेरी-नामिकायाः संस्थायाः मञ्चस्य द्वारा परिकल्पितां जन-समूह-अर्थ-दान-व्यवस्थाम् उपयुज्य आभारतं निवसन्तः अनेके जनाः अग्रे आगत्य यथाविधं स्वभागदानं कृतवन्तः । तेषां एवं करणस्य मुख्यकारणम् अस्ति संस्कृते अनुरागः । तथाऽपि इदं विश्वस्तरे श्लाघनीयम् अनुप्राणित-चित्रं निर्मातुम् इतोऽपि अधिकं २३ लक्षं अपेक्ष्यते रवि-वर्येण । एतस्य समुद्यमस्य साहाय्यकर्तृषु अनुमोदकेषु अन्यतमाः राजन्ते भूतपूर्वः इन्फ़ोसिस्-निर्देशकः मोहनदास-पाय्-वर्यः, कर्णाटकस्य प्रथमा महिला ऐ.पी.एस्. अधिकारिणी जीजा-हरिसिङ्ग्-वर्या , राष्ट्रियपुरस्कारभाक् सम्पादकः मनोज-कन्नत्-वर्यः तथा लोकविदित-पाञ्चालिकाचालकौ अनुपमा विद्याशङ्कर-होस्केरेवर्यः च। स्वयं रवि-वर्यस्य पुत्री बहुभाषापटुः संस्कृतभाषिणी च स्नेहा-नामिका अपि अत्र स्वध्वनिदानेन उपकृतवती।

        पाश्चात्य-संस्कृतेः सङ्कलनात् संस्कृतभाषा अद्य शनैः  किञ्चित् पृष्टमेव अवशिष्यते। पुण्यकोटि-चित्र-द्वारा एतां दिव्यां भाषाम् उद्धरन् सत्ययुक्तस्य जीवनस्य महिमानं, निसर्गानुकूलां जीवनरीतिं च युवजनेभ्यः प्रतिबोधयितुं रविवर्यः आशास्ते।

        संस्कृतजगति अन्तर्भूतानां भवतां अधुना अस्माकं संस्कृतिं इतिहासं च प्रपञ्चकलाक्षेत्रपथे स्थापयितुं कश्चिदयं अवकाशः । प्रचारोऽयम् अधुना चित्रं सम्पूर्णतां नेतुं आर्थिकव्यवस्थां परिकल्पयन् वर्तते यत्र भवन्तः साहाय्यं कर्तुम् अवकाशः जातः ।   भवन्तः अत्र (http://bit.ly/2M3cBDm) भागदानेन स्वानुमोदनं दर्शयन्तु अन्यजनेषु च सूचनामिमां प्रसारयन्तु ।