OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 24, 2018

दिल्लीस्थे श्रीलालबहादुरशास्त्रि राष्ट्रियसंस्कृतविद्यापीठे समायोजित: विशिष्टव्याख्यानकार्यक्रम:
-पुरुषोत्तमशर्मा
  नवदेहली> ऐषमो नवम्बरमासस्य द्वाविंशे दिने दिल्लीस्थे श्रीलालबहादुरशास्त्रि राष्ट्रियसंस्कृतविद्यापीठस्य वाचस्पतिसभागारे IGNCA इति इन्दिरागांधीराष्ट्रियकलाकेन्द्रस्य स्थापनादिवसावसरे भारतीयविद्यापरियोजनान्तर्गतं श्रीलालबहादुरशास्त्रि राष्ट्रियसंस्कृतविद्यापीठस्य 
संवर्धनन्यासस्य च संयुक्ततत्वावधाने संस्कृतसाहित्ये चतुरङ्गक्रीडाया: सन्दर्भा: विषयको विशिष्टव्याख्यानकार्यक्रम: समायोजित:। विद्यापीठस्य कुलपति: प्रो.रमेशकुमारपाण्डेय: कार्यक्रमस्य अध्यक्षतां निरवहत्।  संस्कृतसाहित्ये चतुरङ्गक्रीडाया: सन्दर्भा: विषयमालक्ष्य डॉ.चन्द्रगुप्तवर्णेकर: व्याख्यानं प्रास्तौत्। वर्णेकरमहोदयेन प्रक्षेपकयन्त्रसाहाय्येन निजव्याख्याने संस्कृतसाहित्ये विद्यमानानि उदाहरणानि प्रस्तुतानि। डॉ. शिवशङ्करमिश्रेण सम्पूर्णकार्यक्रमस्य सफलसञ्चलनं कृतम्।