OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 15, 2018

मध्यप्रदेशे कमल् नाथः , राजस्थाने अशोक् गह्लोत् - कोण्ग्रस् मुख्यमन्त्रिणौ सगढ़े निर्णयः न अभवत्। 
    नवदिल्ली >  भाजपादलात् प्रत्यग्रहीतेषु त्रिषु राज्येषु द्वयोः कोण्ग्रस् मुख्यमन्त्रिणौ निर्णीतौ। मध्यप्रदेशे कोण्ग्रसः राज्याध्यक्षः कमलनाथः , राजस्थाने भूतपूर्वः मुख्यमन्त्री अशोक् गह्लोतः च मुख्यमन्त्रिपदे नियुक्तौ। राज्याध्यक्षाय सच्चिन् पैलट् वर्याय उपमुख्यमन्त्रिपदं दीयते च। 
  तीव्रानां वादप्रतिवादानां प्रतिषेधानामन्ते आसीत् एतादृशः निर्णयः कृतः। मुख्यमन्त्रिपदं लक्ष्यीकृत्य बहवः 'भैमीकामुकाः' राज्यद्वयस्यापि राजनैतिकक्षेत्रे आसन्। के सि वेणुगोपालः, ए के आन्टणी, मल्लिकार्जुन खार्गे इत्येतेषाम्  ए ऐ सि  सि निरीक्षकाणां  सान्निध्ये कोण्ग्रस् दलाध्यक्षस्य राहुलगान्धिनः भवने राहुल् गान्धी , सोणियागान्धी , प्रियङ्कागान्धी इत्येतैः सह होराभिः कृतायां चर्चायामेव अन्तिमनिर्णयः जातः। 
   किन्तु छत्तीसगढस्य मुख्यमन्त्रिपदं कस्मै इति अद्यैव उद्घोषणं भविष्यति। तत्र दलस्य राज्याध्यक्षः भूपेष् भागेल्, विपक्षनेता टि एस् सिंहदेवः , वरिष्ठनेता तामरध्वज साहुः इत्येते मुख्यमन्त्रिपदकांक्षिणः वर्तन्ते इति निर्णये सङ्कीर्णतां जनयति।
                                                 मध्यप्रदेशमुख्यमन्त्रिपदे नियुक्तः कमलनाथः।

राजस्थानस्य नियुक्तमुख्यमन्त्री अशोक गह्लोत् [वामपार्शे] उपमुख्यमन्त्री सच्चिन् पैलट् च कोण्ग्रस् अध्यक्षेण राहुल् गान्धिना सह।