OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 12, 2018

विधानसभानिर्वाचनानि - कोण्ग्रस् दलस्य अधिरोहः ; भाजपा दलस्य अवरोहः। 
    > पञ्चसु राज्येषु त्रीणि कोण्ग्रस् दलाय , द्वे प्रादेशिकदलेभ्यः ।
   > छत्तीसगढ , मध्यप्रदेशः , राजस्थानं - भाजपा दलात् कोण्ग्रस् शासनाय। 
  > तेलुङ्काने पुनरपि टि अार् एस् दलम्। 
 > मिसोरामः कोण्ग्रस् दलात् स्रंसितः।
नवदिल्ली  >  आगामिनि  संवत्सरे सम्पद्यमानस्य लोकसभानिर्वाचनस्य प्रवेशद्वारे सम्पन्ने  विधानसभानिर्वाचनरूपे राजनैतिकद्वन्द्वयुद्धे कोण्ग्रस् दलं शक्तिं प्रादर्शयत्। छत्तीसगढ् , राजस्थानं , मध्यप्रदेशः इत्येतेषु राज्येषु राहुलगान्धिनः नेतृत्वे विद्यमानेन कोण्ग्रस् दलेन शासने वर्तमानात् भाजपादलात् शासनं स्वायत्तीकृतम्। किन्तु राजशासने वर्तमाने मिसोरामे कोण्ग्रसे शासनं विनष्टम्। तत्र 'एम् एन् एफ् ' [मिस्सो नाशणल् फ्रण्ट्] नामकदलेन कोण्ग्रस् अप्रतीक्षितेन अभिभूतम्। तेलुङ्कानराज्ये के चन्द्रशेखररावोः नेतृत्वे विराजमानं 'टि आर् एस्' [तेलुङ्काना राष्ट्र समितिः] दलं द्वितीयवारमपि शासनपदं प्राप।
    *राजस्थानं प्रत्यग्रहीत्।* गतवारे स्खलितं शासनम् अधुना बि जे पी दलात् कोण्ग्रस् प्रत्यग्रहीत्। विज्ञापितफलेषु १९९ स्थानेषु ९९ स्थानानि कोण्ग्रसा प्राप्तानि। भाजपेन ७३ मण्डलानि विजितानि।
  *छत्तीसगढे संपरिमार्जयत्।* भाजपायाः १५ संवत्सरात्मकस्य राजशासनस्य कोण्ग्रसः अन्त्योदकम्। नवत्याम् अष्टषष्टिः स्थानानि सम्प्राप्य कोण्ग्रसे अधिकारलब्धिः।
 *मध्यप्रदेशे शासनकोटिं प्राप्तम्।*   स्कन्धास्कन्धं प्रतियोगितायाः साक्षीभूते मध्यप्रदेशे त्रिंशत्यधिकद्विशतेषु चतुर्दशाधिकशतं स्थानानि सम्प्रापयत् कोण्ग्रस् शासनकोटिं प्राप्य तिष्ठति। न्यूनतमोपकण्ठात् द्व्यूनस्थानं कोण्ग्रस् इतरेषां साहाय्यं प्रतीक्ष्य वर्तते।