OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 23, 2018

हट्टतालं प्रति सहयोगो न भविष्यति - संयुक्तकर्मसमितिः! 
  कोच्ची   >  इतःपरं हट्टतालं नाम आन्दोलनरीतिं प्रति सहयोगस्य आवश्यकता नास्तीति केरलस्य ४२ संस्थानां संयुक्तोपवेशनं - संयुक्तकर्मसमितिः - निर्णयं कृतवत्। केरले पदे पदे जायमानेषु हट्टतालेषु   बह्व्यः कर्मकर-व्यापार-वाणिज्योद्योगसंस्थाः अस्वस्थाः असंतृप्ताश्च आसन्। अत एव 'बट्टर् कोच्चिन् रस्पोण्स् ग्रूप्' इत्याख्यायाः संस्थायाः नेतृत्वे ४२ संस्थाः मिलित्वा ऐककण्ठ्येन एतादृशं निर्णयं स्वीकृतवत्यः। 
  तासां इतरे निर्णयाः निर्देशाश्च -  हट्टतालं विरुध्य जनानां अवबोधाय सामाजिकमाध्यमद्वारा प्रचरणकार्यक्रमाः आयोजयिष्यन्ते। २०१९तमः संवत्सरः हट्टतालरहितः भवितुं सर्वकारप्रयत्नः भवितव्यः। विद्यालयाः कलाशालाश्च प्रवर्तननिरताः भवेयुः। वाहनानि सेवानिरतानि भवितव्यानि।