OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 26, 2019

भारतस्य शक्तिं प्रदर्श्य गणतन्त्रदिनपथसञ्चलनम्
     नव दिल्ली> राष्ट्रं सैन्यबलेन शक्तियुक्तम् इति प्रमाणस्य विज्ञापनम् आसीत् सप्ततितमं गणतन्त्रदिनम्।  दक्षिणाफ्रिक्काराष्ट्रपति सिरिल् रामफोसः आसीत् कार्यक्रमस्य मुख्यातिथिः। पथसञ्चलने भारतस्य सुप्रधानाः आयुधाः प्रदर्शिताः। अमेरिकादेशतः समीपे काले क्रीणीतः एम् ७७७ होविस्टर् महानालिकायन्त्रः च प्रदर्शितेषु आसीत्। नवति (९०) निमेषपर्यन्तस्य पथ सञ्चलने राज्याणां केन्द्र-शासित प्रदेशानां च निश्चलदृश्यकलाः अपि आसीत्। महात्मागान्धिनः १५० तम जन्मदिनोत्सवानुबन्धतया निश्चलदृश्यानां विषयः महात्मागान्धिनः चरितान् आश्रित्य आसीत्।
   राष्ट्रपतिना रामनाथ कोविन्देन अभिवाद्यानि स्वीकृतानि। उपराष्ट्रपतिः वेङ्कय्यनायिडु, प्रधानमन्त्री नरेन्द्रमोदी, पूर्व प्रधानमन्त्री मन् मोहन् सिहः  प्रतिरोधमन्त्रिणी निर्मलासीतारामः च  भागं स्वीकृतवन्तः।