OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 11, 2019

लोकसभानिर्वाचनस्य प्रथमसोपानम् अद्य। 
कोच्ची >  सप्तसोपानयुतस्य भारतलोकसभानिर्वाचनस्य प्रथमसोपानम् अद्य सम्पद्यते। विंशति राज्येषु ९१ मण्डलेष्वेव मतदानविनियोगः। तथा च त्रयाणां राज्यानां विधानसभानिर्वाचनमपि अद्य सम्पद्यते। 
 आन्ध्राप्रदेशस्य आहत्य ४०मण्डलेषु २५ मण्डलेषु अद्य निर्वाचनं भविष्यति। तेलुङ्कानस्य १७, उत्तरप्रदेशस्य ८, महाराष्ट्रस्य ७, असमराज्यस्य ५, उत्तराखण्डस्य ५ मण्डलेषु च अद्य जनाधिकारः विनियुज्यते। अद्यैव जनहिताय   प्रतीक्ष्यमाणानि इतराणि राज्यानि मण्डलानि च - बीहारः [४], ओडीषा [४], अरुणाचलप्रदेशः [२], मेघालयः [२],  पश्चिमवंगः [२], जम्मुकाश्मीरः [२], छत्तीसगढ़, मणिप्पूर्, मिसोराम्, नागालान्ट्, सिक्किम्, त्रिपुरं, अन्तमान्-निक्कोबार्, लक्षद्वीपः [एकैकं] च। आन्ध्रप्रदेशः, अरुणाचलप्रदेशः सिक्किम राज्येषु विधानसभानिर्वाचनानि च अद्य प्रचलन्ति।