OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 30, 2019

प्रधानमन्त्रिणो मोदिनो मन्त्रिपरिषद: सदस्यानाञ्च शपथग्रहणसमारोह:
-पुरुषोत्तमशर्मा, नवदिल्ली
    नवदिल्ली> प्रधानमन्त्रिण: नरेन्द्रमोदिन: शपथग्रहणसमारोहे अद्य नवदिल्ल्यां बाङ्ग्लादेशस्य राष्ट्रपति: मोहम्मद-अब्दुलहामिद: श्रीलङ्काया: राष्ट्रपति: मैत्रीपाला सिरिसेना किर्गिज्‍स्‍तानस्य राष्‍ट्रपति: सूरोन्‍बे-जीनबेकोफ: म्यामांया: राष्ट्रपति: यू.विनमिण्ट: मॉरिशसराष्ट्रस्य प्रधानमन्त्री प्रविन्‍दकुमारजुगनाथ: नेपालस्य प्रधानमन्त्री के.पी. शर्मा ओली भूटानस्य प्रधानमन्त्री डॉ.लोटेत्शेरिङ्ग: थाईलैण्डस्य विशेषदूत: ग्रिसादा-बूनराचश्चोपस्थास्यन्ति।

  बिम्‍सटेक अथ च प्रतिवेशिदेशानां नेतृभिश्च  शपथग्रहणसमारोहे उपस्थातुं पुष्टि: कृतास्ति । अयं प्रधानमन्त्रिण: नरेन्द्रमोदिनो द्वितीय: कार्यकालो वर्तते । विदेशमन्त्रालयस्य प्रवक्ता रवीशकुमार: विवरणमिदं प्रदत्तवान् ।

  राष्ट्रपति: रामनाथकोविन्द: नरेन्‍द्रमोदिने केन्द्रीय मन्त्रिपरिषद: अन्यसदस्येभ्यश्च राष्ट्रपतिभवने सायं सप्तवादने पदगोपनीयताया: शपथवचनै: प्रतिज्ञापयिष्यति। स्रोतोभिस्सूचितं यत्  राज्‍य केमुख्‍यमन्त्रिभ्यो राज्‍यपालेभ्यश्च शपथग्रहणसमारोहस्यामन्त्रणं प्रेषितमस्ति । एतदतिरिच्य कांग्रेसदलाध्‍यक्ष: राहुलगांधी संयुक्तप्रगतिशीलसंयुत्या: अध्‍यक्षा सो‍नियागांधी च अत्रावसरे उपस्थास्यत:।