OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 22, 2019

कालेश्वरं जलसेचनयोजना रामर्पिता। 
कालेश्वरं जलसम्भरणी। 
हैदराबाद् >  विश्वस्य बृहत्तमा विविधोद्देश्ययोजना इति परिगणिता तेलुङ्काना राज्यस्था  'कालेश्वरं जलसेचनयोजना' राष्ट्राय समर्पिता। ह्यः जयशङ्करभूपालपल्लि जनपदस्थे मेदिगद्दग्रामे समायोजिते कार्यक्रमे तेलुङ्कान - आन्ध्रयोः राज्यपालः ई एस् एल् नरसिंहः, तेलुङ्कानस्य मुख्यमन्त्री के चन्द्रशेखररावः, आन्ध्रप्रदेशस्य मुख्यमन्त्री वै एस् जगन्मोहन रेड्डी, महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्र फड्नविसः इत्येते मिलित्वा योजनायाः उद्घाटनमकुर्वन्। 
  राष्ट्रस्य जलसेचनयोजनानां चरिते अतिविशिष्टा भवत्येषा योजना प्रातिवेशिकराज्यानां केन्द्रसर्वकारस्य च अनुमतिं प्राप्य अतिशीघ्रं निर्माणं पूर्तीकृतम्। समुद्रतीरस्य इतरजलसेचनसुविधानां चाभावे गोदावरीनद्यां निर्मितः जलसञ्चयः तेलुङ्कानाराज्यस्य अनुग्रहाय वर्तते।