OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 5, 2019

निपा स्थिरीकृता ; केन्द्रसाहाय्यः वाग्दत्तः। 
कोच्ची >  केरले एरणाकुलं जनपदस्थे आतुरालये 'निपा'वैरसाणुबाधासन्देहेन प्रविष्टे छात्रयुवके बाधा स्थिरीकृता। पूनादेशस्थात् 'देशीय वैरसाणुगवेषण संस्थानात्' आतुरस्य रक्तस्रवादीनां परिशोधनफलेनैव अयं निपाबाधितः इति प्ररूढीकृतः। ततःपरं केरलस्य स्वास्थ्यविभागः अतीवजाग्रतया प्रवर्तते। 
  रोगिणम् अतिसामीप्यवर्तिताः ५ जनाः ज्वरबाधया कलमश्शेरीस्थे सर्वकारातुरालये अनन्यसम्पर्कविभागे [Isolation ward] सूक्ष्मनिरीक्षणे वर्तन्ते। तेषां रक्तस्रवादयः परिशोधनायै समर्पिताः। 
  तथा च केन्द्रस्वास्थ्यमन्त्रिणः हर्षवर्धनस्य नेतृत्वे केरलस्य सविशेषावस्थाः विशकलिताः। केरलं प्रति वैद्यसङ्घं प्रेषयितुं पदक्षेपाः स्वीकृताः।
  रोगिणः अवस्था तु इदानीं समीचीना वर्तते।