OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 31, 2019

मलिनीकरणं न्यूनीकर्तुं विद्युल्लोकयानम् आगमिष्यति।
    नवदिल्ली>  मलिनीकरणं   न्यूनीकर्तुं राष्ट्रस्य गतागत-संविधानेषु  परिष्कारः समागच्छति। विद्युद्यानानाम् उपयोग-वर्धनमुद्दिश्य ५६४५ विद्युल्लोकयानान् धावयतुं केन्द्रसर्वकारेण निश्चितम्। ८ राज्येषु नगरसेवायैः यानानि उपयोक्तुम् अनुज्ञा प्रदत्ता अस्ति। नीति आयोगस्य सि इ ओ अमिताभ कान्तः टिट्वर् द्वारा वार्तामिमां प्रकाशितवान्। मेक्‌ इन् इन्द्या परियोजनायाः अनुबन्धतया विद्युद्यानानां निर्माणं भारतस्य विविध-भागेषु प्रचलिष्यति। एतदर्थं १०००० कोटि रूप्यकाणि केन्द्रसर्वकारेण अङ्गीकृतानि
विद्युद्यानानां पण्य-सेवन-करः १२% तः ५% इति न्यूनीकर्तुं पण्य-सेवन-कर आयोगेन निश्चितम्।

Tuesday, July 30, 2019

काश्मीरस्य सानुप्रदेशे १०००० सैनिकाः विन्यस्यन्ते।
 प्रक्रमान्  विरुद्ध्य काश्मीरस्थ राजनैतिकविपक्षीय दलैः प्रतिषेधः आयोक्ष्यते।
   नवदिल्ली> जम्मू काश्मीरस्य भूतपूर्व मुख्यमन्त्रिण्या मेहबूबा मुफ्तिना नाषणल् कोण्फरन्स् नेता फारूख् अब्दुल्लः सैनिकविन्यासं विरुद्ध्य साहायाः अभ्यर्थिताः। काश्मीरस्य सानुप्रदेशे दशसहस्रं भारतसैनिकाः विन्यस्यन्ते इति ज्ञात्वा प्रक्रमान्  विरुद्ध्य काश्मीरस्थ राजनैतिक -दलानां प्रतिषेधः आयोजनीयः इत्यस्ति मेहबूबायाः अभ्यर्थना। पाकिस्थानेन सीमाग्रामेषु 'षेल्' इति शस्त्रमुपयुज्य आक्रमणं क्रियमाणं वर्तते। अवसरेस्मिन्  सैन्यं विरुद्ध्य राजनैतिकविपक्षिदलीयैः संयुक्तोपवेशनम् आयोज्यते इति गौरवास्पदा घटना भवति। पाकिस्थानस्य पक्षतः भीषा अधिका इत्यनेन अर्धसैनिकान् काश्मीरस्य  सानुप्रदेशे विन्यासाय केन्द्र-आभ्यन्तर-मन्त्रालयेन निश्चितं स्यात् ।

Monday, July 29, 2019

मृत्योः वक्त्रे पितताऽपि अनुजां ग्रहीत्वा पञ्चवयस्का बालिका। सिरियस्य युद्ध-चित्रम्।
सिरिय> भग्नानां सौधानां मध्ये द्वे बालिके तयोः पृष्ठतः पञ्चवयस्का अर्धप्राणा बालिका, तान् दृष्ट्वा निस्सहायतया विलपन्तः कश्चित् पुरुषः- चित्रमिदं सिरियादेशे अनुवर्तमानस्य युद्धस्य भीकरदृश्यमेव। सप्तमास-वयस्काम् टुक्वा नामिकाम् अनुजां रक्षितुं प्रयतते पञ्चवयस्का ज्येष्ठा। अनुजायाः इरितवर्णयुक्त युतके सा ग्रहीतवती। तस्मिन् समये तस्याः करयोः शक्तिप्रवाहः आसीत्I  किन्तु मस्तिष्के आपन्नेन क्षतेन पश्चात् सा मृता आभवत्। तस्यः अन्या अनुजा अपि मृता। टुक्वा आतुरालये तीव्र परिचर्या विभागे चिकित्सायाम् अस्ति। तेषां माता युद्धे मारितवती। 
निष्कलङ्कान् शिशून् कदापि न मारय इति मानवाधिकार प्रवर्तकाणां, सन्नद्ध सङ्‌घटनानां प्रार्थनां अवमत्य भवति सिरियायां विगतानि अष्टसंवत्सराणि यावत् आभ्यन्तरयुद्धम् अनुवर्तते। मसत्रयाभ्यन्तरे एवं ४ ५० जनाः मारिताः इति ऐक्यराष्ट्र-संघटनस्य गणना अस्मान् ज्ञापयते।

Sunday, July 28, 2019

अतिवृष्ट्या जलप्लवे रेल्यानं स्थगितम्। ७०० यात्रिकाः याने बद्धाः अभवन्।

  बदल् पुरम्> महाराष्ट्रे जायमानायाम् अतितीव्रवृष्ट्यां महालक्ष्मी रेल्यानं जलप्लवमध्ये आबद्धम्। ७०० जनाः रेल्याने अनशनतया पानीयं विना बन्धिताः सन्ति। यात्रिकानां सुरक्षायै द्वे सैनिकोदग्रयाने, राष्ट्रिय दुरन्तनिवारणसेनायाः षट् नौकायानानि च दुरन्तस्थानं प्राप्तानि। मुंबैतः ७० कि मी दूरे भवति थटनायाः स्थानम्। रेलयानं परितः षट्पाद-परिमितोन्नत्यां वृष्टिजलं निभृतम्।  शुक्रवासरे रात्रौ आरम्भ  सार्वजनिक-माध्यमेषु यात्रिकाः जीवरक्षायै न्यवेदनानि प्रकाशितानि।

Saturday, July 27, 2019

अप्पाच्चे ए एच् - ६४ इ उदग्रयानस्य प्रथम श्रेणी अद्य प्राप्स्यते।

    नवदिली> यु एस् विमाननिर्माणसंस्थातः बोयिङ् इत्यतः भारतेन क्रीणीतेषु उदग्रयानेषु २२ उदग्रयानानां श्रेणी अद्य प्राप्स्यते। गासियाबादस्य हिन्दोण् व्योमकेन्द्रं प्रति भवति उदग्रयानानाम् आनयनम् । भारत-पकिस्थानयोः सीम्नः समीपं परीक्षणोद्ड्डयनानन्तरं भारताय दीयते।
आट्टूर् रविवर्मा दिवंगतः। 

तृश्शिवपेरूर् >  प्रमुखः केरलीयकविः अनुवादकश्च आट्टूर् रविवर्मा [८९] तृश्शिवपेरूर् मध्ये निजीयातुरालये निर्यातः। 'न्युमोणिया' रोगबाधया तत्र चिकित्साविधेयः आसीत्। 
    द्राविडसंस्कृतेः पारम्पर्यं परिपालयन् कैरलीकविताशाखायै अन्तश्शक्तिप्रदाने नूतनं पन्थानं समुद्घाटयति स्म रविवर्मा वर्यः। केन्द्र - केरलसाहित्य अक्काडमीपुरस्कारौ, एष़ुत्तच्छन् पुरस्कारः, इत्यादिभिः प्रमुखैः पुरस्कारैः समादृतः। मेलसङ्गीतादिकलासु अगाधपण्डित आसीत्।

Friday, July 26, 2019

लिबिया सागरतीरे नौकायानभग्नेन १५० अभयार्थिनः आहताः।
   ट्रिप्पोली> गतदिने लिबिया सागरतीरे नौकायानभग्नेन १५० संख्याकाः अभयार्थिनः निहताः। मेडिट्टरेनिया सागरे अस्मिन् वर्षे आपन्ने विपत्सु बृहत्तमा स्यात् इयम् इति यू एन् प्रतिनिधी अवदत्I नौकायाने २५० तः परं जनाः यात्रां कुर्वन्तः आसन्| उपशतं जनान् लिबियस्य तीरसेना धीवराः च संयुक्ततया अरक्षन् इति लिबियस्य नाविकसेना अवदत्। 
   आफ्रिक्क भूखण्डस्थेभ्यः विविधेभ्यः राष्ट्रेभ्यः लिबियं प्राप्य ततः यूरोपस्थान्  राष्ट्राभिमुखाः  गच्छन्ति समान्येन अभयार्थिनः।  २०१९ तमे संवत्सरे  मेडिट्रेनिया सागरे एवं ६०० अभयार्थिनः मारिताः सन्ति इति यु न् प्रतिनिधिः चार्ली याक्स्ली अवदत्। 

Thursday, July 25, 2019


  • "पाकिस्थानधिष्ठिताः भीकराः काश्मीरेषु प्रवर्तन्ते" - इम्रान् खानः। 
वाषिङ्टण् >  पाकिस्थानम् आस्थानीकृत्य भीकराः इदानीमपि जम्मुकाश्मीरेषु आक्रमणानि आयोज्यन्ते इति पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन उक्तम्। राष्ट्रे भीकरसंस्थाः प्रवर्तन्ते इति विषयं भूतपूर्वसर्वकाराः यू एस् अधिकारिभ्यः गोपनं कृतवन्तः इति तेन उक्तम् ! वाषिङ्टण् नगरे कस्मिंश्चित् समारोहे भाषमाण आसीत् सः।
३० सहस्रेभ्यः ४० सहस्रपर्यन्ताः सायुधाः भीकराः पाकिस्थानमधिवसन्ति। ते सर्वे अफ्गानिस्थानात् काश्मीराद्वा सिद्धपरिशीलाः भवन्ति। उपचत्वारिंशत् आतङ्कवादसंघटनानि राष्ट्रे प्रवर्तमानानि सन्ति। सैन्यस्य साहाय्येन भीकरान् उन्मूलयितुं यतते इति पाक् प्रधानमन्त्रिणा संकलितम्।

Wednesday, July 24, 2019

बोरिस्‌ जोण्सणः ब्रिट्टणस्य प्रधानमन्त्री भविष्यति।
  लन्टन्> ब्रिट्टणस्य नूतनप्रधानमन्त्रीपदे बोरिस् जोण्सणः भविष्यति। तेरेसा मेय् इत्याख्यायाः स्थानत्यागानन्तरम् आयोजिते सम्मतिदाने आसीत् अस्य चयनम्। विपक्षस्थं विदेशकार्य सचिवं जरमि हण्डं  पराजित्य आसीत् अस्य विजयः। बोरिस् महोदयः ६६% सम्मतिः प्राप्तवान्I ब्रेक्सिट्ट् सन्ध्यां विधानसभायाम् अभिमतसमन्वयं न स्यात् इन्यनेन असीत् तेरेसायाः स्थानत्यागस्य कारणम्।
कुमारस्वामिसर्वकारः पतितः। 
बेङ्गलुरु >  कर्णाटकराज्ये एस् डि कुमारस्वामिनः नेतृत्वे विद्यमानः जे डि एस् - कोण्ग्रस् सख्यसर्वकारः पतितः। सप्ताहद्वयपर्यन्तं दीर्घितस्य राजनैतिकनाटकस्य अन्ते विश्वासमतगणनावेलायां सख्यसर्वकारस्य भूरिमतं विनष्टमभवत्। २०५ अङ्गयुक्तविधानसभायां केवलं ९९ सामाजिकानां सहयोग एव प्राप्तः। १०५ सामाजिकाः सर्वकारं विरुध्य स्वमतं प्रकटयामासुः। 
  अनन्तरं मुख्यमन्त्री कुमारस्वामी राजभवनं प्राप्य राज्यपालाय त्यागपत्रं समर्पितवान्।
षार्ज देशे भारतीयाः अनशनतया पीडिताः।
  षार्ज> मासत्रयं यावत् अनशनतया क्लेशिताः केचन भारतीयाः। दुबाय् केन्द्रीकृत्य वास्तुविद्या मण्डले प्रवर्तमानः पालस्तीन् स्वदेशीयानां कर्मसंस्थायां भवति एषा दुर्दशा। केषाञ्चन पारपत्रस्य अनुज्ञाकालस्य पर्यवसितः च। निष्कृतिरपि सम्पूर्णतया न लभते। कर्मसंस्थायाः अधिकारिणां पुरतः निष्कृतिं पृच्छति चेत्  कर्म नास्ति अतः षण्मासान् यावत् प्रकोष्टे यापनं कुरु इति तैः उच्यते इति दाक्षिणात्यः महेशः वदति। एवं चेत् पारपत्रं निरस्य स्वदेशं प्रेषयतुम् अर्थयते चेत् तत्  ते न अङ्गीकुर्वन्ति इत्यपि तेनोक्तम्। अस्मिन् उत्तरभारतीयाः अधिकतया कर्म कुर्वन्ति। येन केनापि मार्गेण स्वदेशः प्रापणीयः इत्यस्ति सर्वेषां मनसि इदानीन्तनीया चिन्ता।  कर्मकरेषु केचित् दुबाय् सर्वकारस्य कर्ममण्डलविभागं प्रति विषयमिदं न्यवेदितम्। तेषां प्रत्युत्तरं प्रतीक्ष्य तिष्ठन्तः सन्ति।

Tuesday, July 23, 2019

बहिराकाशे नवचरितं विरच्य भारतं ; चन्द्रयानं भ्रमणपथं प्राप्तम्। 
श्रीहरिक्कोट्टा >  २०१९ जूलाई २२ अपराह्ने २.४३ भारतस्य अभिमाननिमेषः! भारतस्य द्वितीयं चन्द्रपर्यवेषणपेटकं वहन् 'बाहुबलिः' [जि एस् एल् वि मार्क् ३ गोलान्तरप्रक्षेपिणी] सतीष् धवान् बहिराकाशकेन्द्रात्  बहिराकाशं प्रति उदगच्छत्। षोडशनिमेषाभ्यन्तरे चन्द्रयानं विक्षेपणीतः विच्छेदितं भ्रमणपथं प्राप्तं च। अचिरादेव चन्द्रयानस्य नियन्त्रणं बङ्गुलुरुस्थया ऐ एस् आर् ओ संस्थया स्वीकृतम्। 
   चन्द्रयानविक्षेपणं विजयपथं प्राप्तमिति ऐ एस् आर् ओ अध्यक्षः डो. के शिवः अवादीत्। राष्ट्रपतिः रामनाथकोविन्दः, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः राष्ट्रनेतारः चन्द्रयानदौत्यस्य भूमिकायां प्रयतितवतः शास्त्रज्ञान् अभिनन्दितवन्तः।

Monday, July 22, 2019

अलीकविहीन राज्यं भवितुम् उतरघण्डं सज्जायते। 
  डेराडूणं> उत्तरघण्डम् अलीकविहीन राज्यं कर्तुं सर्वकारः प्रयतते। एतस्य भागतया विनामी (Benami) भूविक्रयप्रक्रियां विरुद्ध्य नियमनिर्माणं कर्तुं निश्चितं सर्वकारेण। विनामिकानां भूमिः विना विलम्बं बलात् स्वीकरिष्ये इति मुख्यमन्त्रिणा त्रिवेन्द्रसिंह रावत्तेण उक्तम्। अलीककृतान् विरुद्ध्य मुखदर्शनं विना प्रक्रमाः स्वीकरिष्यन्ते। राज्यस्य प्रगतये वर्तमानः अलीकरहितः सर्वकारः भवति एषः। अलीकान्  विरुद्ध्य प्रक्रमा समारब्धाः इत्यपि त्रिवेन्द्रसिंह रावत्तेण उक्तम्। 
'श्रीहरिक्कोट्टा' सर्वसज्जा ; चन्द्रयानं - २स्य विक्षेपः अद्य। 

श्रीहरिक्कोट्टा >  इन्धनागारदोषात् स्थगितक्षिप्तस्य चन्द्रयानं द्वितीयस्य विक्षेपाय अत्रत्यः बहिराकाशनिलयः सर्वसिद्धतां प्राप। अद्य अपराह्ने २.४३ वादने विक्षेपः भविष्यति। साङ्केतिकदोषाः सर्वे परिहृत्य एव विक्षेपः इति ऐ एस् आर् ओ अध्यक्षः के . शिवः उक्तवान्। 
   सेप्टम्बर् षष्ठदिनाङ्के एव चन्द्रोपरितले मृदूत्तरणं [soft landing] भवेत् इति पूर्वनिर्णयमनुसृत्य 'सोफ्ट् वेर्' मध्ये आवश्यकं परिवर्तनं कृतम्। चन्द्रगोलं प्रक्षिणं क्रियमाणं 'ओर्बिटर्', चन्द्रोपरितलं अवतीर्यमाणं विक्रम् नामकम् अवतारकं [लान्डर्], पर्यवेषणं क्रियमाणं प्रग्यान् - प्रज्ञानं- नामकं 'रोवर्'  इत्येतैः युक्तं भवति चन्द्रयानं - २। 'बाहुबलि' संज्ञकं जि एस् एल् वि मार्क् ३ अग्निबाण एव विक्षेपणवाहनम्।
इरानेन ब्रिट्टनेन च परस्परं निगृहीतयोः  महानौकयोः षट् केरलीयाः। 
कोच्ची >  गतदिने होर्मुस् समुद्रान्तर्भागे इरानेन निगृहीतायां ब्रिट्टनस्य तैलेन्धनयुक्तायां महानौकायाम् अन्तर्भूतेषु १८ भारतीयेषु त्रयः केरलीयाः इति दृढीकृतम्। एरणाकुलं, तृप्पूणित्तुरा, पल्लुरुत्ती, कासरगोड् प्रदेशीयाः एव ते इति प्रत्यभिज्ञातम्। तथा च जूलै ४ दिनाङ्के ब्रिट्टनेन जिब्राल्टर् समुद्रे इरानस्य 'ग्रेय्स् १' नामिका महानौका निगृहीता आसीत्। तत्र च त्रयः केरलीयाः वर्तन्त इति वार्ता लब्धा। सर्वानपि भारतीयान्मोचयितुं प्रक्रमाः समारब्धा इति विदेशमन्त्रालयेन निगदितम्।

Sunday, July 21, 2019

इरानेन गृहीते ब्रिट्टीषीयमहानौकायां १८ भारतीयाः।
 
भारतीयान् मोचयितुं यत्नः आरब्धः। 
लण्टन् > होर्मुस् समुद्रान्तर्भागे इरानेन निगृहीतायां ब्रिट्टनस्य तैलेन्धनयुक्तायां महानौकायां १८ भारतीयाः अन्तर्भवन्तीति स्थिरीकृतम्। २३ सेवाकर्तृषु अन्ये रूस् , फिलिप्पीन्स्, लात्विया देशीयाः इति सूच्यते। भारतीयान् मोचयितुं अन्ताराष्ट्रतले उद्यमः आरब्धः इति भारतस्य विदेशकार्यमन्त्रालयेन उक्तम्। 
 ब्रिट्टनस्य 'स्टेना इम्पेरा' नामिका तैलेन्धनपूर्णा महानौका इरानस्य 'इस्लामिक् रवलूषणरि गार्ड्' इत्यनेन निगृहीता। अनया घटनया पश्चिमेष्यन् मण्डले संघर्षावस्था शक्ता जाता।
केरले वर्षा शक्ता; चत्वारः मृताः। 
कोच्ची > दिनद्वयेन केरले वर्षाकालः शक्तः अभवत्। अतिवृष्ट्याः दुष्प्रभावात् चत्वारः जनाः मृताः। कतिपयेषु जनपदेषु दुरिताश्वासशिबिराणि आरब्धानि। 
  आगामिदिनेषु वृष्टिः शक्ता भविष्यतीति पूर्वसूचना अस्ति। केषुचित् जनपदेषु अतितीव्रवर्षस्य प्रवचनेन अतितीव्रजाग्रता प्रख्यापिता।
षीला दीक्षितः दिवंगता। 

नवदिल्ली > वरिष्ठा कोण्ग्रस् नेत्री तथा दिल्लीप्रदेशस्य भूतपूर्वमुख्यमन्त्रिणी षीलादीक्षितः [८१] दिवंगता। पञ्चमासानि यावत् केरलस्य राज्यपालपदं च अलंकृतवती आसीत्। शनिवासरे सायं ३.५५वादने दिल्ल्याम् आतुरालये हृदयाघातेन मरणमभवत्। 
  अद्य मध्याह्ने ए ऐ सि सि आस्थाने सामान्यजनानां कृते दर्शनाय सन्दर्भः लभ्यते। ततः यमुनातीरस्थे निगम बोध घट्टश्मशाने अन्त्यक्रियाः सम्पत्स्यन्ते। प्रधानमन्त्री नरेन्द्रमोदी, राष्ट्रपतिः रामनाथकोविन्दः, राहुल् गान्धी, सोणियागान्धी , ए के आन्टणी इत्येते  वरिष्ठाः कोण्ग्रस् दलनेतारः इत्यादयः षीलादीक्षितस्य वियोगे अनुशोचितवन्तः।

Saturday, July 20, 2019

प्रलयः - असं बीहारादिराज्येषु मरणानि १५० अतीतानि।
नवदिल्ली >  भारतस्य उत्तरपूर्वीयराज्येषु प्रलयदुष्प्रभावे मृतानां संख्या १५० अतीता। १.१५ कोटिजनाः दुष्प्रभावम् अनुभवन्तः सन्तीति अधिकारिभिः निगदितम्। पुनरधिवासप्रवर्तनानि ऊर्जितेनानुवर्तन्ते। 
  बीहारे अद्यावधि ९२ जनाः मृत्युवशं प्राप्ताः। मृतानां परिवारेभ्यः क्रमशः चतुर्लक्षं रूप्यकाणि देयानीति मुख्यमन्त्रिणा नितीष्कुमारेण उक्तम्। असमराज्ये तु एषा संख्या ४७ अभवत्।
मनुष्यं चन्दोपरितले अवतारणं कृत्वा ५० संवत्सराः अतीताः- चलनघण्टेन सह गूगिल् डूडिल्।

   मनुष्यस्य चन्द्रोपरितलावतरणस्य ५० वर्षाः समुपन्नाः।  अयं तोषः डूडिल् प्रस्तूय उत्सवाचरणं करोति गूगिल् संस्थया। विजयीभूतस्य प्रथमचन्द्रगमनस्य ५० संवत्सरसम्पूर्णता जूलाय् २१ दिनाङ्के भविष्यति। अस्य विजयस्य स्मृतिरिव भवति 'डूडिल्' रूपेण अवतारितः इदं चलनचित्रखण्डम्। १९६९ तमे जूलाय् २० दिनाङ्के अमेरिकः नील् आम्स्ट्रोङ्, एड्विन् आल्ड्रिन् च चन्द्रोपरितले अवतारितवन्तौ।

Friday, July 19, 2019

पाकिस्थानस्य भूतपूर्वप्रधानमन्त्री षाहिद् खान् अब्बासि उद्‌कोचव्यवहारे ग्रहीतः।
   इस्लामाबाद्> पाकिस्थानस्य भूतपूर्वप्रधानमन्त्री षाहिद् खान् अब्बासि उद्‌कोचव्यवहारे नाषणल् अकौण्डबिलिट्टि ब्यूरो  (NAB) द्वारा ग्रहीतः। पाकिस्थानस्य भूतपूर्वप्रधानमन्त्री  नवास् षेरीफ् भूतपूर्व राष्ट्रपतिः आसिफ् अलि सर्दारि इत्याख्यानन्तरं ग्रहीतः प्रमुखः राष्ट्रियनेता भवति एषः अब्बासि। लाहोरस्थ पत्रकारसमाजं प्रति गमनसमये आसीत् तस्य ग्रहणम् इति पि टि ऐ वार्ताहर संस्थया आवेदितम्।
द्रवीकृत-प्रकृतिवातक संबन्धतया कृते लकुचप्रवर्तने भवति ग्रहणम्।
भारतस्य रक्षामन्त्रालयेन निगदितं यत् - राफेलागमनेन वायुसेनायाः युद्धनीतिः इतोऽपि दृढतरा भविष्यतीति।
-सन्दीपकोठारि
   नवदेहली> रक्षामंत्रालयस्य वार्षिकप्रतिवेदनं गुरुवासरे समुपन्यस्तम्। प्रत्यावेदनानुसारं राफेल् एयरक्राफ्ट् इत्यस्यागमनेन भारतीयवायुसेनायाः युद्धक्षमता वर्धिष्यते सहैव युद्धनीतिस्तरेऽपि नैकतत्त्वानि इतोऽप्यधिकतया दृढतराणि भविष्यन्ति।
फ्रान्स् (एयरफोर्स) वायुसेनामार्गदर्शने अधिकारीणां टेक् निक् जनानां च प्रथमोत्पत्तिचक्रस्य प्रशिक्षणं समारब्धम्। प्रतिवे‌दने प्रोक्तं यत् राफेल् इत्यस्य वायुसेनायाम् आगमनेन शस्त्रपक्षः अधिको  भविष्यति। मिसाइल् यानं च  सुदीर्घकार्यकुशलं लक्ष्यानुगुणं सक्षमं च भविष्यति। भारतम् आत्मविरोधिभिस्समं  इतोऽपि अधिकं बलवत् भवितुं शक्ष्यति।
मुम्बई भीकराक्रमणस्य सूत्रधारः हाफिस् सयीदः पाकिस्थाने गृहीतः। 
लाहोर् >  २००८ तमे संवत्सरे मुम्बय्यां संवृत्तस्य भीकराक्रमणस्य सूत्रधारः , 'जमाअत्तुद्दव' नामकसंघटनस्य नायकश्च हाफिस् मुहम्मद् सयीद् नामकः पाकिस्थाने निगृहीतः।लाहोरतः गुज्रन्वालांप्रति गच्छति सति पाकिस्थानीयस्य पञ्चाब् आरक्षकैः एषः गृहीतः।
मस्तिष्के निवेष्टुं नाडीबन्धिधित-सङ्गणकशलाका निर्मिता।
    मस्तिष्कं यन्त्रान् च मिथः बन्धनीयः इति लक्ष्यीकृत्य इलोण् मस्कस्य  नेतृत्वे आरब्धः अनुसन्धानयोजनाः सफलतां प्राप्‌स्यन्ते। केशादपि लघुतमा 'इलक्ट्रोड्' सूत्राणि उपयुज्य मनुष्यस्य मस्तिष्के सङ्गणक-शालाकायाः बन्धनं कुर्वन्ति। काल-कालान्तरं यावत् विना साहायं प्रवर्तते इयम्।  अन्येषां साहाय्येन  जीवनं यापयतां शारीरिकक्लेशेन पीडितानां कृते स्वस्य उपकरणानि यथेच्छं प्रवर्तयितुं शक्यते अनया योजनया।
   'न्यूरा लिङ्क्' इति संस्थया निर्मितानि एतानि विशेषसूत्राणि विवरण-वितरणे अतिक्षमतायुक्तानि भवन्ति। एतस्य प्रथमाग्राणि 'एन् वण्‌' इति सङ्गणकशलाकायां ( chip) सुबद्धानि भविष्यन्ति। द्वितीयाग्राणि मस्तिष्कस्य विशेषभागेषु च संबद्धानि भविष्यन्ति। अनन्तरं मस्तिष्कस्य बहिः लघु उपकरणमपि संबन्ध्य विवरणानि वितरिष्यन्ति। विद्युत्-तरङ्गानुपयुज्य भवति अस्य उपकरणस्य  टङ्कितांश-वितरणम्। 

Thursday, July 18, 2019

कुलभूषणजाधवस्य मृत्युदण्डे अन्ताराष्ट्रनीतिपीठस्य आश्वासविधिः। 

हेग् >  मृत्युदण्डं धृत्वा पाकिस्थानस्य कारागृहे वसतः भूतपूर्वनाविकस्य कुलभूषणजाधव् नामकस्य मृत्युदण्डः अन्ताराष्ट्रीयनीतिपीठेन निरस्तः। १६ अङ्गयुक्तनीतिपीठस्य १५ अङ्गास्तु कुलभूषणाय ऐकमत्यं प्राकटयन्। मृत्युदण्डः पुनर्विचारणीयः इति तैरुक्तम्। किन्तु मृत्युदण्डं निरोद्धुं कुलभूषणं मोचयितुं वा नीतिपीठेन नोद्युक्तः।
  कुलभूषणस्य प्रकरणे भारतस्य अधिकारः पाकिस्थानेन निषिद्ध इति अन्ताराष्ट्रनीतिपीठेन पर्यवेक्षितम्। किञ्च कुलभूषणाय अवश्यं नैतिकसाहाय्यमपि  न लब्धमिति निरीक्षितम्।

Wednesday, July 17, 2019

विश्वे बुभुक्षया पीडिताः ८२ कोटि जनाः - यु. एन्  
    U.N > गतसंवत्सरे विश्वे खाद्यविभवाय क्लेशितानां  जनानां सङ्ख्या ८२.१ कोटि इति अन्ताराष्ट्र-संयुक्त-समित्याः आवेदनम्। पोषकयुक्त भक्ष्योत्पन्नानाम्  अभावेन २०१५ तमसंवत्सरादारभ्य इयं दुर्दशा वर्धितक्रमेण वृद्धिं याति इति आवेदने सूच्यते। दश संवत्सरेभ्यः पूर्वम् ईदृश्याम् अवस्थायाम् आश्वासप्रदः पुरोगतिः आसीत्। अभ्यन्तर-युद्धानि, पर्यावरणव्यत्ययानि च भक्ष्य दौर्लभ्यस्य प्रधान-कारणत्वेन उच्यते।
२०१७-तमे ८१ कोटि जनाः दिने एकवारस्य अन्नमपि विहाय उषिताः आसन्। २०३० तमे - बुभुक्षारहितो विश्वः इति लक्ष्यं साक्षात्कर्तुं बहुक्लेशः भविष्यति इति यू एन् समित्याः भक्ष्य-विभागाध्यक्षः डेविड् ब्लीसि अवदत्‌। भक्ष्यसुरक्षां विना शान्तिः सुस्थितिः च न भविष्यतः। दुर्भिक्षया विश्वे शिशवः अपि मृताः सन्ति। तथापि वार्तामाध्यमानि सदा डोणाल्ड् ट्रम्पं  ब्रेक्सिट्टिनं च परितः भ्रमणं कृतवन्तः सन्ति इति डेविड् ब्लीसिना तस्य विप्रतिपत्तिः प्रकाशिता।
पाकिस्थानीयः व्योममार्गः उद्घाटितः। 
भारतविमानानाम् डयनं सुकरं भविष्यति। 
नवदिल्ली >  पूर्वं बालाक्कोट् प्रदेशे भारतेन कृतेन आक्रमणेन पिहितः व्योममार्गः पाकिस्थानेन उद्घाटितः। गतदिने मध्याह्ने स्वकीयव्योममार्गेण डयितुं सर्वासां विमानसंस्थानां कृते डयनानुमति प्रदत्ता। पाकिस्थानस्य अयं निर्णयः भारतेन स्वागतीकृतः।
मुम्बैनारे अट्टः भग्नः,  ७-जनाः मारिताः २० जनानाम् अवस्था गुरुतरा।
    मुम्बै> दक्षिणमुम्बै नगरे अट्टः पतित्वा सप्तजनाः मृताः। अट्टस्य अन्तर्भागे उपचत्वारिंशत् जनाः स्तगिताः। व्रणिताः विंशति जनाः आतुरालयं प्रविष्ठाः। मृतेषु  पञ्चजनाः प्रत्यभिज्ञाताः। डोङ्ग्रिस्थ तण्डल् वीथ्याम् आसीत् अट्टः। शतं संवत्सराणां पुरातनत्वमासीत् अस्य चतुरट्टगृहस्य। मङ्‌गलवासरे प्रभाते ११ वादने आसीत् इयं दुर्घटना। अष्टकुटुम्बाः अत्र निवसन्तः आसन्। राष्ट्रिय दुरन्तनिवारण सेनायाः त्रयः सङ्घाः अत्र रक्षा प्रवर्तनेषु व्यापृताः सन्ति।

Monday, July 15, 2019

चन्द्रयानविक्षेपः व्याक्षिप्तः , साङ्केतिकदोष इति सूचना। 
श्रीहरिक्कोट्टा >  भारतस्य द्वितीयस्य चान्द्रदौत्यस्य प्रारम्भविघ्नः। विक्षेपमुहूर्तात्  एकखण्डायाः पूर्वं विक्षेपः परिवर्तितः। इन्धनकासारे अनुभूतः दोष एव कारणमिति सूच्यते। अद्य उषसि २.५१ वादने आसीत् चन्द्रयानं - २ इत्यस्य विक्षेपः निश्चितः।
सोलनस्थले त्रितलात्मक-अतिथ्यागारः भूमौ पपात, पञ्चविंशतिजनाः त्रापिताः,त्रयो मृताः चतुर्दशजनाश्च भूमौ विलीनाः।
-सन्दीपकोठारिः

   सोलनम् ,जे एन् एन् > हिमाचलप्रान्त-सोलनस्थलस्य कुमारहट्टी इत्यस्मिन् स्थाने गतरविवासरे मध्याह्ने त्रितलात्मकः अतिथ्यागारः भग्नीभूय भूमौ पपात। भवनेऽस्मिन् द्विचत्वारिंशज्जनाः आसन् अथ च भोजनार्थमागताः त्रिंशत्सैन्यजनाः अपि भूमौ आपतितवन्तः। अनुमीयते यत् अस्मिन्नतिथिगारे सैनिकसहिताः पञ्चदश जनाः कालेन कबलीकृताः इति। त्रयः मृताश्च निर्गमिताः। मृतशरीरेषु च एकः राजकिशोरः अपि आसीत्। अवधेयास्पदं यत् सेनायाः त्रिंशज्जनेषु सप्तदशजनाः पुञ्जीभूतात् मृदवशिष्टात् अन्यैरुद्धृताः। येषु द्वौ  च व्याघातेन अतीव ग्रस्तौ।
      भूमौ विलीनाः द्वाद्वशजनाः इदानीमपि अनवगताः। अष्टजनानां च रक्षाकार्यमपि निरवहत्। अतिथ्यागाराधिपतेः साहिलकुमारस्य समग्रपरिवारजनाः अत्रैव निवसन्तः आसन्। दैवानुकूलतया इदमभवत् यत् तदीयात्मजाः तस्मिन्नापत्काले बहिर्गताः परं साहिलस्य धर्मांगिनी अपि भूमिक्षतिग्रस्ते निपतिता सा च अत्यपायस्थितौ प्रत्युद्धृता च। घटनाक्रमेऽस्मिन् पञ्चकूलातः एन् डी आर् एफ् इत्यस्य सुरक्षाकर्तारः समुपस्थिताः  च। दुर्घटनानिवारणप्रयत्नः अचिरात् समारब्धम्।।

Sunday, July 14, 2019

केरलराज्यस्तरीय वनिताशिक्षिकासङ्गगमः सम्पन्नः।
  पालक्काट् > केरल-संस्कृताध्यापक फेडरेषन् संस्थायाः 'मातृकं-2019' इति राज्यस्तरीय 'वनितासङ्गम'-कार्यक्रमः पालक्काट् कर्णकियम्मन् हयर्सैक्कण्डरि  विद्यालये 2019 जूलै 13 दिनाङ्के प्राचलत्। पालक्काट् जिल्लापञ्चायत्त् सदस्या संस्कृतशिक्षिका श्रीमती श्रीजा महाभागा अध्यक्षपदम् अलञ्चकार। पालक्काट् जिल्लापञ्चायत्त् अध्यक्षा  न्यायवदी (Adv) के शान्तकुमारि  उद्घाटनमकरोत्। विद्याभारत्याः भूतपूर्व-राष्ट्रियाद्ध्यक्षः पण्डितरत्नं डो पि के माधवन् महोदयः अनुग्रह-भाषणमकरोत्। 'यूत्ओलिंपिक्स्' प्रतिभां कुमारि जे  विष्णुप्रियां कार्यक्रमे अनुमोदितवन्तः। "स्त्रीशक्तीकरणं संस्कृतं च" इति विषये पालक्काट् भारतीय-विद्यानिकेतन् शिक्षाशास्त्री कलालयस्य  प्राचार्या डो. पि सि वि रेणुका महाभागा प्रबन्धं अवतारितवती। मध्याह्ने सांस्कृतिक-सदसि संस्कृतशिक्षिका श्रीमती नीना वारियर् अष्टपदिं (सोपानसङ्गीतम्) प्रस्तुतीकृता।
    समापनसत्रे सि पि सनल् चन्द्रस्य अध्यक्षतायां  श्री रमेश् नम्पीशन् महोदयः संघटनासन्देशं दत्तवान्। पि. जि अजित् प्रसाद् , डो सिपि षैलजा, यु कैलास् मणि, विके राजेष्, के के राजेष्, सुजाता, राधामणि, प्रसन्ना, प्रभृतयः स्वीयाभिमतान् प्रकटितवन्तः। प्राथमिकस्तरे संस्कृतशिक्षण-कार्यक्षमं कर्तुं , छात्राणां गणनानुसारं शिक्षकनियुक्तिं प्रस्तुतीकृत्य "पठेत् संस्कृतं शिक्षकं दद्यात्" इति मुद्रागीतम् उन्नीय्य प्रवृत्ते मेलने 300  अधिकाः संस्कृत-शिक्षिका-शिक्षकाः  भागभाजः अभवन् ।
क्रिक्कट्क्रीडायाः विश्वकिरीटाय अन्तिमयुद्धः अद्य। 
विश्वचषकेन सह इङ्ग्लण्ट् - न्यूसिलान्टयोः नायकौ।
 न्यूसिलान्ट् - इङ्ग्लण्ट् प्रतियोगिता त्रिवादने।
लण्टन् > क्रिक्कट्क्रीडायाः विश्ववीरः क इति अद्य ज्ञायते। लोर्ड्स् क्रीडाङ्कणे अद्य भारतीयसमये सायं त्रिवादने सम्पद्यमाने प्रतिद्वन्द्वे न्यूसिलान्ट्-इङ्ग्लण्ड् दलौ स्पर्धिष्येते। आतिथेयः इङ्ग्लण्ड्दलः चतुर्थवारमेव अन्तिस्तरं प्रविशति। न्यूसिलान्ट्दलश्च द्वितीयवारम्। किन्तु द्वावपि प्रथमकिरीटाभिलाषिणौ।
   उपान्त्यस्पर्धायां न्यूसिलान्टः भारतं १८ धावनाङ्कैः पराजयत। इङ्ग्लण्डस्तु विद्यमानवीरं आस्ट्रेलियादलं ८ द्वारकैः अभिभूतवान्।

Saturday, July 13, 2019

सैन्यः सर्वसज्जः - अल् ख्वैद अध्यक्षस्य भीषा तृणवत् मन्यते- भारतम्।
     नवदिल्ली- अल् ख्वैद अध्यक्षस्य अय्मन् अल् सवाहिरि इत्यस्य भीषा सन्देशः गौरवेण न वीक्ष्यते  इति भारतम्। राष्ट्रस्य सीमानम् आधिपत्यं च परिपालयितुं मन्त्रालयस्य वक्तापरिपालयितुं भारतसेना  पर्याप्ता इति विदेशकार्य-मन्त्रालय वक्ता रविषकुमारः वार्ताहरान् प्रति अवदत्। ईदृशी भीषा मध्येमध्ये जाते। किन्तु प्रतिरोद्धुं  शैर्यं युद्धोपकरणानि च भारताय सिद्धम्  इत्यनेन तादृशी भीषा तृणवत्गण्यते साधारणतया इत्यपि तेनोक्तम्। ऐक्य राष्ट्रसभया निरोधितम् आतङ्कवादिदलं भवति इदम्। अस्य नेतारः बहुवारं UN प्रक्रमाः स्वीकृताः सन्ति इति वार्तामेलने तेनाेक्तम्। भारतसेनां सर्वकारं च विरुद्ध्य आक्रमणान् कर्तुं सवाहिरि इत्यस्य सन्देशः बहिरागतः आसीत् ।

Wednesday, July 10, 2019

लोकश्रद्धा 'श्रीहरिक्कोट्टां' प्रति।
श्रीहरिक्कोट्टा > चन्द्रस्य दक्षिणध्रुवं प्रति भारतस्य सञ्चाराय सिद्धतामनुवर्तमानं श्रीहरिक्कोट्टाभिधेयं विक्षेपणकेन्द्रं लोकश्रद्धामाकर्षति। 'चन्द्रयानं -२' पेटकस्य विक्षेपाय केवलं पञ्च दिनानि अवशिष्यन्ते। सतीष् धवान् बहिराकाशकेन्द्रे एे एस् आर् ओ शास्त्रज्ञाः साङ्केतिकविदग्धाश्च सिद्धताव्यवस्थायाः अन्तिमसोपाने व्यापरन्ति। 
   जि एस् एल् वि मार्क् ३ इत्यस्मात् शक्तादग्निबाणात् जूलाई १५तमे दिनाङ्के उषसि २.५१ वादने चन्द्रयानस्य अटनमारभते। ५३ दिनानां सञ्चारानन्तरं चान्द्रपथं प्राप्स्यति। ततः १४दिनानां निरीक्षणं परिकल्प्यते।

Monday, July 8, 2019

छात्रैः ३.५० डण् मितानि पलास्टिक मालिन्यानि सञ्चितानि।

छात्राः परिस्थिति-विभाग-निर्देशकः मह्‌दि अल् हाषेमिना सह
 दुबाय् > दुबायस्थ-विद्यालयीय छात्रैः विगते दिने ३.५० डण् (३५२४ किलो) मितानि पलास्टिक मालिन्यानि सम्भृतानिI उपयोगानन्तरं दूरं प्रेषिताः कूप्यः भ्राष्ट्राणि च भवन्ति सम्भृतेषु अधिकतया। विश्वभौमदिनानुबन्धतया दुबाय् नगरपालिकया छात्रेभ्यः स्पर्धा आयोजिता। पलास्तिक मालिन्यानां सञ्चयनमासीत् स्पर्धा। १८६४२ छात्राः स्पर्धायां भागं ग्रहीतवन्तः। ५७५ किलोमितं पलास्तिकमालिन्यानि सञ्चय्य अल् अह्-मदिय आदर्शविद्यालयेन प्रथम स्थानम् प्राप्तम्। ३१३ किलोमितं पलास्तिक मालिन्यानि सञ्चयित्वा जुमैरा विद्यालयः द्वितीय स्थानं २३३ किलो मितानि पलास्तिक मालिन्यानि सञ्चय्य अहम्मद् बिन् सुलीं प्राथमिकविद्यालयस्य तृतीयं स्थानं च प्राप्तम्।
      परिस्थितिप्रतिकूलावस्थां न्यूनीकर्तुं, तथा छात्रेषु  परिस्थिति संरक्षणभावनाम्  उद्पादयितुं च अनेन कार्यक्रमेण उद्दिश्यते इति दुबाय् शैक्षिकमण्डलस्य प्रतिनीधी परिस्थिति-विभाग-निर्देशकः मह्‌दि अल् हाषेमी अब्रवीत्।
[

Sunday, July 7, 2019

भारतस्य उज्वलविजयः ; उपान्त्यचक्रे न्यूसिलान्ट् प्रतियोगी। 
भारतदलम्।
 रोहित् शर्मणः चरित्रशतकम्।
आस्ट्रेलिया दक्षिणाफ्रिक्कया पराजिता।
लीड्स् > एकदिनक्रिक्कट्क्रीडायाः विश्वचषकस्पर्धायां श्रीलङ्कां विरुध्य भारतस्य उज्वलविजयः। प्रवेशकक्रीडकयोः रोहित् शर्मा - लोकेष् राहुलयोः शतकाभ्यां ताडकसप्तकस्य विजयः। प्राप्तधावनाङ्कसंख्या - निश्चिते ५० क्षेपणचक्रे श्रीलङ्का २६४, ७ ताडकैः ; भारतं - ४३.३ क्षेपणचक्रे २६५, ३ ताडकानां विनष्टेन ।
  पञ्चमं शतकं प्राप्य भारतस्य प्रवेशकताडकः रोहित् शर्मा [१०३] नूतनं चरितं व्यरचयत्। एकस्यां विश्वचषकक्रीडापरम्परायां प्रप्रथममेव कश्चन ताडकः पञ्च शतकानि अवाप्नोति। तथा च विश्वचषकचरिते रोहितस्य षष्ठं शतकं भवत्येतत्। अनेन रोहितः विश्वचषके अत्यधिकः शतकवानिति सच्चिन् टेन्टुल्कर् वर्यस्य विशिष्टपदेन सह प्राप्तवान् च। रोहितादृते इतरः प्रवेशताडकः लोकेष् राहुलः अपि शतकं [१११] प्राप्तवान्।
   उपान्त्यचक्रे भारतं न्यूसिलान्टेन सह स्पर्धिष्यते। अन्यस्यां प्रतियोगितायां आस्ट्रेलिया दक्षिणाफ्रिक्कया अभिभूता। अनेन फलेन आस्ट्रेलिया- इङ्गलण्ट् उपान्त्यस्पर्धा सम्पत्स्यते।

Saturday, July 6, 2019

आयव्ययपत्रकं गुणदोषसम्मिश्रम्। 
सामान्यजनानां जीवनव्यवस्थां कठिनायते।  राष्ट्रस्य सम्पद्व्यवस्थाविकासः लक्ष्यीक्रियते। 
नवदिल्ली > राष्ट्रस्य प्रथमवनितावित्तमन्त्रिणा निर्मलासीतारामेण प्रस्तुतम् आयव्ययपत्रकं गुणदोषसम्मिश्रम्। तैलेन्धनादीनां मूल्यं वर्धिष्यते इत्यतः सामान्यजनानां जीवनं कठिनं भवेत्। किन्तु राष्ट्रस्य समग्रं दीर्घकालविकासं लक्ष्यीकृत्य आयोज्यमानाभिः परियोजनाभिः आर्थिकव्यवस्थायाः प्रगतिश्च परिकल्प्यते।
राष्ट्रे   दशसंवत्सराभ्यन्तरे प्रचाल्यमानाः दश परियोजनाः निर्मला सीतारामेण आयव्ययपत्रके प्रख्यापिताः। भौतिकं सामाजिकं च आधारसुविधाः, मालिन्यरहितं सस्यश्यामलकोमलं भारतं, 'मेय्क् इन् इन्डिया' परियोजनया लघूद्योगानां प्रारम्भः, गगनयान - बहिराकाशपरियोजनाः इत्यादयः तासु अन्तर्भवन्ति। 

विश्वस्य बृहत्तमाय प्रतिरोधसन्धये  भारतम् । ११४ युद्धविमानानी क्रेष्यते।
     नवदिल्ली> विश्वस्य बृहत्तमाय प्रतिरोधसन्धये  भारतेन प्रक्रमाः समारब्धाः। ११४ युद्धविमानानि क्रेतुं १५०० कोटि डोलर् धनस्य विनिमयोपाधिः प्रारम्भस्तरे एव। विक्रय-प्रक्रमे भागं कर्तुं प्रतिरोधमण्डलस्य प्रथमस्थानीयाः संस्थाः तेषाम् औत्सुक्यं प्राकाशिताः। बोयिङ्, लोक्हीड्मार्टिन्, साब् ए.बि च भवन्ति एताः। निर्मितेः ८५% भारते भवितव्यम्  इति व्यवस्थाम् अनुसृत्य भवति सन्धिपत्रम् इति एतत्‌ अधिकृत्य संवत्सरात् पूर्वं प्रकाशिते प्रमाणपत्रे वदति। व्योमसेनायाः आवश्यकानि कानि इति इदानीं निर्णयं कुर्वन्ति इति व्योमयान-सहमन्त्रिणा श्रीपद् नायिकेने प्रतिनिधिसभायाम् उक्तम् 

Friday, July 5, 2019

कुलभूषणजादवस्य नीतिव्यवहारे अन्ताराष्ट्र न्यायालयस्य निर्णयः जूलई १७ दिनाङ्के।
 
   नवदिल्ली> भूतपूर्व-नाविकसैनिकस्य कुलभूषणजादवस्य नीतिव्यवहारे अन्ताराष्ट्र न्यायालयस्य निर्णयः जूलई १७ दिनाङ्के भविष्यति। निवृत्तसैनिकः कुलभूषण-जादवः पाकिस्थानस्य सैन्येन गृहीतः आसीत्I चारवृत्तिमारोप्य पाकिस्थानस्य सैनिकन्यायालयेन तस्मै मृत्युदण्डः निर्णीतः। पाकिस्थानस्य अन्यायनिर्णयं विरुद्ध्य भारतसर्वकारेण अन्ताराष्ट्र न्यायालये नीतिव्यवहारः दत्तः। व्यवहारेऽस्मिन् जूलैमासस्य १७ दिनाङ्के अन्ताराष्ट्रन्यायालयेन निर्णयः वक्ष्यति। 
    २०१७ ऐप्रिल् मासे आसीत् पाकिस्थानस्य सैन्येन तस्य ग्रहणम्। किन्तु भारतस्य न्यायव्यवहारे अन्ताराष्ट्र न्यायालयेन मेय् १८ दिनाङ्गे पाकिस्थानस्य सैनिकन्यायालयस्य मृत्युदण्डः रोधितः आसीत्I

Thursday, July 4, 2019

आर्थिकसर्वेक्षणस्य लक्ष्यं पञ्चलक्षं कोटि डोलर् धनस्य साम्पतिक-व्यवस्था-परिपुष्टिः - नरेन्द्रमोदी।

     नवदिल्ली> धनमन्त्रिणी निर्मला सीताराम महाभागया अद्य लोकसभायं प्रकाशितं आर्थिकसर्वेक्षणम् राष्ट्रस्य आर्थिकवर्धनस्य रूपरेखा कथम् इति स्पष्टीक्रियते इति नरेन्द्रमोदिना  उक्तम्। ऊर्ज मण्डलेषु, साङ्केतिक मण्डलेषु तथा सामूहिकमडलेषु च वर्धनं साम्पतिक सर्वेक्षणं  प्रतिपाद्यते इति टिट्वर् माध्यमेन सः उक्तवान् I 
    २०१९ - २०२० संवत्सरे राष्ट्रस्य आर्थिकवर्धने उन्नतिः भविष्यति इति सर्वेक्षणे संसूचितम्। आर्थिकपरिपुष्टिमानः ६.८ तः ७ इति वर्धनं स्यात्। 
भीकराक्रमणं निवारयितुं न शक्यम् - श्रीलङ‌कायाः आरक्षकाध्यक्षः बन्धितः। 
   कोलम्बो> २५८जनानां मृत्योः निदानभूतः ईस्टर् दिनभीकराक्रमणं निवारयितुं न शक्यम् इति कारणेन श्रीलङ‌कायाः आरक्षकाध्यक्षः बन्धितः। आरक्षकाधिकारी 'इन्स्पेक्टर् जनरल् पूजित् जयसुन्दरः भवति एवं बन्धने। तेन सह भूतपूर्व प्रतिरोधसचिवः हेमसिरि फेर्णाण्डो अपि बन्धितः अस्ति। सुरक्षा सूचनायाः अवगमने पराजयम् अभवत् इत्येतत्  उत्तरदायिनां मनुष्याणां अपराधः इति कृत्वा एव दण्डनं दीयते इति  'श्रीलङ्कायाः अट्टोणि जनरल्' इत्यनेन संसूचितम् आसीत्।
राहुलगान्धी कोण्ग्रस्दलाध्यक्षपदम् अत्यजत्। 
नवदिल्ली >  भारते 'इन्डियन् नाषणल् कोण्ग्रस्' नामकराजनैतिकदलस्य देशीयाध्यक्षः राहुल् गान्धी तत्स्थानं त्यक्तवान्। लोकसभा निर्वाचने प्रायशः आराष्ट्रं कोण्ग्रस्दलस्य दयनीयपराजयस्य धार्मिकम् उत्तरदायित्वं स्वीकृत्य एव स्थानत्यागः। ह्यः 'ट्विटर्' द्वारा त्यागप्रख्यापनं कृतवान्। 
  मासैकस्मात् पूर्वमेव राहुलः पदत्यागाय सन्नद्ध आसीत्। किन्तु अधोमण्डलनेतृणाम् अनुयायिनां च विमतेन कालविलम्बः अभवत्। दलस्य शक्तीकरणाय कदाचित् तीक्ष्णः निर्णयः अवश्यं भवेदिति ट्विटर् द्वारा तेनोक्तम्। 
  आगामिनि वारे प्रवर्तकसमितिम् आहूय नूतनाध्यक्षचयनं भविष्यतीति सूच्यते।

Wednesday, July 3, 2019

अतिवृष्टिः, मुम्बै प्रदेशे ३५ जनाः मृताः।
   मुम्बै> पञ्चदिनानि यावत्  अनुवर्तमानः अतिवृष्ट्या ३५ जनाः मृताः। रैल्पथाः जले निमज्जिता:, रैल् गातागतानि स्थगितानि। ११७५ संवत्सरा नन्तरं जाता अतिवृष्टिः भवति एषा। अन्ताराष्ट्र विमाननिलयस्य धवनपन्थाः मध्याह्नपर्यन्तं पिधानं कृतम्। ५२ विमानानां सेवानिवृत्तिः कृता । शैक्षिकसंस्थायै विरामः प्रख्यापितः आसीत्। कुरार् ग्रामे भित्तिः  पतित्वा २० जनाः निहताः। मित्ति नदी कूलम् अतिक्रम्य प्रवहति। ततः सहस्राधिकाः देशान्तरं प्रेषिताः।

Tuesday, July 2, 2019

मुम्बैनगरे अतिवृष्टिः, जनजीवनं स्तब्धम्, सर्वजनिक-विरामः प्रख्यापितः।
      मुम्बै> अतिवृष्टिः अनुवर्तते इति कारणेन मुम्बैप्रदेशे सर्वकारेण सार्वजनिकविरामदिनः घोषितः। अत्यवश्य सेवा एव अद्य लभ्यमाना अस्ति। मुम्बै अतिरिच्य नवि मुम्बै, कोङ्कण्, ताने प्रदेशेषु शैक्षिक-संस्थायै सर्वकारेण विरामः निर्दिष्टः।
     वृष्ट्या रथ्या, रैल् व्योम गतागतानि स्थगितानि। अतिवृष्ट्या भित्तिः पतित्वा मलाट् देशे १३ जनाः, पूणे देशे ६ जनाः च मृताः। मृतानां कुटुम्बेभ्यः ५ लक्षं रूप्यकाणि साहाय्यधनं प्रख्यापितम् अस्ति। विविध भागेषु गतागतं पूर्णतया स्थगितं वर्तते। मुम्बै नगरस्य नीचतल प्रदेशाः जलान्तर्भागे वर्तते। अत्र इदानीमपि वृष्टिः अनुवर्तते इत्यस्ति आवेदनम्।
स्वदेशीय चिन्ता- ३००० वैदेशिककर्मकराः कुवैत् राष्ट्रतः निष्कास्यन्ते।

 कुवैत् सिट्टि> समागते आर्थिकसंवत्सरे ३००० वैदेशिककर्मकरान् निष्कासयितुं कुवैत्त् सर्वकारेण निश्चितम्। आगामि पञ्चवर्षाभ्यन्तरे सार्वजनिक मण्डलेषु १००% स्वदेशीयानां कर्माकराणां नियुक्तिः उद्दिश्यते। वैदेशिकान् प्रशासनीय-कर्मकरान् निष्कासयित्वा स्वदेशीयान् नियोक्तव्यमित्यस्ति आदेशः। मन्त्रिसभायाः अनुज्ञया भवति सार्वजनिकायोगस्य आदेशः। आदेशम् अनुसृत्य शिक्षामन्त्रालयेन निष्कासनाय पट्टिका सज्जीकृता अस्ति। विगतेषु मासेषु शैक्षिक मन्त्रालयेन १७६ वैदेशिकाः, धर्ममन्त्रालयेन २२०, जल-वैद्युतमन्त्रालयेन ३१ वैदेशिककर्मकराः च परित्यक्ताः आसन्।
काबूले कार्-यानेन विस्फोटः- ३४ जनाः निहताः।

  काबूलम्> अफ्गानिस्थानस्थे काबूल देशे यू ए स् दूतावासगृहस्य समीपे जातेन विस्फोटनेन ३४ जनाः निहताः। ६५ जनाः क्षताः इति च आवेद्यते। अतङ्किना एव विस्फोटः कृतः इति अफ्‌गानस्य आभ्यन्तरमन्त्रालयेन कथ्यते।
    रविवासरे उषसि एव विस्फोटः अभवत्। क्रय-विक्रयणय जनाः रथ्यां प्रति समागच्छान्  असीत् तदानीम्। विस्फोटनस्य उत्तरदायित्वं कोऽपि न स्वीकृताः
तालिबान् , इस्लामिक्‌स्टेट्  इत्यादिभिः भीकरदलैः परिवृतोऽयं प्रदेशः। 

Monday, July 1, 2019

भारत-पसफिक् मण्डलेषु नाविकसेनया अतिजाग्रता पालनीया- राजनाथ सिंहः।
 
   नवदिल्ली> चीनस्य हस्तक्षेपः वर्धितः इत्यनेन मण्डलेषु अत्यधिक जाग्रता नाविकसेनया पालनीया इति प्रतिरोधमन्त्रिणा राजनाथसिंहेन आदिष्टा। चीनस्य प्रवर्तनेषु अधिक-निरीक्षणानि आवश्यकानि इति च तेनोक्तम्। विशखपट्टणस्थ नाविककेन्द्रे वरिष्ठोद्योगिनः संबुद्ध्य भाषमाणः आसीत् सः।
    पूर्वस्यां दिशि विद्यमानेन राष्ट्रेण सह नरेन्द्रमोदी सर्वकारस्य नूतन-नयानुसारेण नाविकसेनायै सुप्रधानं दायित्वमस्ति। सेनायाः शक्तिः वर्धापनीया च। समुद्रमार्गेण जायमानां भीषां रोद्धुं राष्ट्रसुरक्षां शक्तं कर्तुं च नितान्तावधानता आवश्यकी इत्यपि तेन उक्तम्। 
केरलपुनर्निर्माणाय जर्मनिराष्ट्रस्य १४०० कोटि रूप्यकाणि। 
प्रलयानन्तरकेरलस्य पुनर्निर्माणाय जर्मनीयसर्वकारस्य 'के एफ् डब्ल्यू' नामिकायाः आर्थिकसंस्थायाः ऋणं स्वीकर्तुं केन्द्रसर्वकारस्य अनुमतिः लब्धा। २०कोटि डोलर् परिमितानि [प्रायः १४०० कोटिरूप्यकाणि] केरलाय लब्धुमर्हन्ति। 
  विश्ववित्तकोशात् १७२५ कोटिरूप्यकाणां साहाय्यमनुगम्य एव जर्मन्याः ऋणसाहाय्यं लभते। एतद्धनं सार्वजनीनवीथीपुनर्निर्माणविकासपरियोजनायै उपयुज्यते।
शक्ता वर्षा- महाराष्ट्रेषु यानानां गमनवेलायां मार्गः जलप्रवाहे भग्नः।
    जल्न (महाराष्ट्रम्)> मरात् वाडस्थ जल्न देशो अतिवृष्ट्‌या जायमानेन जल-प्रवाहेन मार्गः द्विधा भाग्नः। यानानां गमनवेलायामासीत् दुर्घटना। अस्याः चलनदृश्यानि वार्ताहर संस्थया प्रसारिता। एकस्य यानस्य गमनवेलायां पृष्टतः मार्गः भग्नम् अभवत्। भाग्यवशात् यानं रक्षां प्राप्तम्। शुक्रवासरादारभ्यय प्रदेशेषु नितरां वृष्टिः आसीत्। राज्ये सर्वत्र नाशः जायते।
गतदिने वृष्टिवेलायां पूण देशे भित्तिः पतित्वा १५ जनाः मारिताः आसन्। रविवासरे अपि नगरस्य विविधभागाः जलेन आप्लाविताः आसन्। अतः गतागतः क्लेशपूर्णः आसीत्। घाट् कोपर् देशे आलयः वृष्ट्या पतितः अस्ति।