OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 24, 2019

नवदिल्ल्यां राष्ट्रियसंस्कृतसंस्थानम् मानितविश्वविद्यालयस्य षष्ठदीक्षान्तसमारोहः  सम्पन्नः।
१२६१८ छात्रै: उपाधय: प्राप्ताः।

-पुरुषोत्तमशर्मा
   नवदिल्ली> राष्ट्रियसंस्कृतसंस्थानस्य षष्ठदीक्षान्तसमारोह: नवदिल्ल्यां सिर्फोर्ट प्रेक्षागृहे समायोजित:। दीक्षान्तसमारोहस्य अध्यक्षतां संस्थानस्य कुलाधिपति: मानवसंसाधन-विकासमन्त्री च डॉ. रमेशपोखरियालनिशङ्क: निरवहत्। मुख्यातिथित्वेन भारतस्य प्राक्तन मुख्यन्यायाधीश: रमेशचन्द्रलाहोटी उपस्थित: आसीत्।
    दीक्षान्तसमारोहे संस्थानस्य पारेसहस्रं छात्रेभ्यो उपाधयोपायनीकृता:। प्राक्शास्त्री प्रारभ्य विद्यावारिधिं यावत् सार्धद्वादशसहस्राधिकछात्रै: विविधोपाधय: सम्प्राप्ता:। त्रयोत्तरैकशतं स्वर्णपदकानि अपि सर्वोत्कृष्टछात्रेभ्य: प्रदत्तानि। 
    अत्रावसरे मानवसंसाधन-विकासमन्त्री डॉ. निशङ्क: प्रावोचत् यत् संस्कृतं जनेभ्य: साम्प्रतिकेस्मिन् परिवेशे आधुनिकविधायां प्राचीनज्ञानराशिं  साहाय्यरूपेण उपस्थापयति। संस्कृतशास्त्राणि अनादिकालात् जनोपकारकाणि अवर्तन्त।