OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 10, 2019

संस्कृतकवि: युवराजभट्टराईवर्य: साहित्य-अकादेमी युवापुरस्कारेण सभाजित:
    असमः> भारतसर्वकारस्य भाषासंस्कृतिमन्त्रालयस्य अंगभूतसंस्थया साहित्यअकादमीति संस्थया चतुर्विंशती राजमानितभाषाणां कृते ऐषमो वार्षिकयुवापुरस्कार:  वितरित:। सविशेषमिदमस्ति यत् एतेषु पुरस्कारेषु कविताविधाया: प्राबल्यम् अवर्तत. अकादमीद्वारा प्रतिवर्षम् प्रदीयमानेSस्मिन् युवापुरस्कारे ऐषमो वर्षे  युवापुरस्कारार्थं प्रचितासु कृतिषु कविताया: एकादश पुस्तकानि, कथाया: षट पुस्तकानि, पञ्च उपन्यास-ग्रन्था:, एकं  साहित्यिकालोचना-कृति-पुस्तकं समावेशितानि वर्तन्ते।

'साहित्य-अकादमी 2019 तम-वर्षीय-युवा-पुरस्कारार्थं  सर्वासां भाषाणां भाषाकोविदां  प्रतिनिधि-सदस्यानां प्रचयन-समितिद्वारा अनुशंसितेभ्यः युवलेखकेभ्य: विद्वद्भ्यश्च भारतसर्वकारस्य उक्तसंस्थया पुरस्कारा: वितरिता:।

एतदन्तर्गतं  श्रीयुवराजभट्टराईवर्यस्य भक्तिपरं वाग्विलासिनीति काव्यं संस्कृतभाषाया: युवापुरस्कारार्थं साहित्य-अकादम्या प्रचितमासत्। एतादृश-प्रतिष्ठित-पुरस्कार-प्राप्त-कर्ता असौ युवराजभट्टराई संस्कृतस्य  युवलेखक:, कवि:, वार्ताप्रसारक:, सम्पा
दकश्च वर्तते।

श्रीयुवराज-भट्टराई-वर्यस्य प्रारम्भिकम्  अध्ययनं भारतस्य नवदिल्लीस्थिते शारदादेवीसंस्कृत विद्यापीठाख्ये  गुरुकुले  जातमासीत्। विद्यालयीयशिक्षा गुरुकुलीय-पद्धतौ सम्पादनानन्तरम् अमुना स्नातकीयाध्ययनं दिल्लीस्थितात् श्रीलालबहादुर-शास्त्रिराष्ट्रिय- संस्कृत-विद्यापीठत: पाणिनीयव्याकरणमवलम्ब्य सम्पूरितम्। तदनु परास्नातकीयम् अध्ययनमपि अनेन संस्कृत-व्याकरण-विषयमधिकृत्य दिल्लीविश्वविद्यालयस्य अंगभूते हँसराजमहाविद्यालये  सम्पादितम्। ततश्च व्याकरण-विषयमधिकृत्य एव श्रीयुवराज-भट्टराई-वर्येण  एम.फिल. अनुसन्धानमाचरितम्।
सम्प्रति  भट्टराईवर्य: दिल्लीविश्वविद्यालयस्य एव कला संकाये संस्कृतविभागे व्याकरणविषये पी. एच. डी. अनुसन्धानम्  (विद्या वारिधि:) कुर्वन्नस्ति। 

युगपदेव श्रीभट्टराई-महोदय: भारत-सर्वकारस्य सूचना- प्रसारण-मंत्रालयस्य प्रसारभारती संस्थाया: लोकप्रसारण-केन्द्रम् आकाशवाण्याम् (अल इण्डिया रेडियो) इत्यत्र  संस्कृत-भाषा-एकांशे नेपाली एकांशे च वार्ता-सम्पादकत्वेन वाचकत्वेन च अंशकालिकरूपेण कार्यरतो वर्तते, अथ च दूरदर्शनस्य डीडी न्यूज वाहिन्या:  संस्कृत-मञ्चेSपि आंशिकत्वेन वार्तासम्पादक-वार्ताहर-वार्तावाचकत्वेन कार्यपरो वर्तते၊ संस्कृतस्य पारम्परिक्या: आधुनिक्याश्च उभयधारयो: विदुष: युवराजभट्टराई-वर्यस्य वाग्विलासिनी, मनोनुरंजिनी चेति  संस्कृत-काव्य-द्वयं प्रकाशितमस्ति। एतद्काव्य-द्वयमपि कविताया: शाश्वत-विषयौ भक्तिम्, श्रृंगारं च आश्रित्य विरचितमस्ति। भट्टराईवर्य: वर्तमान-युगे नवदिल्लीस्थिते स्वस्तिवाचनमिति  संस्कृतप्रचारकसंस्थाया: उपाध्यक्षत्वेन संस्कृत-संरक्षण-संवर्धन-दृशा सुतरां कार्यव्यापृतोSस्ति। अतः पूर्वं  वाराणसीस्थिताया: अखिल-भारतीय-विद्वत्परिषद: अपि  असौ युवविद्वान् रूपेण सम्मानितोSस्ति। वाराणस्या: एव विश्वप्रसिद्ध-वाग्योग-चेतना-पीठेनापि भट्टराई-वर्यस्य प्रतिभां, संस्कृतसेवां च विलोक्य असौ भूरि सम्मानितोSस्ति। 

ध्यानस्पदमस्ति यत् साहित्याकादमी युवापुरस्कार: तेभ्यः  श्रेष्ठलेखकेभ्य:, प्रदीयते यस्य वय:  पुरस्कार-वितरण-वर्षं यावत्  पञ्चत्रिंशद् वर्षतोSपि अल्पं भवेद्।  समेषाम् लेखकानाम् आमन्त्रित-पुस्तकेषु प्रचित-लेखकस्य प्रकाशित-पुस्तके  पुरस्कारोSयं सम्प्रदीयते। पुरस्कार-विजेत्रे  पुरस्कार-स्वरूपे एकमुत्कीर्ण-ताम्र-फलकं समेत्य 50000/- रूप्यकाणि  प्रदीयन्ते।