OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 1, 2019

 रेवतीभट्टस्थानम् नवंबर मासस्य  दशमाद्दिनाङ्कात्प्रभृति
महितसौम्योदारायाः सनातनमानवसंस्कृतेराधाराशिलेव वर्तते ऋषिसंस्थापिता वैदिकपरम्परा। केरलेष्वनादिकालादेव सम्प्रवृत्य विचरन्त्याः तस्याः परम्परायाः प्रमुखं राजनैतिकविधानमासीद् रेवतीभट्टस्थानम् (रेवति पट्टत्तानमिति भाषायाम्) इत्यादि सुविदितमेव। व्याकरणमीमांसावेदान्तेषु त्रिषु शास्त्रेषु उच्चस्तरीया एव विद्वांसः कार्यक्रमेऽस्मिन् पुरस्कृत्य सम्मानितवन्तः। पूर्वाचारैः तत्पुनरुत्थाप्य समायोजयति कोष़िक्कोटु नगरे अस्मिन् नवम्बर् मासस्य दशमाद्दिनाङ्कात्प्रभृति इति महत्प्रमोदाय सूचना प्राप्यते। डॉ. के एम् जातवेदन् नम्पूतिरि, श्रीमान् कोतमङ्गलं वासुदेवन् नम्पूतिरि इत्येतयोः पद-क्रम-रथा-जडापाठम् ऋग्वेदे, वेदत्रये मुऱजपं च भविष्यतः। वेदान्तमधिकृत्य डॉ. श्रीजित् डी जी, आचार्य आनन्दराज् जी इत्येतयोर्वाक्यार्थश्च विधीयते। डॉ. एम् लक्ष्मीकुमारी महोदयायै मनोरमत्तम्पुराट्टी पुरस्कारं समर्पयिष्यति। रेवतिपट्टत्तानसमित्या सम्पाद्यमानस्यास्य कार्यक्रमस्य रक्षाधिकारित्वं वहति कोष़िक्कोटु सामूतिरिराजा महामहिमश्री के सी उण्णियनुजन् राजा।