Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः

Sunday, December 29, 2019

Bookmark and Share
मनोगतम्’ [०२.०७]   ‘मन की बात’ 
प्रसारण-तिथि : २९-दिसम्बरः,२०१९
- [भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-गवीश-द्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
मम प्रियाः देशवासिनः, नमस्कारः | ऊनविंशोत्तर-द्विसहस्र-तमस्य वर्षस्य प्रस्थान-पलम् अस्माकं समक्षं विराजते | दिन-त्रये एव वर्षमिदं प्रस्थास्यते तथा च वयं, न केवलं विंशोत्तर-द्विसहस्र-तम-वर्षे प्रवेक्ष्यामः, नवीने सम्वत्सरे प्रवेक्ष्यामः, नूतने दशके प्रवेक्ष्यामः, एकविंश-शताब्दस्य तृतीये दशके प्रवेक्ष्यामः | अहं, सर्वेषां देशवासिनां कृते विंशति-विंशतीति विंशोत्तर-द्विसहस्र-तम-वर्ष-हेतोः हार्दिकीः शुभकामनाः व्याहरामि | अस्य दशकस्य विषये वृत्तमिदं सुनिश्चितम्, अस्मिन्, देशस्य विकासं गतिमत्तरं विधातुं ते जनाः सक्रियां भूमिकां निर्वक्ष्यन्ति ये एकविंश-शताब्दे जनिम् अलभन्त – ये नाम अस्य शताब्दस्य महत्वपूर्णान् विषयान् अवगच्छन्तः एधन्ते | एतादृशः युवानः, साम्प्रतम्, बहुभिः
शब्दैः अभिज्ञायन्ते | केचन तान् Millennials-रूपेण अवगच्छन्ति, तथा च केचन, Generation Z-इति आहोस्वित् Gen Z-इति कथयन्ति | एवं हि व्यापक-रूपेण अन्यतमं वृत्तमिदं तु जनानां मनस्सु दृढीभूतं यत् एते Social Media Generation – इति सामाजिक-सञ्चार-माध्यमानां प्रसूतिः अस्ति | वयं सर्वेsपि अनुभवामः यत् अस्मदीया एषा प्रसूतिः अतितरां प्रतिभाशालिनी अस्ति | किञ्चित् नवीनं कर्तुं, किञ्चिच्च पृथक्कर्तुं, ते स्वप्नायन्ते | ते स्वयं नैजानि अभिमतान्यपि सन्धारयन्ति तथा च, हर्ष-प्रकर्षस्य विषयोsयं, विशेषेण च, अहं, भारतविषये कथयितुम् अभिलषामि, यत्, एतान् यूनः साम्प्रतं वयं पश्यामः चेत्, तेभ्यः, व्यवस्था रोचते, system-इति पद्धतिमभिस्वीकुर्वन्ति | एतावद्देव नैव, व्यवस्थामेनाम् अनुकर्तुमपि तेभ्यः रोचते | तथा च, कुत्रचित् व्यवस्था एषा, समुचिततया नैव प्रभवति चेत्ते उद्वेगमपि अनुभवन्ति, तथा च, ससाहसं, व्यवस्था-विषये परिपृच्छन्ति अपि | मह्यमिदं सुतरां रोचते | एकतस्तु  पुष्टतरं वृत्तमिदं यत् अस्मदीय-देशस्य युवानः अराजकतां विद्विषन्ति, इत्यपि वक्तुं शक्नुमः | अव्यवस्थां, अस्थिरतां च प्रति, ते अतितरां जुगुप्सन्ते | परिवारवादः, जातिवादः, नैजपरौ, स्त्री-पुरुषौ, इत्यादयः भेद-भावाः तेभ्यः नैव रोचन्ते | कदाचित्तु वयं पश्यामः यत् विमानपत्तनेषु, आहोस्वित् चलचित्र-प्रेक्षागृहेषु अपि, यदि, कश्चन पङ्क्तिस्थः अस्ति, कतरश्च कतमश्च पङ्क्तिभेदं कृत्वा मध्ये प्रविशति चेत्, तदा सर्वप्रथमं वक्तारः, युवानः एव भवन्ति | तथा च, अस्माभिस्तु दृष्टं यत्, एतादृशं किमपि घटते तदा, अपरे नवयुवकाः सत्वरमेव स्वीय-जङ्गम-दूरभाषं निष्काश्य तस्याः घटनायाः दृश्याङ्कनं कुर्वन्ति, पश्यता एव च तत् दृश्याङ्कन-मुद्रिका, viral- इति व्यापकतया सञ्चरितापि भवति | तथा च, यः दोषभाक् भवति सः अनुभवति यत् किं जातमिति! एवं हि, एकां नूतनप्रकारिकां व्यवस्थाम्, नूतनप्रकारकं युगं, नूतनप्रकारकं च विचारं, अस्मदीया युव-सन्ततिः परिलक्षयति | साम्प्रतं, भारतं अस्याः प्रसूतेः सुबहु अपेक्षते | एतैः युवभिरेव, देशः समुन्नततरः विधेयोsस्ति | स्वामी विवेकानन्दः कथितवान्– “My Faith is in the Younger Generation, the Modern Generation, out of them, will come my workers” | तेन उक्तमासीत् – ‘मम विश्वासः युव-प्रसूतौ अस्ति, अस्यां आधुनिकायां सन्ततौ अस्ति, तथा च, सः विश्वासं प्राकटयत्, एतेषु एव, मम कार्यकर्तारो भवितारः इति | यूनां विषये अभिभाषमाणः सः अब्रवीत् – “युवावस्थायाः मूल्यं नानुमातुं शक्यते, न वा एतत् वर्णयितुं शक्यते” | अयं हि जीवनस्य श्रेष्ठः मूल्यवान् कालखण्डः अस्ति | भवतः भविष्यत् भवतः जीवनञ्च, तस्मिन्नेव निर्भरं भवति यत् भवान् स्वीय-युवावस्थायाः उपयोगं केन प्रकारेण करोति | विवेकानन्द-स्वामिनः अनुसारम्, युवा सोsस्ति, यो हि ऊर्जापूर्णः, गतिशीलः, परिवर्तन-शक्तियुतश्च भवति | दृढं विश्वसिमि यत् भारते, दशाब्दोsयं, न केवलं यूनां विकासस्य भविता, परञ्च, यूनां सामर्थ्येन, देशस्य विकासकः अपि सेत्स्यति, तथा च, भारतम् आधुनिकं कर्तुम् अस्याः प्रसूतेः महत्तमा भूमिका भविता, एतत्तु अहं स्पष्टतरं अनुभवामि | आगम्यमाने जान्युआरि-मासीये द्वादशे दिने विवेकानन्द-जयन्त्यवसरे, यदा देशः, युव-दिवसम् आयोजयन् भविता, तदा प्रत्येकमपि युवा, दशकेsस्मिन्, स्वीयं दायित्वम् अभिलक्ष्य नूनं चिन्तनमपि कुर्यात् एतद्-दशकस्य च कृते अवश्यं कमपि सङ्कल्पमपि कुर्यात् | 
मम प्रियाः देशवासिनः, कन्याकुमारी-स्थले यस्यां शिलायामुपरि स्वामि-विवेकानन्दः अन्तर्ध्यानमकरोत्, तत्र यत् विवेकानन्द-शिला-स्मारकं विनिर्मितम्, तस्य पञ्चाशत् वर्षाणि पूर्णतां यान्ति | विगते दशक-पञ्चके, स्थानमिदं भारतस्य गौरवम् अवर्तत | कन्याकुमारी-स्थलं, देशस्य जगतश्च कृते आकर्षण-केन्द्रीभूतं सत् तिष्ठति | राष्ट्रभक्ति-सम्भरिताम् आध्यात्मिक-चेतनाम् अनुभवितुकामस्य, प्रत्येकमपि जनस्य कृते, स्थानमिदं तीर्थ-क्षेत्रीभूतम्, श्रद्धा-केन्द्रीभूतं च | स्वामि-पादस्य स्मारकमिदं, प्रत्येकमपि पन्थायुः-वर्ग्याणां जनान्, राष्ट्रभक्तिहेतोः सम्प्रैरयत् | एतत् ‘दरिद्र-नारायणस्य सेवा’- इति मन्त्रं जीवितुं मार्गं प्रादर्शयत् | यः कश्चन अपि तत्र अगच्छत्, तस्मिन् शक्ति-सञ्चारः भवेत्, सकरात्मकतायाः भावः जागृयात्, देशस्य कृते किञ्चित् कर्तुं समुत्साह-भावः समुत्पद्येत – एतत् सुतरां स्वाभाविकम् | 
    अस्मदीयः माननीयः राष्ट्रपति-महोदयः अपि विगतेषु दिनेषु अस्य पञ्चाशत्-वर्षात्मकस्य शिला-स्मारकस्य यात्रां कृत्वा प्रत्यागतोsस्ति, तथा चाहं प्रसीदामि यत् अस्माकं उप-राष्ट्रपति-महोदयः गुजराते, कच्छस्य रण-क्षेत्रे, यत्र उत्तमोत्तमः रणोत्सवः भवति, तस्योद्घाटनार्थं गतः आसीत् | यदा अस्माकं राष्ट्रपति-महोदयः, उप-राष्ट्रपति-महोदयः अपि, भारते एव एतादृंशि महत्वपूर्णानि पर्यटन-स्थलानि प्रयाति, देशवासिनः, अनेन नूनं प्रेरिताः भवन्ति – भवन्तोsपि अवश्यं प्रयान्तु |                        
     मम प्रियाः देशवासिनः, वयं भिन्नेषु महाविद्यालयेषु, विश्वविद्यालयेषु, विद्यालयेषु तु पठामः परं शिक्षासमाप्तेरनन्तरं पूर्वच्छात्र-समागमः मनोरमः अवसरः भवति। एतेषु समागमेषु सर्वे विगतासु स्मृतिषु मग्नाः भवन्ति यासां सीमा दश, विंशतिः, पंचविंशतिः वा वर्षपूर्वं अपि गन्तुं पारयति। परं कश्चित् पूर्वच्छात्र-समागमः विशेषाकर्षणविषयः जायते, यस्योपरि सर्वेषां अवधानं भवति। देशवासिनां अवधानमपि तस्योपरि अवश्यमेव आपतति। पूर्वच्छात्र-समागमः वस्तुतः पुरातनमित्रैः साकं सम्मेलनस्य, स्मृतीनां पुनर्जीवनस्य च विशेषः आनन्दावसरः भवति। यदा च एतेन साकं कोऽपि सामूहिकः उद्देश्यः, संकल्पः,  भावात्मकोऽनुबन्धः वा भवति तर्हि एषः अवसरः विविधवर्णकः जायते।  
       भवद्भिः दृष्टं भवेत् यत् पूर्वच्छात्राणां समूहाः यदा-कदा स्वीय-विद्यालयस्य कृते किमपि योगदानं कुर्वन्ति। केचन संगणकीकरणाय व्यवस्थां कुर्वन्ति, केचन च पुस्तकालयस्य कृते व्यवस्थां कुर्वन्ति। एवमेव केचन पेयजल-सौविध्यं विकासयन्ति; केचन च नूतनानां कक्ष्याणां निर्माणाय अथवा क्रीडासंकुलस्य कृते प्रयासं कुर्वन्ति । एवं सर्वे एव किंचित् कर्तुमिच्छन्ति येन ते आनन्दं अनुभवन्ति । यत्र स्वीयं जीवननिर्माणं जातं तस्याः संस्थायाः कृते स्वीय-जीवने किमपि योगदानस्य भावः प्रत्येकं मनसि भवति, भवितव्यश्च। एतस्य कृते जनाः सन्नद्धाः भवन्ति। अहमद्य एकं विशेषावसरं भवतः समक्षं प्रस्तोतुमिच्छामि। विगतेषु दिनेषु यदा संचारमाध्यमेषु बिहारस्य पश्चिम-चम्पारण-जनपदस्य भैरवगंज-स्वास्थ्यकेन्द्रस्य कथा मया श्रुता; तदा अनुभूतम् आनन्दं भवद्भिः साकं सम्भक्तुमिच्छामि। अस्मिन् भैरवगंज-स्वास्थ्यकेन्द्रे निःशुल्कं स्वास्थ्य-परीक्षणाय निकटस्थानां सहस्राधिकानां ग्रामवासिनां समूहः एकत्रीभूतः। भवन्तः अपि एतत्श्रुत्वा आश्चर्यमनुभविष्यन्ति। अथवा भवन्तः चिन्तयिष्यन्ति यदस्मिन् किमपि नावीन्यं नास्ति। जनाः आगताः भवन्तः स्युः । परं वस्तुतः अत्रैकः अभूतपूर्वः प्रसङ्गः उद्भूतः । एषः सर्वकारस्य कार्यक्रमः नासीत्, नैव चैषः सर्वकारस्य उपक्रमः आसीत् । एषः तत्रत्यस्य  के. आर्. उच्चविद्यालयस्य पूर्वच्छात्राणां सम्मेलनपुरस्सरं विहितं कार्यम् आसीत् । अस्याभिधानं ‘संकल्प-नाइंटी-फाइव्’ इति कृतम् आसीत्। एतस्य तात्पर्यमिदं यत्तस्य उच्चविद्यालयस्य पंचनवत्युत्तर-ऊनविंश-शततम-वर्षस्य विद्यार्थि-वर्गस्य संकल्पः । वस्तुतः अस्य वर्गस्य विद्यार्थिभिः पूर्वच्छात्र-सम्मेलनस्य अवसरे कस्यचित् नूतन-पदसंधारणस्य विचारः कृतः। एतैः पूर्वच्छात्रैः समाजस्य कृते योगदानस्य संकल्पमभिलक्ष्य जनस्वास्थ्य-बोधस्य उत्तरदायित्वं स्वीकृतम्। संकल्प-नाइंटी-फाइव्- इत्यस्मिन् अभियाने बेतिया-क्षेत्रस्य शासकीय-चिकित्सा-महाविद्यालयः, अन्ये चिकित्सालयाश्च सम्मिलिताः। एवं तत्र जनस्वास्थ्यम् आलक्ष्य अभियानं संचालितम् । निःशुल्कं स्वास्थ्य-परीक्षणं, औषधिवितरणं, जनजागरणस्य च संकल्पः सर्वेषां कृते प्रेरणास्वरूपाः सन्ति । वयं प्रायः कथयामः यत् यदा देशस्य प्रत्येकं नागरिकः पदं अग्रे नयति तदा देशः त्रिंशदुत्तरैकशतकोटि-सोपानानि प्रचलति। एतादृशाः दृष्टान्ताः यदा प्रत्यक्षीभवन्ति, तदा प्रत्येकं जनः आनन्दं सन्तोषं चानुभवति, समाजस्य कृते कस्यापि योगदानस्य संकल्पं प्रेरणां चावाप्नोति। एकतः यत्र बिहारस्य बेतिया-स्थले पूर्वच्छात्रैः स्वास्थ्यसेवायाः संकल्पः प्रदर्शितः; अपरतः उत्तरप्रदेशस्य फूलपुरे काश्चित् महिलाः स्वीय-प्रयासैः सम्पूर्ण-क्षेत्रं प्रेरितवत्यः । एताभिः महिलाभिः प्रमाणीकृतं यद् ऐक्यभावेन यदि संकल्पः क्रियते तर्हि परिस्थितीनां परिवर्तनं निश्चितं भवति। किंचित्-काल-पूर्वं फूलपुरस्य एताः महिलाः निर्धनतया पीडिताः आसन्। परं तासु स्वीय-परिवारस्य समाजस्य च कृते योगदानस्य भावः आसीत् । ताभिः कादिपुरस्य महिला-स्वयंसाहाय्य-वर्गस्य सहयोगेन पादुकानिर्माणस्य कौशलम् अधिगतम्। एतेन, ताभिः न केवलं स्वीय-दैन्यस्य कंटकः निष्कृतः अपितु आत्मनिर्भराः भूत्वा स्वीय-परिवारस्य कृते सम्बलाः अपि जाताः। ‘ग्रामीणाजीविका-मिशन’ इति कार्यक्रमस्य साहाय्येन साम्प्रतं तत्र पादुका-निर्माण-संयंत्रमपि स्थापितं यस्मिन् आधुनिक-यन्त्रैः पादुकोत्पादनं क्रियते। अहं विशेषतया स्थानिकं आरक्षिबलं तेषां परिवारान् च साधुवादं प्रस्तौमि, यैः स्वीय-परिवार-जनेभ्यश्च एताभिः महिलाभिः निर्मितानां पादुकानां क्रयेण ताभ्यः प्रोत्साहनं कृतम्। अद्य आसां महिलानां संकल्पेन न केवलं तासां परिवाराणां आर्थिकी स्थितिः दृढीभूता अपितु जीवनस्तरोsपि उन्नतः अस्ति। यदा फूलपुरस्य आरक्षिणां अथवा तेषां परिवारजनानां संवादं शृणोमि तदा भवद्भिः स्मारितं स्यात्, मया रक्तदुर्गात् ऑगस्ट-मासस्य पंचदशे दिने आह्वानं कृतमासीत् यद्देशवासिनः स्थानीयोत्पादानां क्रयं कुर्वन्तु । अद्याहं पुनः प्रस्तौमि -  अपि वयं स्थानीयोत्पादानां क्रयस्य आग्रहं धारयामः? अपि वयं स्वीय-क्रयेषु तान् प्राथम्यं प्रदातुं शक्नुमः? अपि वयं एतान् स्थानीयोत्पादान् स्वीय-प्रतिष्ठया संयोजयितुं शक्नुमः? अपि वयं एतया भावनया स्वीय-सहदेशवासिनां कृते समृद्धेः माध्यमाः भवितुं शक्नुमः?                                  
            मित्राणि! महात्मा गांधी स्वदेशी-भावं एतादृक्-दीपमिव अस्थापयत् येन लक्षाधिकानां जीवनानि प्रकाशितानि भवन्ति। निर्धनतोऽतिनिर्धनस्य जीवनेषु समृद्धिः भवति। शतवर्षपूर्वं गान्धिना एकं बृहज्जनान्दोलनं आरब्धम्। तस्य लक्ष्यं भारतीयोत्पादानां प्रोत्साहनमासीत्। आत्मनिर्भरतायाः एषः एव मार्गः गान्धिना प्रदर्शितः आसीत्। द्वाविंशोत्तर-द्विसहस्रतमे वर्षे वयं स्वाधीनतायाः पंचसप्तति-वर्षपूरणं करिष्यामः। यस्मिन् स्वतन्त्र-भारते वयं श्वसामः, तस्य स्वतन्त्रतायै लक्षाधिकाभिः सन्ततिभिः, पुत्री-पुत्रैः च  नैकाः यातनाः सोढाः, बहुभिश्च प्राणाः अर्पिताः। लक्षाधिक-जनानां त्यागेन, तपस्यया, बलिदानेन चैषा स्वतन्त्रता अधिगता, यस्याः आस्वादं वयं कुर्मः। स्वतन्त्रं जीवनं यापयामः। देशस्य कृते जीवनार्पकेषु ज्ञाताज्ञातेषु अगणित-जनेषु कतिपयानां एव नामानि वयं जानीमः। परं तैः स्वतन्त्र-भारतस्य स्वप्नं साकारीकर्तुं, सुखि-समृद्ध-सम्पन्न-स्वतन्त्रस्य च भारतस्य कृते बलिदानानि विहितानि ।
            मम प्रियाः देशवासिनः, अपि वयं संकल्पं करिष्यामः यत् द्वाविंशोत्तर-द्विसहस्रतमे वर्षे यदा स्वातन्त्र्यस्य  पंचसप्तति-वर्षपूरणं भवति, न्यूनान्यूनं द्वे अथवा त्रीणि वर्षाणि यावत्, वयं स्थानीयोत्पादानां क्रयाग्रहं धारयामः। अपि भारते निर्मितानां, देशवासिनां हस्तैः प्रकल्पितानां, येषु देशवासिनां स्वेदजल-गन्धः वसति;  तादृशानां वस्तूनां क्रयस्य आग्रहं वयं धारयितुं शक्नुमः? अहं सुदीर्घावधिं यावत् न; अपितु केवलं द्वाविंशोत्तर-द्विसहस्रतम-वर्षं यावत्, यदा स्वातन्त्र्यस्य पंचसप्तति-वर्षपूरणं भवति, तावदेव संकल्पधारणाय कथयामि। एतत् कार्यं शासकीयं न भवेत्, स्थान-स्थानेषु युवजनाः अग्रेसरन्तु, लघूनां सङ्घटनानां माध्यमेन जनप्रेरणं कुर्वन्तु, निश्चितं च कुर्वन्तु यत् वयं स्थानीयोत्पादानां क्रयेण तेषां प्रोत्साहनं करवाम। एषः एव स्वतन्त्र-भारतस्य प्रफुल्लितः समयः भवतु; एतावत्-स्वप्नं धारयित्वा वयं अग्रेसरेम ।
           मम प्रियाः देशवासिनः, अस्मभ्यं कृते एषः अतीव महत्त्वपूर्णः संकल्पः यद्देश-जनाः आत्मनिर्भराः भवन्तु, सम्मानेन च जीवनं यापयन्तु । अहं एकस्य उपक्रमस्य चर्चां कर्तुंमिच्छामि येन मम ध्यानमाकृष्टम् । एषः उपक्रमः जम्मू-कश्मीर-लद्दाखस्य च ‘हिमायत-कार्यक्रमः’ अस्ति। ‘हिमायतः’ वस्तुतः कौशल-विकासेन आजीविकया च सम्बद्धः कार्यक्रमः । अस्मिन् पंचदशतः पंचत्रिंशत्-वर्षायुःवर्गीयाः युवजनाः सम्मिलिताः भवन्ति। एते जम्मू-कश्मीरस्य युवजनाः सन्ति येषां शिक्षा केनचित् कारणेन पूर्णा न जाता, यैश्च स्वीय-विद्यालयः महाविद्यालयः वा अकाले एव उत्सृष्टः ।
            मम प्रियाः देशवासिनः, एतत् ज्ञात्वा भवन्तः आनन्दिताः भविष्यन्ति यत् अनेन कार्यक्रमेण विगतवर्षद्वये अष्टादशसहस्रं यूनां सप्तसप्तति-प्रकल्पेषु प्रशिक्षणं कृतम् । एतेषु प्रायशः पञ्चसहस्रं  जनाः उद्योगेषु निरताः सन्ति अन्ये बहवः च स्व-वृत्तये अग्रेसराः सन्ति। हिमायत-प्रकल्पेन ये स्वजीवनं परिवर्तितवन्तः तेषां कथाः श्रोतुम् अवसरः लब्धः, सत्यमेव ताः हृदयस्पर्शिन्यः वर्तन्ते। 
       परवीन फ़ातिमा, तमिलनाडोः तिरुपुरस्य एकस्मिन् गारमेण्ट-यूनिट इति परिधान+एकांशे पदोन्न्तिं प्राप्य supervisor-cum-coordinator- इति पदं प्राप्तवती। वर्षपूर्वं यावत् सा कर्गिलस्य एकस्मिन् लघुग्रामे न्यवसत्। अद्य तस्याः जीवने महत्परिवर्तनम् आगतम् ,आत्मविश्वासः आगतः। सा आत्मनिर्भरा अभवत् समग्रपरिवाराय आर्थिकोन्नतेः अवसरम् आनीतवती। परवीन-फ़ातिमा- सदृशं हिमायत-प्रकल्पेन लेह-लद्दाख-क्षेत्रवासिनां, अन्य-कन्यानाम् अपि भाग्यं परिवर्तितम् | अथ एताः सर्वाः अद्यत्वे तमिलनाडोः तस्मिन् एव समवाये कार्यरताः सन्ति। एतादृशम् एव हिमायतप्रकल्पः डोडायाः फ़ियाज-अहमद-स्य कृते वरमिव अजायत। फ़ियाज़ेन द्वादशाधिक-द्विसहस्रतमे ईशवीये वर्षे द्वादशी कक्षा उत्तीर्णा परं रोगकारणेन अग्रे पठितुं न शक्तवान्। फ़ियाज़ः वर्षद्वयं यावत् हृदयरोगग्रस्तः आसीत्। अस्मिन् एव समये तस्य भ्रातृभगिन्योः मृत्युः अभवत्। एकप्रकारेण तस्य परिवारे समस्यानां वृष्टिः अभवत्। अन्ततः हिमायतप्रकल्पेन असौ लाभं प्राप्तवान्। हिमायत-प्रकल्पेन ITES इत्युक्ते information technology enabled servicesविषये प्रशिक्षणं प्राप्तवान्, अद्य च पञ्जाबे उद्योगं कुर्वन् अस्ति। फ़ियाज़ अहमदस्य स्नातकाध्ययनम्, यद्धि तेन सहैव कृतम् अधुना पूर्तिं गच्छति। अचिरमेव हिमायत-कार्यक्रमे अनुभवकथनार्थं सः ऩिमन्त्रितः आसीत्। स्वानुभव-कथनसमये तस्य नेत्रयोः अश्रूणि आसन् |  एवमेव अनन्तनागस्य रकीब-उल-रहमानः | अर्थाभावे स्वकीयम् अध्ययनं पूर्णं कर्तुं न शक्तवान्। एकस्मिन् दिवसे स्वीयस्थानस्य पार्श्वे आयोजितेन mobilisation camp इत्यनेन रकीबः हिमायतप्रकल्पं ज्ञातवान्। झटिति च retail team leader इति-पाठ्यक्रमे प्रवेशं स्वीकृतवान्। अत्र प्रशिक्षणं प्राप्य सः एकस्मिन् कॉर्पोरेट-समवाये कार्यरतः अस्ति। हिमायत-प्रकल्पेन लाभान्वितानां प्रतिभाशालिनां यूनां एतादृशानि बहूनि उदाहरणानि सन्ति , यानि जम्मू-काश्मीरे परिवर्तनस्य प्रतीकभूतानि सन्ति। हिमायत-कार्यक्रमः प्रशासन-ट्रेनिंगपार्टनर-उद्योगदातृसमवायानां जम्मू-काश्मीरजनानां मध्ये संयोगस्य आदर्शोदाहरणम् अस्ति।   
      अनेन कार्यक्रमेण जम्मू-काश्मीरस्य युवजनेषु नूतनः आत्मविश्वासः जागरितः अस्ति अग्रेसर्तुं च मार्गः प्रशस्तीकृतः अस्ति। 
           मम प्रियाः देशावासिनः, षड्विंशतिदिनांके अस्य दशकस्य अन्तिमं सूर्यग्रहणं दृष्टवन्तः। प्रायः सूर्यग्रहणस्य अस्याः घटनायाः कारणेन एव माई गोव् इत्यत्र रिपुनः रूचिकरीं टिप्पणीम् अलिखत्। सः लिखति ... नमो नमः श्रीमन्, मम नाम रिपुनः, अहं पूर्वोत्तरनिवासी अधुना दक्षिणे कार्यं करोमि। एकं विचारं भवन्तं कथयितुम् इच्छामि। स्मरामि अहम्, अस्माकं क्षेत्रे स्वच्छाकाश-कारणेन दीर्घकालं यावत् आकाशे तारकान् पश्यामः स्मः। स्टार गेज़िग् इति  तारकावलोकनं मह्यम् अरोचत। इदानीम् अहं एकः व्यवसायी अस्मि, दिनचर्यायाः कारणेन एतत् सर्वं कर्तुं समयाभावः भवति। किम् अस्मिन् विषये भवान् किञ्चित् वक्तुं शक्नोति?  विशेषरूपेण खगोलविद्या कथं युवजनेषु लोकप्रिया भवेदिति। 
       मम प्रियाः देशवासिनः , मम कृते बहवः परामर्शाः आयान्ति परम् अहम् एतत् कथयितुं शक्नोमि यत् एतादृशः परामर्शः प्रथमवारम् आगतः। यद्यपि विज्ञानविषये विभिन्न-पक्षेषु चर्चावसरः लब्धः। विशेषरूपेण यूनां आग्रहे चर्चावसरः लब्धः। परम् एषः विषयः अस्पृष्टः एव आसीत्, अथ इदानीं षड्विंशति-दिनांके सूर्यग्रहणम् अभवत् अतः कदाचित् अस्मिन् विषये भवतां रुचिः स्यात्। अयि देशवासिनः विशेषरूपेण युवानः! सूर्यग्रहणं षड्विंशति-दिनांके आसीत्। समग्रदेशवासिनां यूनां मनस्सु यथा उत्साहः आसीत् तथा ममापि आसीत्। अहम् अपि सूर्यग्रहणं द्रष्टुम् इच्छामि स्म, परन्तु दुःखम्, दिल्ल्यां तस्मिन् दिने आकाशः मेघैः आच्छादितः आसीत् अतः अहम् अपि तम् आनन्दं न प्राप्तवान् यद्यपि दूरदर्शन-यन्त्रे कोझीकोडतः भारते अन्यत्र च सूर्यग्रहणस्य सुन्दरचित्राणि दृष्टानि। सूर्यः प्रकाशयुतायाः मुद्रिकायाः इव दृश्यते स्म। तस्मिन् दिने च अस्य विषयस्य विशेषज्ञैः सह वार्तावसरः लब्धः | तैः अहं संसूचितः यत् एतादृशं यत् भवति तस्य कारणम् इदम्, यतोहि चन्द्रमाः पृथिवीतः अतिदूरमस्ति अतः अस्याकारः समग्ररूपेण सूर्याकारम् आवृतं न करोति। एवं प्रकारेण मुद्रिकाकारः निर्मितः भवति। एतत् सूर्यग्रहणम्, एकं annular solar eclipse , वलयग्रहणं कुण्डलग्रहणं वा कथ्यते। ग्रहणम् अस्मभ्यं स्मारयति यत् पृथिव्यां निवसन्तः वयं अन्तरिक्षे भ्रमन्तः स्मः। अन्तरिक्षे सूर्य-चन्द्रमसादयः अन्यग्रहाः खगोलपिण्डाः च भ्रमन्ति। चन्द्रमसः छाययेव ग्रहणस्य भिन्न-भिन्न-रूपाणि पश्यामः। मित्राणि,  भारते astronomy अर्थात् खगोलविद्यायाः अतिप्राचीनं गौरवशालि च इतिहासः अस्ति। आकाशे प्रदीप्त-तारकैः सह अस्माकं सम्बन्धः तावदेव प्राचीनः यावती प्राचीना अस्माकीना सभ्यता अस्ति। भवत्सु बहवः जानन्ति यत् भारतस्य विभिन्न-स्थानेषु अति-भव्यानि जन्तर-मन्तर-स्थलानि सन्ति दर्शनीयीनि च सन्ति। अस्य च जन्तरमन्तर-स्थलस्य खगोलविद्यया सह घनिष्ठः सम्बन्धः अस्ति। श्रीमतः आर्यभट्टस्य विलक्षणप्रतिभां को न जानाति? कालक्रिया-प्रसङ्गे तेन सूर्यग्रहणेन सह चन्द्रग्रहणस्य अपि विस्तरेण व्याख्या कृतास्ति। तदपि दार्शनिक-गणित-दृशा। तेन गणितदृशा उक्तम् यत् कथं पृथ्वीच्छायायाः आकारः गणनीयः। ग्रहणस्य कालपरिक्षेपयोः गणनामपि सटीकं संसूचितवान्। भास्करसदृशैः शिष्यैः, एषः ज्ञानोत्साहः सर्वत्र भवतु, एतदर्थं प्रयासाः कृताः। अनन्तरं चतुर्दश-पञ्चदश-शताब्द्यां केरलस्य सङ्गम-ग्रामस्य माधवेन ब्रह्माण्डे उपस्थितग्रहाणां स्थितिगणनायै कैलकुलस् इति कलनप्रयोगः कृतः। रात्रौ दृश्यमानाकाशः केवलं जिज्ञासायाः एव न अपितु गणितज्ञानां वैज्ञानिकानां च महत्त्वपूर्णं स्रोतः आसीत्। कतिपयवर्षपूर्वम् अहम्  Pre-modern Kutchi(कच्छी) navigation Techniques and Voyages इत्यस्य पुस्तकस्य अनावरणं कृतवान्। एकप्रकारेण एतत् पुस्तकं तु मालमस्य दैनन्दिनी अस्ति। मालमः नाविकरूपेण यद् अनुभवति स्म तत् स्वशैल्या दैनन्दिन्यां अलिखत्। आधुनिकयुगे सैव मालमस्य दैनन्दिनी,  तदपि गुजराती-पाण्डुलिपीनां संग्रहः, यस्मिन् प्राचीन-नौसञ्चालन-पद्धतिः वर्णितास्ति। अथ च तस्यां दैनन्दिन्यां वारं वारं ‘मालम नी पोथी’ इत्यस्मिन् आकाशस्य, तारकाणाम्, तारकगतिविषये, वर्णनं कृतम् । स्पष्टं च कृतम् यत् सागरस्य यात्रासमये तारकाणां साहाय्येन दिग्निर्धारणं भवति स्म। गन्तव्यप्राप्तये मार्गदर्शकाः भवन्ति तारकाः इति। 
            मम प्रियाः देशवासिनः, खगोलशास्त्रविषये भारतम् बहु अग्रे अस्ति अस्माकम् उपक्रमाः अद्भुताः। अस्माकं पार्श्वे पुणेः निकषा विशालकायं Meter Wave Telescope इति यन्त्रम् अस्ति। न एतावत् कोडाइकनाल, उदगमण्डलम्, गुरुशिखर, हान्ले, लद्दाख इत्येतेषु स्थानेषु powerful telescope इति शक्तिशालि दूरदर्शियन्त्रम् अस्ति। षोडशाधिकद्वसहस्रतमे वर्षे बेल्ज़ियम-देशस्य तत्कालीनेन प्रधानमन्त्रिणा मया च नैनीताल-स्थले त्रीणि दशमलव-षड्- मीटरमितस्य देवस्थल ऑप्टिकल् टेलीस्कोप् इत्यस्य उद्घाटनं कृतमासीत् , एतत् हि एशियायाः वृहत्तमं टेलीस्कोप् यन्त्रम् इति कथ्यते। भारतीयान्तरिक्षानुसंधानसङ्घटनस्य पार्श्वे ASTROSATनामधेयमेकं खगोलीयोपग्रहः अस्ति। सूर्यविषये अनुसन्धातुं भारतीयान्तरिक्षानुसंधानसङ्घटनं आदित्य इति नाम्ना एकस्य इतोपि उपग्रहस्य प्रक्षेपणं करिष्यति। खगोलविज्ञानविषये अस्माकं प्राचीनं ज्ञानं भवतु अर्वाचीनोपलब्धयः वा अस्माभिः अवगन्तव्यम् अथ च एतेषु गर्वानुभवः करणीयः। अद्य अस्माकं युववैज्ञानिकेषु न केवलं स्वकीय-वैज्ञानिकेतिहासं ज्ञातुम् उत्साहः अपितु खगोलशास्त्रस्य भविष्याय अपि दृढेच्छाशक्तिः दृश्यते।
           अस्माकं देशे तारागणमण्डलं, रात्र्याकाशस्य अवगमनेन सह स्टार गेज़िग् इति प्रकाश्यमान-तारकावलोकनं प्रति रूचिविकसनाय प्रेरयति। बहवः जनाः अव्यवसायि-दूरदर्शि-यन्त्रं छदिषु अट्टालिकासु वा स्थापयन्ति। स्टार- गेज़िग् इति प्रकाश्यमान-तारकावलोकन-माध्यमेन ग्रामीणशिविरेषु ग्रामीणवनविहारेषु च वृद्धिः भवितुमर्हति।  एतादृशाः बहवः विद्यालयाः महाविद्यालायाः सन्ति ये खगोलशास्त्र-सम्बद्धानि सङ्घटनानि रचयन्ति  एतादृशाः च प्रयोगाः वर्धापनीयाः।
         मम प्रियाः देशवासिनः, अस्माकं संसद् वयं लोकतन्त्रस्य मन्दिररूपेण जानीमः। एकस्य विषयस्य सगर्वम् उल्लेखं कर्तुम् इच्छामि यति ये प्रतिनिधयः भवद्भिः चित्वा संसदि प्रेषिताः तैः विगत-षष्टि-वर्षाणां सर्वविक्रमाः त्रोटिताः। विगतेषु षड्-मासेषु सप्तदश्यां लोकसभायाः उभौ सदने अत्यन्तम् उत्पादके आस्ताम्। लोकसभया तु चतुर्दशाधिकैकशत-प्रतिशतं कार्यं कृतम् | अपरतः राज्यसभया चतुर्नवतिप्रतिशतं कार्यम् आचरितम्। एतस्य च पूर्वं आयव्यय-पत्रकसत्रे प्रायशः पञ्चत्रिंशदधिकैकशत-प्रतिशतं कार्यं विहितमासीत्। रात्रौ दीर्घकालं यावत् संसद् प्राचलत्। एतदर्थम् एतत् वदामि यतोsपि सर्वेपि सांसदाः एतदर्थं शुभकामनार्हाः। भवद्भिः ये जनप्रतिनिधयः प्रेषिताः तैः षष्टि-वर्षाणां सर्वकीर्तिमानानि त्रोटितानि। एतावत् कार्याचरणं स्वयमेव भारतस्य लोकतन्त्रशक्तेः, लोकतन्त्रे आस्थायाः अपि परिचायकमस्ति। उभयोः सदनयोः पीठासीनाधिकारिभ्यः, सर्वराजनीतिकदलेभ्यः, सर्वेभ्यः सांसदेभ्यः, तेषां सक्रियभूमिकायैः भूरिशः धन्यवादान् प्रदातुमिच्छामि।
               मम प्रियाः देशवासिनः, सूर्यस्य, पृथिव्याः, चन्द्रमसः च गतिः केवलं ग्रहणेन एव नैव निश्चीयते, परञ्च, बहूनि अन्यानि अपि वस्तूनि एभिः संयुक्तानि सन्ति | वयं सर्वे जानीमः यत् सूर्यस्य गत्याधारेण, मध्ये-जान्युआरि-मासं, सम्पूर्णेsपि भारते विभिन्न-प्रकारकाः उत्सवाः आयोजयिष्यन्ते | पंजाबतः तमिलनाडु-पर्यन्तं तथा च, गुजरात-तः असम-पर्यन्तं, जनाः, अनेकेषां पर्वणाम् आयोजनानि विधास्यन्ति | जान्युआरि-मासे जनाः सहर्षं सोत्साहञ्च मकर-संक्रान्तिम् उत्तरायणञ्च आमनन्ति | उत्सवोsयम् ऊर्जायाः प्रतीकत्वेन अपि आमान्यते | अस्मिन्नवधौ पंजाबे लोहड़ी, तमिलनाडौ पोंगलम्, असमे माघ-बिहुः अपि आयोजयिष्यन्ते |  एते समुत्सवाः, कृषकाणां समृद्ध्या पाकैश्च साकम् अतिनिकटतया संयुताः सन्ति | एते समुत्सवाः, अस्मान्, भारतस्य एकतायाः विविधतायाः च विषयेsपि स्मारयन्ति | पोंगलस्य अन्तिमे दिने, महतः तिरुवल्लुवरस्य जयन्त्याः आयोजनस्य सौभाग्यम्, वयं देशवासिनः प्राप्नुमः | दिवसोsयं, महतः लेखकस्य विचारकस्य च महात्मनः तिरुवल्लुवरस्य, तस्य च जीवनस्य कृते समर्प्यते | 
         मम प्रियाः देशवासिनः, ऊनविंशोत्तर-द्विसहस्र-तमस्य वर्षस्य इदम् अन्तिमं मनोगतम् | विंशति-विंशतीति विंशोत्तर-द्विसहस्र-तमे वर्षे वयं पुनः मेलिष्यामः | नूतनं वर्षम्, नवीनः दशाब्दः, अभिनवः सङ्कल्पः, नवोर्जा, नूतनः उल्लासः, नवोत्साहः– आगच्छन्तु, चलेम | सङ्कल्पस्य पूर्त्यर्थं सामर्थ्यम् संगृह्णीयाम | सुदूरं चलनीयमस्ति, सुबहु कर्तव्यम् अवशिष्यते, देशः समुन्नेयः | त्रिंशदुत्तरैक-शत-कोटि-देशवासिनां पुरुषार्थोपरि, तेषां सामर्थ्योपरि, तेषां सङ्कल्पोपरि, अपार-श्रद्धाम् आधृत्य, आगच्छन्तु, वयं प्रचलेम | भूरिशः धन्यवादाः, भूयो भूयः शुभकामनाः |  
 [भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-गवीश-द्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]   
दूरभाषः -   ९८१० ५६२२ ७७  
अणुप्रैषः  - baldevanand.sagar@gmail.com