OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 31, 2020

 एदन् विमाननिलये भीकाराक्रामणं १३ जनाः निहताः। घटना प्रधानमन्त्रिणः विमानावतरण सन्दर्भे।

 सन> येमन् राष्ट्रस्य एदन् विमाननिलये उग्रवादिनः आक्रमणम्  अकरोत्। स्फोटने गोलिका प्रहरणे च १३ जनाः निहताः २४ जनाः क्षताः च। घटना तत्रत्यानां मध्याह्न समये एव। प्रधानमन्त्रिणः मयीन् अब्दुल् मालिकस्य  विमानावतरण सन्दर्भे आसीत् इयं घटना। मन्त्रिणा साकम् अन्ये प्रमुखाः सहचारिणः च आसन्। एते सर्वे सुरक्षितस्थानं नीतवन्तः। इतःपर्यन्तम् आक्रमणस्य उत्तरदायित्वं केनाऽपि न स्वीकृतम्। घटना संबन्धीनि अन्वेषणानि अनुवर्तन्ते।

Wednesday, December 30, 2020

 कोविड्मरणानि युगलत्रितयमभ्युपगम्य रूस् राष्ट्रम्। 

   मोस्को> रूस् राष्ट्रे कोविड्मरणानि पूर्नप्रख्यापितात् त्रिगुणितमधिकं जातानीति दृढीकरणम्।   रूस् राष्ट्रस्य उपप्रधानमन्त्री तत्यान गोलिकोवा इत्येष एव ईदृशमभ्युपगमं कृतवान्। ५५,००० जनाः कोविड्बाधया मृताः इत्यासीत् राष्ट्रस्याधिकारिकप्रस्तावः। 

   किन्तु १.८९ लक्षं जनाः मृताः इति नूतनः वृत्तान्तः। अनेन यू एस्  ब्रसीलराज्ययोरनन्तरं कोविड्मृत्युसंख्यायां रूस् तृतीयं स्थानं वहति। रूस्राष्ट्रेण स्वकीयविकसितस्य प्रत्यौषधस्य 'स्फुट्निक्-५' नामकस्य सूचीप्रयोगः तत्र आरब्धः अस्ति।

 

नूतनः कोविड्रोगः अधिकराष्ट्रेषु व्याप्यते।

      वंशविपरिणामभूतः कोविड्रोगः अधिकेषु राष्ट्रेषु व्याप्यते। ब्रिट्टने प्रत्यभिज्ञातः अयं विषाणुः इदानीं दक्षिणाफ्रिक्का , अयर्लान्ट्, नेतर्लान्ट्, होङ्कोङ्, जापानं, इस्रयेल् , लबनन्, सिङ्गप्पूर्, आस्ट्रेलिया, दक्षिणकोरिया, पाकिस्तानं, भारतं, कनाडा, यूरोपियन् देशेषु च व्याप्तः अस्ति।
  समीपकाले ब्रिट्टनात् प्रत्यागतेभ्यः चतुर्भ्यः पाक्किस्थानीयेभ्यः कराच्यां रोगः दृढीकृतः। अतिशीघ्रं व्याप्यमानस्य वैराणोः व्यापनं निरोद्धुं ५० अधिकैः राष्ट्रैः ब्रिट्टनात् यात्रानिरोधः  विधत्तः। ब्रिट्टने तु प्रतिदिनं उपपञ्चलक्षं जनेषु कोविड्परिशोधना क्रियते

 क्रोयेष्यदेशे भूचलनम्। बहवः जनाः क्षताः। स्लोवेनिय आणवनिलयः पिधानं कृतम्। 

   पेट्रिन्जा> मध्यक्रोयेष्यस्थ पेट्रिन्ज प्रदेशे ६.४ तीव्रतायां भूकम्पः अनुभूतः। भूकम्पे गृहाणि भग्नानि। बहवः जनाः क्षताः। १२ वयस्कः मृतः इत्यपि आवेदनम्  अस्ति। वार्ताविनिमयबन्धः  गतागतम् च स्थगितम्। समीपराष्ट्रस्य  स्लोवेनिया आणवनिलयस्य पिधानं कृतम्। समीपस्थ सेर्बिया बोस्निया राष्टयोः अपि भूचलनम् अनुभूतम् इति आवेद्यते।

Tuesday, December 29, 2020

 यूरोप् राष्ट्रेषु कोविड् प्रतिरोधौषधस्य वितरणं समारब्धम्।

चित्रम् AP- इट्टलिदेशे कोविड्वाक्सिन् प्रयोगसन्दर्भः॥

   ब्रसल्स्> कोविड्१९ प्रतिरोधौषधस्य प्रयोगस्य समारम्भः यूरोप् राष्ट्रस्य विविध भागेषु समारब्धः। फैसर् बयोण् टेक् संस्थायाः औषधमेव वितरति। महारोगात् रक्षां प्राप्तुं प्रतिरोधौषध-प्रयोगः अनिवार्य: इति युरोप् ऐक्य-सङ्घटनायोगेन ट्विट्टर् द्वारा प्रकाशितम्। इतः पर्यन्तं यूरोप् राष्ट्रेषु सार्ध द्विकोटि-जनाः रोगबाधिताः सन्ति।

Monday, December 28, 2020

 गूगिलस्य प्रतियोगी रूपेण नीति आयोगस्य 'डिजिबोक्स्'। 

 अपरिमित-चीत्रसमारोहणं २०२१जूण् मासस्य २१ दिनाङ्कतः न लप्स्यते इति गूगिलस्य ख्यापनं समागतम्। तदनन्तरं झटिति एव अवतरिता सुविधा भवति नीति आयोगस्य 'डिजिबोक्स्'। २० जि बि निक्षेपस्थानं (Storage) शुल्कं विना लभते इत्यस्ति विशेषता। प्रतिमासं ३० रूप्यकाणि दीयते चेत् १०० जि बि पर्यन्तं लप्स्यते। गूगिलस्य १०० जि बि निक्षेपस्थानाय  १३० रूप्यकाणि दातव्यानि। शुल्कं विना १५ जि बि एव लभते। भारते एव टंकिततांशः संरक्षणीयः राष्ट्र-सुरक्षा स्थापनीया इत्यादि लक्ष्याः सन्ति इति डिजिबोक्सस्य सि इ ओ अर्णब् मित्रेण उक्तम्।

 भारतराष्ट्रेषु चतुर्षु राज्येषु कोविड् प्रतिरोधौषधस्य 'ड्रै रण्' 

    नवदिल्ली> आराष्ट्रं कोविड् रोगस्य प्रत्यौषधवितरणस्य भागतया चतुर्षु राज्येषु 'ड्रै रण्' करिष्यते। अध्रा, असं, गुजरात्, पञ्चाब् राज्येषु भवति 'ड्रै रण्'। प्रत्येकं राज्ये द्वयोः जनपदयोः जनपदस्तरीय आतुरालयः सामूहिक-स्वास्थ्यकेन्द्रः प्राथमिक-स्वास्थ्यकेन्द्रः नगर ग्राम निजीय स्वास्थ्यमण्डलाः इति पञ्चधा विभज्य सज्जीकृता आसन्। अद्य श्वः च 'ड्रै रण्' भविष्यति। औषधवितरण-वेलासु काः अपि समस्याः भविष्यन्ति वा इति ज्ञातुमेव भवति 'ड्रै रण्' प्रक्रिया।

Sunday, December 27, 2020

 अष्टवर्षाभ्यन्तरे चीनः यु एस् राष्ट्रात् पुरोगमिष्यति।  

    लण्टन्> २०२८ संवत्सराभ्यन्तरे चीनः यू एस् राष्ट्रात् उपरि शक्तं आर्थिकसम्पन्नं राष्ट्रं भविष्यति इति आवेदनम्। कोविड् महारोगेण अमेरिक्कः परिक्षीणितः भवति। चीनः तु कोविडम् अतिजीव्य तिष्ठति। कञ्चित् कालं यावत् आगोल साम्पतिकशास्त्रस्य प्रधानविषयः भवति चीन अमेरिकयोः मध्ये जायमाना आर्थिकस्पर्धा इति 'सेन्टर् फोर् इक्कणोमिक्स् आन्ट् बिसिनस् रिसर्च् संस्थया शनिवासरे प्रकाशिते वार्षिकावेदने उच्यते॥

 विपरिणमितकोविड् विषाणुः यूरोप् राष्ट्रेषु व्याप्यते।

   पारीस्> वंशपरिणामभूतः कोविड्वैराणुः यूरोपीयराष्ट्रेषु आशङ्राजनकेन व्याप्यते। विषाणोः सान्निध्यं यू केतः आगतेषु चतुर्षु स्पयिन् देशीयेषु नैकेषु फान्स् , स्वीडन् देशीयेषु च स्थिरीकृतम्। 

  तथा च जापाने पञ्च जनाः नूतनविषाणुबाधिताः अभवन्। डेन्मार्क्,नेतर्लान्ट्, आस्ट्रेलिया इत्येतेषु राष्ट्रेष्वपि विपरिणतवैराणोः सान्निध्यं दृढीकृतमासीत्।

 राष्ट्रस्य अल्पतमवयस्का महानगरसभाध्यक्षा केरलराजधान्याम्। 

   अनन्तपुरी> केरलराज्यस्य राजधानीनगरस्य शासनसभाध्यक्षपदमलङ्कर्तुं चिता २१ वयस्का आर्याराजेन्द्रः भारतस्य अल्पतमवयस्का महानगरसभाध्यक्षा इति विशेषणं चालङ्करोति। नगरस्थे पूजप्पुरा मुडवन्मुकल् नामकमण्डलस्य सदस्या भवति आर्या। इदानीं अनन्तपुर्यां 'ओल् सेयिन्ट्स्' कलालये द्वितीयवर्षीया बिरुदछात्रा अस्ति। 

  बालसंघस्य राज्यस्तरीयाध्यक्षा, एस् एफ् ऐ नामकविद्यार्थिसंघटनस्य जनपदोपाध्यक्षा तथा राज्यसमित्यङ्गश्च भवत्येषा। सि पि एम् राजनैतिकदलस्य अनन्तपुरीजनपदसमित्या एव महानगरसभाध्यक्षस्थानं प्रति आर्या निश्चिता। नगरस्य ४६तमं 'मेयर्'पदं तथा तृतीयं वनितामेयर् पदं च अलंक्रियते आर्याराजेन्द्रेण।

Saturday, December 26, 2020

 ब्रिट्टणे कोविड् वैराणोः अन्यतमा श्रेणी  प्रत्यभिज्ञाता।

    लन्टण् > बिट्टणो प्रत्यभिज्ञातस्य वर्धित व्यापनक्षमस्य वैराणोः श्रेण्याः दक्षिणाफ्रिका  संबन्धः अस्ति इति ब्रिट्टीष् स्वास्थ्य निर्देशकेन मानहोकेन  उक्तम्। जनितक रूपव्यत्ययेन जातस्य वैराणोः  ब्रिट्टणस्य वैराणुभिन्नता अस्ति। अस्य वैराणेः व्यापनशीलत्वम् अधिकम् अस्ति। अतः भयाशङ्काः वर्धन्ते इति तेनोक्तम्। 

Friday, December 25, 2020

चलनचित्रगीतस्य संस्कृतानुवादः सामाजिकमाध्यमेषु नूतनतरङ्गमुद्पाद्यते।

 तिरुवनन्तपुरम्> मलयाळभाषायां प्रचुरप्रचारमाप्तं नूतनचलच्चित्रगीतमस्ति 'किं किं किं' इति गीतम्। मलयालभाषायाः प्रियनायिका मञ्जु वारियर् एवास्यालापनमकरोदिति अस्याः जनप्रियतायाः प्रमुखं कारणमस्ति। गानमिदं सामाजिकमाध्यमेषु इदानीं तरङ्गानुत्पाद्य प्रचुरप्रसारमाप्नोति।  अस्मिन्नवसरे एव Shibus Sanskrit इति यू टूब् सरणी  livesanskrit संघस्य सहयोगेन अस्य संस्कृतानुवादमादायागच्छति। केरल राज्ये आक्कुलं केन्द्रीयविद्यालयस्य संस्कृताध्यापकः Livesanskrit संघस्य सदस्यश्च श्री षिबुकुमारः अस्य संस्कृतानुवादं व्यदधात्।

आक्कुलं केन्द्रीयविद्यालयस्य छात्रा तथा विश्वाभिलेखविजेत्री चलच्चित्रगायिका च अदिति नायर् एवास्यालापनम् अकरोत्। Livesanskrit संघस्य सदस्यः श्री विनायकः सी बी अस्य सम्पादनम् अकरोत्। संस्कृतगानमिदमधुना जनहृदयेषु स्थानमावहत् सामाजिकमाध्यमानां प्रियतरं विराजते। 

गानश्रवणाय -https://youtu.be/Fk3gccQKDes

 कृषक प्रक्षोभः आरभ्य मासैकं प्राप्नोति - परिहारः अनिश्चितत्वे। 

    नवदिल्ली> केन्द्रसर्वकारस्य नूतनान् कार्षिकनियमान् विरुद्ध्य आरब्धः कृषकप्रक्षोभः मासैकं प्राप्नोति। परिहारचर्चा अपि सप्तवारमतीता। किन्तु परिहारस्तु विदूरे वर्तते। 

  कार्षिकनियमाः पूर्णतया कृषकाणां हितमुद्दिश्य इति प्रधानमन्त्रिणा अपि गतदिने उक्तमासीत्। नियमानधिकृत्य उदारहृदयेन चर्चायै सज्जमिति ह्यः पत्रद्वारा सर्वकारेण पुनरुक्तम्। किन्तु नियमस्य विनिवर्तनात् ऋते किमपि नावश्यकमिति कृषकसंघटनैरपि निगदितम्।

Thursday, December 24, 2020

 कोविड् ग्रसितम् अन्टार्टिकं अपि। ३६ संख्याका: रोगग्रस्ताः

 सान्टियागो> अन्टार्टिका प्रदेशेऽपि कोविड् १९ वैराणुबाधा स्थिरीकृता। चिलियस्य अनुसन्धानाधार-प्रकोष्टस्य ३६ जनाः एव रोगग्रस्ताः अभवन्। एतेषु २६ जनाः चिलियस्य सैनिकाः १० जनाः कर्मकराः च भवन्ति। भूखण्डे सामान्य जनवासः नास्ति चेदपि २००० गवेषकाः अन्ये सन्दर्शकाः च अत्र वासं कुर्वन्तः सन्ति इति ए पि संस्थया आवेद्यते।

 ब्रिट्टनं प्रति यात्रानिरोधः फ्रान्स् राष्ट्रेण निराकृतः। 

   पारीस्> कोविड्विषाणोः परिणमितरूपाधिगमनानन्तरं ब्रिट्टन् राष्ट्रात् आगम्यमानेभ्यः विहितं यात्रानिरोधं फ्रान्स् राष्ट्रं निराकुरुत। दिनद्वयात्मकमासीत् निरोधः। परं कोविडभावसाक्ष्यपत्रसहितेभ्यः यात्रिकेभ्यः राष्ट्रं प्रवेष्टुमनुज्ञा कल्पिता।  ब्रिट्टनात् प्रस्थिताः पण्यमहानौकाः  बुधवासरे फ्रान्ससः तीरं प्राप्ताः। ब्रिट्टनस्य उपरि विहितः यात्रानिरोधः प्रतिनिवर्तितव्यः इति यूरोपियन् आयोगेन निर्दिष्टमासीत्।

Wednesday, December 23, 2020

 केरलस्य श्रेष्ठा कवयित्री सुगतकुमारी दिवङ्गता। कोविड् रोगबाधिता आसीत् 

 अनन्तपुरी> केरलस्य प्रमुखा कवयित्री तथा राष्ट्रे विख्याता परिस्थितिप्रवर्तका च सुगतकुमारी दिवङ्गता। ८६ वयस्का एषा महाभागा कोविड्बाधया अनन्तपुर्यां मेडिक्कल् कोलज् आतुरालयस्य तीव्रपरिचरणविभागे प्रवेशिता आसन्।  'ब्रोङ्को न्युमोणिया' नामकज्वरबाधया जातेन श्वासनिरोधेन पीडिता आसीत् । अद्य पूर्वाह्ने १०.५३ वादने आसीत् तस्याः निधनम्।

 केरल साहित्य अक्कादमी पुरस्कारः केन्द्रसाहित्य-अक्कादमी पुरस्कारः एषुत्तच्छन् पुरस्कारः सरस्वतीसम्मानम्, पद्मश्री इत्यादयः संख्याधिक-पुरस्कारवृष्ट्या एषा समादृता आसीत्। केरल-वनिता आयोगस्य प्रथमा अध्यक्षा आसीत् एषा। प्रकृति संरक्षणाय महान् प्रयत्नः अनया कृता। अद्य सायं कोविङ् नियन्त्रण-नियामानुसारेण अन्त्येष्टिः भविष्यति।

Tuesday, December 22, 2020

 केरले प्रादेशिकजनप्रतिनिधयः संस्कृते शपथवाचनं कृतवन्तः। 

    कोच्ची> न केवलं लोकसभायां विधानसभायां किन्तु प्रादेशिकशासनसमित्यामपि जनप्रतिनिधयः संस्कृतभाषायां सत्यप्रतिज्ञां कुर्वन्ति। केरले सम्पन्ने पञ्चायत्तशासनसमितिसदस्यानां शपथवाचनसमारोहे आसीत् भारतस्य सांस्कृतिकभाषायाः स्वननिध्वानं श्रुतम्। केरलराज्यस्य बहुषु ग्रामसभासु नगरसभासु च शपथवाचनकार्यक्रमेषु बहवः बह्व्यः च सदस्याः संस्कृतभाषायां शपथवाचनं कृतवन्तः। 

 तिरुवनन्तपुरं महानगरसभायां मञ्जू जे नामिका सदस्या, कोट्टयं नगरसभायाः ४१तम मण्डलस्य प्रतिनिधिः के. शङ्करः च संस्कृते शपथवचनम् अकुरुताम्। कोट्टयं जनपदे अय्मनं पञ्चायत्ते १५तम मण्डलात् निर्वाचिता देवकी, पनच्चिक्काड् षष्ठमण्डलसदस्यः जयन् कल्लुङ्कल्, वाटानप्पल्ली ग्रामसभासदस्या आशागोकुलदासः, पत्तनंतिट्टा जनपदस्थे मलयालप्पुष़ा पञ्चायत्तसभां प्रति चितः सन्तोष् कुमारप्रभृतयः, पालक्काट्जनपदेमलम्पुष़ा ग्रामसदस्यः एम् माधवदासः इत्यादयः अनेके सदस्याः संस्कृतभाषायां शपथवचनं कृत्वा संस्कृतमातरि स्वकीयादरं प्रकाशिवन्तः।

Monday, December 21, 2020

 भारते कोविड्वाक्सिनं जनुवरिमासे दातुं शक्यते - स्वास्थ्यमन्त्री। 

   नवदिल्ली> राष्ट्रे कोविड्वाक्सिनं जनुवरिमासादारभ्य दातुं शक्यते इति भारतस्य स्वास्थ्यमन्त्री हर्षवर्धनः प्रतीक्षां प्रकटितवान्। औषधस्य फलप्राप्तिः, सुरक्षा इत्यादिकमधिकृत्य आशङ्का परिहर्तव्या। एतस्मिन् विषये अलम्भावः न भविष्यति। जनुवरिमासे यदा कदापि प्रतिरोधसूचीप्रयोगः आरभेत इति हर्षवर्धनेनोक्तम्।

Sunday, December 20, 2020

 पश्चिमखण्डः अपायकोट्यां - त्वरितपदक्षेपाः न सन्ति चेत् आपदिति युनेस्को।

      कोच्ची> केरलमभिव्याप्य षट्राज्यानां जीवनाडिभूतः पशिमखण्डो नामकः पर्वतपङ्क्तिः अपायकोट्यां वर्तते इति संयुक्तराष्ट्रसंघटनस्य युनस्कोसंस्थायाः आवेदनपत्रम्। झटित्येव संरक्षणपदक्षेपाः न स्वीकरिष्यन्ते चेत् जैववैविध्येन सह पश्चिमखण्डमुपजीव्य जीवसन्धारणं कृतवतः जनसमूहस्य जीवनं दुरितमयं भवेदिति आवेदने अङ्गुलीनिर्देशो वर्तते। 

  विश्वस्मिन् प्रकृतिदत्तपैतृकस्थानेषु अतिप्राधान्यमावहति पश्चिमखण्डः। इदंप्रथममेव पश्चिमखण्ड इति अपूर्वजैववैविध्यमण्डलस्य संरक्षणविषये युनस्कोसंस्थया स्वीयाशङ्कां प्रकाशयति। प्रकृतिसंरक्षणे यूनस्कोसंस्थायाः आधिकारिकोपदेशसमित्या International Union for Conservation of Nature (IUCN) नामिकया एव अवलोकनपत्रं सज्जीकृतम्। अस्मिन् 'कठिनतरोत्कण्ठापेक्षितं स्थान'मिति पश्चिमखण्डः अङ्कितः अस्ति। 

  पर्यावरणव्यतियानः, अतितीव्रग्रीष्मकालवर्षौ, जल-वायुमलिनीकरणं, विनोदसञ्चारायोजनाः, वननशीकरणं, वनान्तर्गताः मार्ग-रेल्यानपद्धतयः, खनि-शिलोद्योगाः, बडवाग्निः इत्यादयः पश्चिमखण्डं नाशोन्मुखं कारयन्तीति आवेदनपत्रे सूच्यते। 

   २०११तमे वर्षे केन्द्रवनं-परिस्थितिमन्त्रालयं प्रति  माधवगाड्गिल् वर्यस्य नेतृत्वे सज्जीकृत्य समर्पिते आवेदनपत्रे अयं विषयः सुव्यक्ततया उक्तमासीत्।

 भारते कोविड्बाधिताः एककोटिपरिमितम् अतीताः। 

    नवदिल्ली> अमेरिक्काम् अनुगम्य भारते कोविड्बाधितानां संख्या एककोटिम् अतीता। गतदिनस्य विज्ञापनमनुसृत्य देशे कोविड्रोगिणां संख्या  १,००,१५,९७३ अभवत्। अनेन कोविड्वर्धिकसंख्याकानां राष्ट्राणां पट्टिकायां भारतं द्वितीयस्थानमावहति। किन्तु रोगमुक्तिमाने भारतमग्रिमस्थानं वहति। ९५.६% अस्ति भारतस्य मुक्तिमानम्। राष्ट्रे इतःपर्यन्तं १,४५,१३६ जनाः कोविड्बाधया मृताः। अमेरिक्कायां तु ३,१३,५८८ जनाः विनष्टप्राणाः अभवन्। 

  आविश्वं ७.५कोटि जनाः कोविड्बाधिताः जाताः। ब्रसील् , रूस्, फ्रान्स् इत्येतानि राष्ट्राणि कोविड्बाधायां भारतस्य पृष्ठतः वर्तन्ते।

 ब्रिट्टणे नूतनः कोरोणवैराणुः व्याप्यते।  

विश्वस्मिन् नूतनां समस्याम् उत्पाद्य जनितकव्यत्ययः प्राप्य नूतनः वैराणुः| अधुना विद्यमानात् भिन्नः भवति नूतनः ।प्रतिशतं सप्तत्यधिकं (70%) व्यापनक्षमता अस्ति अस्य इति आवेद्यते। ब्रिट्टणे नियन्त्रणानां काठिन्यं अवर्धयत्। अतः भारतम् अन्यानि राष्टाणि च ब्रिट्टणं प्रति विद्यमान-यात्राबन्धं समापयन्ति। नूतनवैराणुः अतिव्यापनक्षमयुक्तः इति ब्रिट्टणस्य प्रधानमन्त्री बोरिस् जोण्सणः अवदत्। राष्ट्रस्य स्थितिः अतीवगुरुतरा नियन्त्रणातीता इति च ब्रिट्टणस्य स्वास्थ्य- सचिवः माट् मान्होक् अपि अवदत्।

Saturday, December 19, 2020

 ब्रिट्टणे जनितकव्यतियानेन सह नूतनः वैराणुसान्निध्यं प्रत्यभिज्ञातम्। व्यापनक्षमता गुरुतरा।

   लण्डन्> कोविड् १९ रोगकारणभूतात् कोरोण वैराणोः भिन्नं  नूतनं वैराणुं ब्रिट्टणे प्रत्यभिज्ञातम्।  कोविड् बाधितेषु सहस्राधिकेषु रोगिषु नूतनानां वैराणूनां सान्निध्यं प्रमाणी कृतम् । वैराणोः व्यापनक्षमता अधिका इति प्राथमिक अध्ययनावेदनं बहिरागतम्।  रोगाणुव्यापनकालः इत्यनेन लण्डने बुधवासरात्  कोविड् नियन्त्रणेषु  काठिन्यं कृतम्।

 जापानराष्ट्रे१५ कि.मी दूरं यावत् गतागतबन्धनम्।  

    टोकियो> जापानस्य कनेसु एक्स्प्रेस् हैवे मध्ये आपन्ने गतागतसम्मर्दे  सहस्राधिकाः जनाः बन्धिताः। अतिरूक्ष-हिमपातेन १५ किलोमीट्टर् दूरं यावत् यानेषु बन्धिताः। भक्ष्यपेयादीन् अलब्ध्वा एव होराः यावत् जनाः उषिताः। 'टोक्यो-निगाट्ट' प्रविश्ययोः मध्ये वर्तमानः मार्गः भवति अयम्। बुधवासरात् आरब्धः भवति गतागतसम्मर्दः ४० होरापर्यन्तम् अभवत्। एकं कार् यानं हिमखण्डे घट्टयन् स्थगितम् इत्यनेन आसीत् गतागतसम्मर्दस्य कारणम्।

Friday, December 18, 2020

 केरले विद्यालयाः उद्घाट्यन्ते ; SSLC परीक्षा मार्च् १७ तमे आरभ्यते। 

    अनन्तपुरी> केरलराज्ये विद्यालयाः जनवरि प्रथमेदिने उद्घाट्यन्ते। १०, १२ कक्ष्याणां कृते कोविड्मानदण्डान् अनुशील्य कक्ष्याः प्रचालयिष्यन्ते। प्रोक्तकक्ष्याछात्राः रक्षाकर्तॄणामनुज्ञया विद्यालयं प्राप्य सन्देहनिवारणाय शास्त्रविषयाणां प्रयोगपरिशीलनाय च अमुं कालमुपयोक्तव्याः इति सर्वकारस्य परिकल्पना। 

  SSLC,+2 कक्ष्याछात्राणां परीक्षाः मार्च् मासस्य १७ तमे दिनाङ्के आरप्स्यते। विद्यालय-उच्चविद्यालयस्तरीयाः ओण् लैन् कक्ष्याः अनुवर्तिष्यन्ते। 

  कलालयेष्वपि अन्तिमवर्षस्नातककक्ष्याः स्नातकोत्तरकक्ष्याश्च जनुवरि प्रथमदिने एव आरप्स्यन्ते। मुख्यमन्त्रिणः आध्यक्ष्ये प्रचलिते शिक्षा-स्वास्थ्य-उन्नतशिक्षामन्त्रिणाम् उद्योगस्थवृन्दस्य च उपवेशने आसीदिमे निर्णयाः कृताः।

 रसना राष्ट्रियान्तर्जालसङ्गोष्ठी 2020 अद्य दशवादने समारभ्यते।

 ॥अत्र तुदतु स्वागतम् ॥


     कालटी> रसना- संस्कृतमासपत्रिकया संस्कृतसंवर्धनप्रतिष्ठानस्य सहयोगेन समायोज्यमाना दिनद्वयात्मका राष्ट्रियान्त्जालसङ्गोष्ठी अद्य समारभ्यते (2020 December 18,19(10-12 AM) Zoom ) सूम् अनुप्रयोगद्वारा संस्कृतप्रेमिभ्यः भागं स्वीकर्तुं शक्यते इति रसना मासपत्रिकायाः प्रबन्धसम्पादकेन  के. एम्. जनार्दनवर्येण उक्तम्। संस्कृतमाध्यमानां नूतनप्रवणताः इति विषये भारतस्य महामनीषिणः भाषणं करिष्यन्ति। पद्मश्री. च मू कृष्णशास्त्री, वरिष्ठः संस्कृतवार्ता-प्रवाचकः डा. बलदेवानन्द सागरः, विद्वान् हेच् वी. नागराजः. महामहोपाध्यायः डा. जी. गङ्गाधरन् नायर् महोदयः, दूरदर्शनस्य वार्तावली कार्यक्रमस्य अवतारकः डा. नारायणदत्त मिश्रः अन्ये  विद्वांसः च भागभाजः भविष्यन्ति।

2020 December 18,19(10-12 AM) Zoom

Meeting ID: 851 7328 4439 Passcode 672229

प्रवेशसूत्रम् - https://us02web.zoom.us/j/85173284439?pwd=YnRoc2ZHdmZYazdBNnVWT2Q4NzNTZz09

Thursday, December 17, 2020

 कोविडस्य स्रोतः अन्वेष्टुम् अन्ताराष्ट्रसंघः चीनां प्रति।

  जनीव> कोविड् महामार्याः उत्पत्तिस्थानमन्वेष्टुम् अन्ताराष्ट्रविदग्धानां संघं चीनां प्रेषयितुं विश्वस्वास्थ्यसंघटनेन निश्चितम्। जनुवरिमासे सन्दर्शनं भवेदिति संघटनस्य वक्ता हेडिन् हाल्डोर्सण् नामकः वार्ताहरानवोचत्। प्रोक्ते संघे स्वास्थ्यप्रवर्तकाः गवेषकाः मृगसंरक्षणविदग्धाश्च अन्तर्भविष्यन्ति। 

  पूर्वं जूलाईमासे कश्चनसंघः बैजिङ् प्रति प्रेषित आसीत्। चीनायां वुहानस्थात् मांसविपणीतः एव कोविडस्य मानवसंक्रमणमिति गवेषकैः पूर्वं कल्पितमासीत्। किन्तु उत्भवः ततः न स्यादिति सम्प्रति अनुमीयते।

 केरलस्य त्रितलपञ्चायत्तनिर्वाचनं - विजयरथे वामदलसख्यम्। 

   कोच्ची> केरले चरणत्रयेण सम्पन्ने त्रितलप्रादेशिकशासनसमितिनिर्वाचने सि पि एम् नेतृत्वे विद्यमानस्य वामदलजनाधिपत्यसख्यस्य विजयप्राप्तिः। ९४१ पञ्चायत्तशासनसमितिषु ५१४ संख्याकं वामदलसख्येन प्राप्तम्। कोण्ग्रस्दलेन नेतृत्वमावहता यू डि एफ् सख्येन ३७५ समित्यः प्राप्ताः। २३ ग्रामपञ्चायत्तसमित्यः भाजपा दलनेतृत्वे एन् डि ए सख्येन  प्रशासननं करिष्यन्ते। २९ ग्रामान् इतरे च प्रशासयिष्यन्ते।

 १५२ ब्लोक् पञ्चायत्तसमितिषु १०८ समित्यः  तथा १४ जिल्लापञ्चायत्तसमितिषु ११ च वामदलेन प्राप्ताः। किन्तु ८६ नगरसभासु ४५ संख्याकं प्राप्य यू डि एफ् सख्यः स्वशक्तिं प्रकटयामास।

Wednesday, December 16, 2020

 प्रतिनिधिसभया अपि बैडनस्य राष्ट्रपतित्वम् अङ्गीकृतम्। 

  वाषिङ्टणः> यू एस् राष्ट्रे सोमवासरे सम्पन्ने प्रतिनिधिसभायाः निर्वाचने अपि राष्ट्रपतिरूपेण जो बैडनः उपराष्ट्रपतिरूपेण कमला हारिसश्च चितौ। अनेन आधिकारिकं राष्ट्रपतिनिर्वाचनं सम्पूर्णमभवत्। 

   बैडनैन ३०६ मतदानानि मुख्यप्रतियोगिना डोणाल्ड् ट्रम्पेन २३२ मतदानानि च प्राप्तानि। अलीकनिर्वाचनमारोप्य ट्रम्पेण उन्नीतानां वितर्काणामपि विराम अभवत्। 'जनाधिपत्यस्य विजय'मिति प्रतिनिधिसभानिर्वाचनं बैडनेन विशिष्टम्।

Tuesday, December 15, 2020

 कृषकप्रक्षोभः तीव्रायते। 

नेतारः अनशनमनुष्ठितवन्तः।

सीमाः उपरुद्धाः। 

   नवदिल्ली> दिल्लीसीम्नि वर्तिते आन्दोलनकेन्द्रे निराहारमनुष्ठीय, जिल्लाशासनकेन्द्राणि उपरुध्य च कृषकाः स्वकीयान्दोलनं तीव्रं कुर्वन्ति। आन्दोलनस्य १९ तमे दिने - सोमवासरे- राष्ट्रराजधान्याः चतस्रः सीमाः , दिल्ली-जयपुरराजमार्गः , आग्रा-दिल्ली  अतिवेगमार्गः इत्यादयः पञ्च प्रमुखाः राजमार्गाः कृषकाणाम्  उपरोधेन निश्चलाः जाताः। 

  प्रक्षोभम् इतःपरं कठिनीकर्तुं उत्तरप्रदेशः, राजस्थानं, पञ्चाबः, हरियाणा, उत्तराखण्डः इत्यादिभ्यः राज्येभ्यः असंख्याः कृषकाः दिल्लीं प्राप्नुवन्तीति कृषकसंघटननैतारः उक्तवन्तः।

जिद्दायाम् इन्धनयुतमहानौकायां स्फोटनं - भीकराक्रमणमिति सौदी।

   जिद्दा> सौदि अरेबिया राष्ट्रे जिद्दा महानौकानिलये इन्धनपूरेणायां महानौकायां सोमवासरे महत्स्फोटनमभवत्। भीकराक्रमणमेव प्रचलितमिति सौदी अरेबियायाः ऊर्जमन्त्रालयेन निगदितम्। स्फोटकवस्तुपूरितं नौकायानमुपयुज्य आक्रमणं कृतम्।  यस्यकस्यापि प्राणहानिः व्रणः वा नाभवदिति सूच्यते। 

   इन्धनावतारणाय महानौकायां यथास्थानं सज्जीकृतायां भीकराक्रमणमभवत्। झटित्येव अग्निशमन-सुरक्षासेनयोः नेतृत्वे अग्निशमनप्रक्रियाः समारब्धाः इति ऊर्जमन्त्रालयेन निगदितम्।

Monday, December 14, 2020

 केरले कोविड्वाक्सिनं मूल्यं विना दास्यति। 

   कण्णूर्> केरलाराज्ये जनानां कृते कोविड्वाक्सिनं निर्मूल्यतया दास्यतीति मुख्यमन्त्रिणा पिणरायि विजयेन निगदितम्। यस्मात्कस्मादपि मूल्यं स्वीकर्तुं नोद्दिश्यते। 

  वाक्सिनवितरणाय राज्यं सज्जमभवत्। प्रथमस्तरे स्वास्थ्यप्रवर्तकेभ्यः दातुं प्रयतिष्यते। सर्वेषां स्वास्थ्यप्रवर्तकानां वृत्तान्ताः सम्गृह्यमाणाः सन्ति। 

  द्वितीयस्तरे तीव्रविपज्जनानां [High risk] कृते दातुमुद्दिश्यते। अपेक्षितानि वाक्सिनानि संरक्षितुं शीतीकृतसंभरणव्यवस्थां सज्जीकर्तुं निर्देशः कृतः। 

  पूणेस्थायां सिरम् इन्स्टिट्यूट् संस्थायां निर्मीयमाणम् 'ओक्स्फड् वाक्सिन'मेव वितरणाय प्राप्स्यते इति सूच्यते। ५०० - १००० रूप्यकाणि व्ययं प्रतीक्षते। तदेव निर्मूल्यतया दास्यति।

 यू एस् राष्ट्रे वाक्सिनप्रयोगः अद्य आरभते। 

   वाषिङ्टण्> अमेरिक्कायां कोविड्रोगस्य प्रत्यौषधप्रयोगः अद्य आरभते। 'फैसर् बयोण् टेक्' नामिकया संस्थया विकसितस्य वाक्सिनस्य ३० लक्षपरिमिताः मात्राः प्रथमसोपाने वितरणं करिष्यति। विविधेषु राज्येषु अस्मिन् सप्ताहे एव वाक्सिनस्य वितरणं विधास्यति।

 यू एस् मध्ये कोविड्संक्रमणमतितीव्रम् - बाधिताः १.६ कोटि अतीताः। 

    वाषिङ्टण्> यू एस् राष्ट्रे अधुनापि कोविड्महामार्याः संक्रमणम् अतितीव्रतया अनुवर्तते। अद्यावधि रोगबाधितानां संख्या १.६कोटिम् अतीता। जोण्स् होप्किन्स् विश्वविद्यालयेनैव नूतनः वृत्तान्तः बहिर्नीतः। ३० लक्षाधिकसंख्यया भारतं ब्रसीलश्च समीपं वर्तेते। आविश्वम् अद्यावधि ७.१कोटिपरिमितेषु जनेषु कोविड्संक्रमणमभवदिति निर्णीतम्।

 केरले त्रितलपञ्चायत्तनिर्वाचनस्य अद्य परिसमाप्तिः। 

    कोच्ची> केरलराज्ये सम्पद्यमानस्य पञ्चायत्तनिर्वाचनस्य तृतीयम् अन्तिमञ्च चरणमद्य समाप्तिमेति। राज्यस्य चतुर्षूत्तरजनपदेषु अद्य सप्तवादनादारभ्य मतदानप्रक्रिया विधास्यति। 

  गतचरणद्वये अपि मतदानप्रक्रिया शान्तियुक्ता सम्पन्ना। कोविड्नियमान् अनुशील्य सम्पन्ने निर्वाचने ७८ प्रतिशतं जनाः स्वाधिकारं प्रयुक्तवन्तः। निर्वाचनफलन्तु १६ तमे दिनाङ्के ज्ञातुं शक्यते।

Sunday, December 13, 2020

 रोजगारयोजना - कर्मकराणां इ पि एफ् अंशं पूरयितुं २२८१० कोटि दीयते।

 नवदिल्ली> केन्द्रसर्वकारेण नूतनतया अवतारितायां कर्मयोजनायां आर्थिक-साहाय्यप्रदानाय २२८१० कोटि रूप्यकाणि प्रदातुं निश्चिता अस्ति इति मन्त्रिण्या निर्मलासीतारामेण उक्तम्। आत्मनिर्भरभारत- रोजगार योजनायाम् एव समाश्वासः लभते। बुधवासरे मेलिते मन्त्रिसभोपवेशने अंशदानाय निर्णीतः। इ पि ए फ् ओ मध्ये पञ्चीकृतासु संस्थासु नूतनतया कर्मलब्धानां कर्मकराणं इ पि एफ् अंशः वर्षद्वयं यावत् सर्वकारः पूरयिष्यति। २०२०

ओक्टोबर् मासतः २०२१ जूण् ३० दिनाङ्कपर्यन्तं नूतनतया कर्मसु नियुक्तानां कृते सहाय्यं विधास्यति। कोविड् रोगकाले कर्मविनष्टेभ्यः तेषां पुनर्नियुक्तिः अपि नूतनत्वेन परिगण्य आनुकूल्यं लप्स्यते। कोविड्काल समस्या-परिहाराय सर्वकारेण अयोजिता नूतना योजना भवति इयम्।

 केरले कोविड्वाक्सिनं मूल्यं विना दास्यति। 

    कण्णूर्> केरलाराज्ये जनानां कृते कोविड्वाक्सिनं निर्मूल्यतया दास्यतीति मुख्यमन्त्रिणा पिणरायि विजयेन निगदितम्। यस्मात्कस्मादपि मूल्यं स्वीकर्तुं नोद्दिश्यते। 

  वाक्सिनवितरणाय राज्यं सज्जमभवत्। प्रथमस्तरे स्वास्थ्यप्रवर्तकेभ्यः दातुं प्रयतिष्यते। सर्वेषां स्वास्थ्यप्रवर्तकानां वृत्तान्ताः सम्गृह्यमाणाः सन्ति। 

  द्वितीयस्तरे तीव्रविपज्जनकानां [High risk] कृते दातुमुद्दिश्यते। अपनेक्षितानि वाक्सिनानि संरक्षितुं शीतीकृतसंभरणव्यवस्थां सज्जीकर्तुं निर्देशः कृतः। 

  पूणेस्थायां सिरम् इन्स्टिट्यूट् संस्थायां निर्मीयमाणम् 'ओक्स्फड् वाक्सिन'मेव वितरणाय प्राप्स्यते इति सूच्यते। ५०० - १००० रूप्यकाणि व्ययं प्रतीक्षते। तदेव निर्मूल्यतया दास्यति।

Saturday, December 12, 2020

 विश्वविख्यातः चलच्चित्रकारः किं कि डुकः दिवंगतः। 


   लात्विया> ऋतुभेदानां दर्शनसौन्दर्येण मानवजीवितं चलच्चित्रद्वारा आविष्कृतवान् दक्षिणकोरियीयः निदेशकः किं कि डुकः नामकः ह्यः कोविड्रोगबाधया मृतः।५९ वयस्कः सः लात्वियास्थे आतुरालये चिकित्सायामासीत्। 

  Spring Summer Fall Winter and Spring नामकं चलनचित्रं तस्य अन्ताराष्टप्रशस्तिं संवर्धयति स्म। Samaritan Girl, Three Iron, Arirang, ब्रत्, पियाषे इत्यादीनां २३ चलच्चित्राणां निदेशक आसीत् किं कि डुकः

Friday, December 11, 2020

 हरियाणराज्ये विद्यालयाः डिसंबर् मासस्य १४ दिनाङ्के उद्घाटयिष्यति। 

 चण्डीगढ्> हरियाणराज्यस्य शैक्षिककेन्द्राणि उद्घाटयितुं सर्वकारेण निश्चितम्। उच्चकक्ष्यायां दिसंबर् २४ दिनाङ्के अध्ययनं समारभ्यते इति सर्वकारेण आवेद्यते। विद्यालयप्रवेशाय छात्राः ७२ होराभ्यन्तरे ग्रहीतं कोविड् रहिताः इति प्रमाणपत्रमपि दातव्याः। दशम द्वादश कक्ष्येभ्यः डिसंबर् १४ दिनाङ्कतः नवम एकादशयोः डिसंबर् २१ दिनाङ्कतः च कक्ष्या समारभ्यते। दशवादनतः एकवादनपर्यन्तम् अध्ययनं भविष्यति इति शैक्षिकनिर्देशकालयेन आवेद्यते।

Thursday, December 10, 2020

 चीनं विहाय अन्यान् पठितुम् इच्छानि ? भारतं पश्यतु। भारतं प्रशंस्य बिल्गेट्स् महोदयः।

बिल्गेट्स् मोदिना सह - चित्रं PTI
 ब्लूंबेर्ग्> भारतस्य आर्थिकपरिष्करणनयान् प्रशंस्य मैक्रोसोफ्ट् संस्थापकः बिल्गेट्स् स्वमतं प्रकाशितवान्। सिङ्कपूर् फिन् टेक् फेस्टिवल् इत्यस्य वेर्च्वल् कोण्फरन्स् मध्ये भाषमाणः आसीत् सः। चीनं विहाय अन्यं राष्ट्रम् अधिकृत्य पिपठिषूनां पुरतः भारतम् अस्ति भारतोनाम राष्ट्रम् इति नूनं वक्ष्यामि इति तेनोक्तम्। रूप्यकपत्र-निरोधनेन भारते प्रचलितम् अङ्कीय विनिमयम्  आधारपत्रस्य सुप्रचारणं च संसूच्य आसीत् तस्य अभिमतप्रकाशनम्।

Wednesday, December 9, 2020

 एवरस्ट् गिरिशिखरस्य उन्नतिः ८८४८.८६ इति पुनर्निर्णीता।

  काठ्मण्डु > विश्वे सर्वेभ्यो उन्नतः गिरिशिखरः भवति एवरस्ट् । अस्य उन्नतिविषये जातायाः शङ्कायाः परिहाराय उन्नतिः मापिता। मापनानुसारम् एवरस्ट् गिरिशिखरस्य उन्नतिः ८८४८.८६ मीट्टर् इति पुनर्निर्णीता। १९५४ संवत्सरे भारतेन कृते मापन-प्रक्रियायां ८८४८ इत्यासीत् अस्य उन्नतिः। इदानीम् उन्नतिः  ०.८६ मीट्टर् अधिकतया वर्धिता इति नेपाल-चीनयोः संयुक्तावेदनात् ज्ञायते।

Tuesday, December 8, 2020

 केरले पञ्चायत्तुनिर्वाचनस्य प्रथमचरणमद्य। 

   अनन्तपुरी> केरलराज्ये त्रितलपञ्चायत्त् शासनसमित्यर्थं सामान्यनिर्वाचनम् अद्य समारभते। १४ जनपदेषु चरणत्रितयेनैव निर्वाचनं विधत्ते। तत्र प्रथमसोपाने तिरुवनन्तपुरं, कोल्लम, आलप्पुष़ा, पत्तनंतिट्टा, इटुक्की जनपदेषु अद्य निर्वाचनं विधास्यति। 

  कोविड्मानदण्डान् परिपाल्य मतदानं समर्पयितुं सर्वाणि सज्जीकरणानि विहितानि। प्रभाते  सप्तवादनतः सायं षट्वादनपर्यन्तं मतदानं भविष्यति। कोविड्बाधितानामपि मतदानं कर्तुं व्यवस्था कल्पिता अस्ति। 

Monday, December 7, 2020

 जनाः मूर्च्छिताः। अज्ञातरोगः व्याप्यते। 

  एल्लूरु> अन्ध्रा प्रदेशस्य एल्लूरु देशे अज्ञातरोगः व्याप्यते। रविवासरे एकः रोगेण मारितः। इतःपर्यन्तं २९२ जनाः रोगग्रस्ताः अभवन्। एतेषु १४० जनाः रोगान्मुक्ताः अभवन्। अन्येषाम् अवस्था आश्वासप्रदा इति पश्चिमगोदावरी जनपदस्य स्वास्थ्य-प्रवर्तकेन उक्तम्। रोगहेतुः कः इति इतः पर्यन्तं अज्ञातः एव। सुरक्षा प्रक्रमाः इति रीत्या प्रति गृहं सर्वेक्षणं समारब्धम्।

Sunday, December 6, 2020

 कोविड् वैराणुव्यापनं समापनकालं याति। WHO अध्यक्षः। 

    युणैट्टड् नेषन्स्>  वाक्सिन् परीक्षणानि अनुकूलतया फलं ददाति इत्यतः कोविडस्य परिसमाप्तये स्वप्नं द्रष्टुं शक्नुमः इति विश्वस्वास्थ्य संस्थायाः अध्यक्षः तेद्रोस् अदनों गब्रयेसिस् उक्तवान्। किन्तु वाक्सिनसस्य कृते प्रयाणे सम्पन्नराष्ट्राणि दरिद्रराष्ट्राणाम् उपरि कदापि पादाभ्यां मा भवतु मर्दनं इत्यपि सः अवदत्। कोविड् कालसङ्कटानि परिमार्ज्य पुरतो गच्छामः। प्रतिरोधौषधं निजीयम् इति चिन्तां विहाय सर्वेषां कृते भवतु इति चिन्तया सर्वेभ्यः समानरीत्या वितरणाय प्रक्रमाः स्वीकरणीयाः इति तेद्रोस् अदनों गब्रयेसिस् महाशयः अवदत्।

 कृषकान्दोलनं कठिनतया अग्रे चरति; पञ्चमवारचर्चा अपि निष्फला। 

   नवदिल्ली> राष्ट्रराजधानिसीमाः स्तम्भयन् दशसहस्रमितैः कृषकैः सञ्चाल्यमाणं सप्ताहात् परमपि अनुवर्तमानं कृषकसंग्रामं समापयितुं सर्वकारेणायोजितः पञ्चमवारचर्चा अपि पराजिता। कर्षकद्रोहकरं विधेयकं प्रतिनिवर्तितव्यमिति निवेदने कार्षिकसंघटनासु स्थिरीभूतासु चर्चा निष्फला अभवत्। 

 प्रधानमन्त्री नरेन्द्रमोदी अपि समालोचनायाः कस्मिंश्चिदवसरे मन्त्रिभिः सह चर्चां कृतवानासीत्। प्रधानमन्त्रिणः पदक्षेपः  कृषकसंघैः स्वागतीकृतः अपि तस्य निर्देशाः निराकृताः। आलम्बमूल्यनिर्णये स्पष्टतां करिष्यति, विधायकसम्बद्धाः कृषकाणामाशङ्काः परिहरिष्यन्तीति मन्त्रिमण्डलेन स्पष्टीकृतं तथापि विधायकानि उपसंहरिष्यन्ति वा न वा इत्येकस्मिन् प्रश्ने कृषकसंघाः स्थिरीभूताः। 

  शनिवासरे अपि चर्चा अनुवर्तते इति सर्वकारेणोक्तम्। तथा च मङ्गलवासरे आराष्ट्रं कर्षकबन्द् नामकमान्दोलनं संयोजयितुं निश्चितम्। अधिकेभ्यः राज्येभ्यः अपि कृषकाः दिल्लीं प्राप्तुमारब्धाः च।

Saturday, December 5, 2020

 कोविड्वाक्सिनं अचिरादेव लप्स्यते - प्रधानमन्त्री। 

   नवदिल्ली> कोविड् - १९ विरुध्य प्रत्यौषधं [वाक्सिनं] कतिपयसप्ताहाभ्यन्तरे भारतेषु अनधिकमूल्येन वितरणाय सज्जं भविष्यतीति प्रधानमन्त्री नरेन्द्रमोदी अवोचत्। कोविड्प्रतिरोधं तथा वाक्सिनवितरणं चाधिकृत्य सर्वदलसम्मेलने भाषमाणः आसीत् सः। 

   प्रत्यौषधस्य शीतीकृत सुरक्षायै ८५,६३४ उपकरणानि, तदर्थं २८,९४७ स्थानानि च सज्जानि। प्रथमचरणे आराष्ट्रं २.३९ लक्षं जनानां कृते सूचीप्रयोगः करिष्यते। एषु १.५४ लक्षं कोविड्भटाः भविष्यन्ति।

 रजनीकान्तः जनवरिमासे राजनैतिकदलं रूपीकरिष्यति।

   चेन्नै> राजनैतिकप्रवेशमधिकृत्य अभ्यूहानां विरामं कुर्वन् दक्षिणभारतस्य अतुल्यनटः रजनीकान्तः। जनुवरिमासे स्वकीयं राजनैतिकदलं रूपीकृत्य तमिल्नाट् राज्यस्य विधानसभानिर्वाचने स्पर्धिष्यते इति सः गतदिने पत्रकारसम्मेलनद्वारा निगदितवान्। सुतार्यं भ्रष्टाचारहीनं धर्मनिरपेक्षं च आत्मीयराजनैतिकस्य याथार्थ्यमेव दलरूपीकरणस्य लक्ष्यमिति तेनोक्तम्। 

  संवत्सरत्रयात्पूर्वमेव स्वकीयं दलं रूपीकृत्य समाजसेवां करिष्यामीति प्रख्यपितमासीत्। गतमेय्मासे प्रख्यापनाय सज्जः आसीच्च। किन्तु कोविड्कारणेन विघातो जातः। प्रख्यपनानन्तरं तमिल्नाटे रजनीकान्तस्य आराधकाः उत्साहप्रकर्षमनुभवन्ति।

Friday, December 4, 2020

 कोविड् प्रतिरोधौषधं प्रथमं स्वास्थ्यप्रवर्तकेभ्यः लभते। 

   नवदिल्ली> राष्ट्रे कोविड् प्रतिरोधौषधं प्रथमं सर्वकार-निजीय-मण्डलयोः स्वास्थ्यप्रवर्तकेभ्यः लभते। कोटिमिताः स्वास्थ्यप्रवर्तकाः सन्ति भारते। द्वितीय श्रेण्यां कोविड् प्रतिरोध-प्रवर्तनरतेभ्यः सामान्य-जनेभ्यः औषधं लप्स्यते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये आयोज्यमाने सर्वदलोपवेशने स्वास्थ्यमन्त्रालयेन इदम् आवेदितम्। कतिपय-वाराभ्यन्तरे प्रतिरोधौषधं वितरणाय सज्जं भविष्यति इति प्रधानमन्त्रिणा उक्तम्। औषधस्य मूल्यम् अधिकृत्य राज्यसर्वकारयोः मिथः चर्चा प्रचलति इत्यपि सर्वदलमेलने प्रधान मन्त्रिणा उक्तम्।

 कृषकान्दोलनं - द्वितीयस्तरचर्चा अपि निष्प्रयोजना जाता। 

   नवदिल्ली> भारते राजधानीसीमाः स्तंम्भयित्वा वासरैकस्मात्परं अनुवर्तमानं कर्षकप्रक्षोभं परिहर्तुं गतदिने सञ्चालिता चर्चा अपि निष्प्रयोजना जाता। 

   त्रिषु कार्षिकनियमानधिकृत्य कृषकैः उन्नीताः उत्कण्ठाकुलाः आशङ्काः परिहर्तुं नियमेषु परिवर्तनं भवेदिति कृषिमन्त्रिणा नरेन्द्रसिंहतोमरेण सम्मतिः दत्ता। केन्द्रसर्वकारस्य अपकर्षताबोधः नास्तीत्यतः प्रक्षोभकाः आन्दोलनात् प्रतिनिवर्तयितव्याः इति केन्द्रमन्त्रिणा अभ्यर्थितम्। किन्तु आन्दोलनमनुवर्तिष्यत इति कृषकनेतारैः उक्तम्।

 निर्वाचनानन्तरं १०-१२ कक्ष्यायाः छात्रेभ्यः अध्ययन मारप्स्यते।   

   अनन्तपुरी> देशीय-निर्वाचनानन्तरं १०-१२ कक्ष्यायाः छात्रेभ्यः अध्ययनमारब्धुं केरल-सर्वकारेण समालोच्यते। प्रथमस्तरीयेभ्यः छात्रेभ्यः अध्ययनारम्भविषये निर्णयः निर्वाचनानन्तर-कोविड् व्यापनतीव्रताम् आश्रित्य भविष्यति इति सार्वजनिक-शैक्षिक-विभागेन निगदितम्। डिसम्बर् १७ दिनाङ्कादारभ्य अध्यापकाः विद्यालये भविष्यन्ति।

Thursday, December 3, 2020

 'बुरेवि' चक्रवातः न्यूनबला भूत्वा अतितीव्र-न्यूनमर्दवत् परिणिता। 

   अन्तपुरी> भयावस्थायाः आश्वासं वितीर्य बुरेवि नाम चक्रवातः न्यूनबलो भूत्वा अतितीव्र-न्यूनमर्दवत् परिणतः इति केन्द्रपर्यावरण-विभागेन निगदितम्। मान्नार् समुद्रदुर्गे न्यूनमर्दस्य वेगः ३०-४० किलो मीट्टर् इति न्यूनम् अभवत्। तमिल्नाड् केरलतीरेषु न्यूनमर्दस्य प्रभावेन वृष्टिः आरब्धा अस्ति।

 आरक्षकालये प्रश्नकरणप्रकोष्टे च CCTV चित्रग्राही स्थापनीया - सर्वोच्चन्यायालयः। 

   नवदिल्ली> राष्ट्रस्य सर्वेषु आरक्षकालयेषु सि बि ऐ, एन् ऐ ए, इ डि आदीनां दोषान्वेषण दलानां प्रश्नकार्य-प्रकोष्टेषु CCTV चित्रग्राही स्थापनीया इति भारतस्य सर्वोच्च-न्यायालयेन आदिष्टा। रात्रिदृश्यान् तथा शब्दं च लेखनक्षमा चलनचित्रग्राही स्थापनीया। प्रश्नकरण-प्रकोष्टे अन्तर्जाल-विद्युत् बन्धः नास्ति चेत् सोऽपि स्थापनीयः इति सर्वकाराः न्यायालयेन आदिष्टाः। ग्रहीत चित्राणि १८ मासानियावात् दृश्यानि सुरक्षितरीत्या रक्षणीयनि इत्यपि न्यायालयेन आदिष्टाः।

Wednesday, December 2, 2020

 चीनस्य चाङ् इ५ पेटकं चन्द्रात् मृत् स्वीकृत्य प्रत्यागमिष्यति।

   बैजिङ्> चीनस्य चाङ् इ५ इति आकाशपेटकं चन्द्रोपरितलं अवतीर्य चन्द्रस्य मृत् स्वीकृत्य प्रत्यागमिष्यति। तृतीय वारमेव भवति चीनस्य विजयदौत्यम्। अमेरिक्कः सोवियट् यूणियन् च इतःपूर्वं चन्द्रमृत्पाषाणखण्डादीन् चन्द्रात् नीतवन्तौ भवतः। चन्द्रात् नीतवत्सु   चीनः अधुना तृतीयः भविष्यति। पूर्वं सेवियट् यूणियस्य लूणा २४ इति पेटके  चन्द्रात् मृदानीतम् आसीत्। इदानीं द्विकिलो मितं मृदंशाः अस्मिन् सन्दर्भे आनेतुं शक्यते इति चीनस्य बाह्याकाश-अनुसन्धान-संस्थया आवेद्यते।

 चर्चा निष्फला - कर्षकान्दोलनमनुवर्तिष्यते।

    नवदिल्ली> केन्द्रसर्वकारेण आविष्कृतान् कार्षिकनियमान् परिशोधयितुं समितिं रूपवत्कृत्य विषयपरिहाराय यतिष्यते इति सर्वकारस्य वाग्दानं कृषकसंघटनैः तिरस्कृतम्। त्रयोऽपि कार्षिकनियमाः प्रतिनिवर्तयितव्याः इत्यस्मिन् पदक्षेपे संघटनेषु स्थितेषु ह्यः सम्पन्ना चर्चा निष्फला जाता। सर्वकारस्य चायसत्कारं बहिष्कृतवन्तः कृषकनेतारः दिल्लीसीम्नि वर्तितं आन्दोलनस्थानं प्रतिनिवृत्ताः।गुरुवासरे पुनरपि चर्चां करिष्यतीति कृषिमन्त्रिणा नरेन्द्रसिंहतोमरेण निगदितम्।

 दिल्लीराज्यानन्तरं गुजरात्त राज्येणापि आर् टि पि सि आर् रोगनिर्णयाय शुल्कः न्यूनीकृतः।

   गान्धीनगरम्> कोविड् आर् टि पि सि आर् रोगनिर्णयस्य शुल्कः गुजरात सर्वकारेण अपि न्यूनीकृतः। नूतनशुल्कः ८०० रूप्यकाणि एव। पूर्वं १५०० - २००० रूप्यकाणि यावत् गुजरातस्य निजीय रोगनिर्णय संस्थया स्वीकृतानि आसन्। शुल्कस्य न्यूनीकरणं गुजरातस्य उपमुख्य-मन्त्रिणा निधिन् भायि पटेलेन प्रख्यापितम्। रोगिणाम् आमन्त्रणानुसारं गृहं गत्वा रोगनिर्णयं क्रियते चेत् ११०० रूप्यकाणि दातव्यानि। नूतनशुल्कव्यवस्था मङ्गल-वासरादारभ्य प्रबला जाता।

     विगते दिने दिल्ली सर्वकारेणापि आर् टि पि सि आर् रोगनिर्णयस्य शुल्कः ८०० इति न्यूनीकृतः आसीत्। पूर्वं २४०० रुप्यकाणि आसीत्। कोविड् रोगनिर्णयस्य शुल्कः ४०० इति न्यूनीकरणीयम् इति एका याचिका सर्वोच्च-न्यायालयसमक्षं स्वीकृता अस्ति। २०० रूप्यकाणि एव रोगनिर्णयस्य व्ययः किन्तु आराष्ट्रम् अनियत शुल्काः जनेभ्यः स्वीकुवन्ति।

 जैनदर्शनस्य मूर्धन्यभूतः विद्वान्  बनारसे स्थित पार्श्वनाथविद्यापीठस्य पूर्व निदेशकः राष्ट्रपतिपुरस्कारलब्धश्च 

    नवतिवर्षीयः डा.सागरमलजैनः कार्तिकपूर्णिमायाः दिवसे श्वेताम्बरसाधनापद्धतिमालक्ष्य संथारासमाधिं स्वीकृतवान्। एतेषां मार्गदर्शने पञ्चाशत् पर्यन्तं साधुभ्यः साध्वीभ्यः च विद्यावारिधिः इत्युपाधिः दत्तः वर्तते। डा. सागरमलजैनेन  70 पुस्तकानि अपि  विरचितानि ।

Tuesday, December 1, 2020

 कर्षकप्रक्षोभः - निरुपाधिकचर्चायै सर्वकारः। 

   नवदिल्ली> कर्षकान्दोलकैः सह उपाधिं विना चर्चां कर्तुं केन्द्रसर्वकारः सिद्ध अभवत्। प्रक्षोभकदलेषु अन्यतमस्य 'भारतीय किसान् यूणियन्' नामकदलस्य नेतारं जोगीन्द्र सिंहं इतरान् नेतृजनान् च गृहमन्त्री अमित् शाहः दूरवाणीद्वारा सम्बुद्ध्य चर्चासन्नद्धतां निगदितवान्। अद्य त्रिवादने चर्चां कर्तुं शक्यते इति कृषिमन्त्री नरेन्द्रसिंह तोमरः ह्यः रात्रौ कृषकदलनायकान् स्पष्टीकृतवान्। परन्तु संघटननायकाणां प्रत्युत्तरं न बहिरागतम्। 

  एतदाभ्यन्तरे उत्तरप्रदेश-दिल्ली सीमायां गासियाबादे इतःपरं कृषकाः शिबिरमध्यासितवन्तः। दिल्ल्याः पञ्पापि सीमाः स्तम्भयिष्यन्ते इति संघटनानां प्रख्यापः। केन्द्रसर्वकारेण सर्वासु सीमाप्रदेशेषु अर्धसैनिकानपि विन्यस्य सुरक्षा शक्ता कृता।

 प्रवासि-सम्मतिदायकेभ्यः अणुप्रेषद्वारा सम्मतिदानाय अवसरः - भारत-निर्वाचनायोगः। 

   नवदिल्ली> समागते संवत्सरे पञ्चसु राज्येषु संभव्यमानेषु निर्वाचनेषु भारतस्य प्रवासिसम्मति-दायकेभ्यः Electronic postal vote सुविधा प्रदातुं सज्जः इति निर्वाचनायोगः केन्द्र-नियममन्त्रालयं प्रति न्यवेदयत्। यः सम्मतिदानं वाञ्चति सः निर्वाचन-प्रख्या पनानन्तरं पञ्चदिनाभ्यन्तरे निर्वाचनाधिकारिणः पुरतः स्वास्य सम्मतिदानाभिलाषम् अणुप्रेषद्वारा ज्ञापनीयः। तदा अधिकारिणा सम्मतिदानपत्रं अणुप्रेषद्वारा तस्मै प्रेषणीयम्। अनन्तरं सम्मतिदानेच्छुः सम्मतिदानपत्रस्य प्रति मुद्रणं कृत्वा यस्मिन् राष्ट्रेवसति तत्रस्थानां भारतदूतावासगृहोद्योगिनां साक्ष्यपत्रेणसाकं सम्मतिदानपत्रं पेषणीयम् इति भवति प्रक्रमाः।

Monday, November 30, 2020

 ब्रह्मपुत्रनद्यां सेतुनिर्माणाय चीनः सज्जः। भारतस्य जल-वितरणे बाधा भविष्यति ? 

    नवदिल्ली> टिबट् प्रविश्यायां प्रवहन्त्यां ब्रह्मपुत्रनद्यां सेतुनिर्माणाय चीनः सज्जः इत्यस्ति नूतनम् आवेदनम्। आगामि संवत्सरे समारम्भणीया पञ्चवत्सरीया पद्धतिः निश्चिता वर्तते। तस्यां जलविद्युदुत्पादनयोजना अपि अन्तर्भूता अस्ति इति आवेदनम् आगच्छति। चीनस्य वार्तमाध्यम् ग्लोबल् टैंस् पत्रिकया एव वार्तेयं प्रकाशिता। पवर् कण्स्ट्रक्षन् कोरपरेषन् चीन इत्यस्य अध्यक्षषेण यान् स्योगेन उक्तमिति आवेद्यते पत्रिकया। ब्रह्यपुत्रस्य प्रवाहस्य स्थगनाय भवति चीनस्य अयं प्रक्रमः। भारतस्य अरुणाचलप्रदेश-असं - मेघालयः -सिक्किं -नागलान्ट-पश्चिमबङ्गालराज्येषु प्रधानतमा जलवाहिनी भवति एषः ब्रह्मपुत्रः।

Sunday, November 29, 2020

 प्राणवायुः वार्धक्यरोधने प्रधानः अंशः भवति- इस्रायेलस्य वैज्ञानिकाः।

    वार्धक्यः स्वाभविका प्रकृतिः भवति। चेदपि कस्मैरपि न रोचते इयम् अवस्था।  इस्रायेलस्य वैज्ञानिकाः नूतनम् अध्ययनं कृत्वा प्रमाणीक्रियते यत् ओक्सिजनम्  (Oxygen) उपयुज्य क्रियमाणान् चिकित्सावविधीन् एव वैज्ञानिकाः अकुर्वन्। टेल् अवीव् विश्व-विद्यालयस्य तथा षेमीर औषधकेद्रस्य च वैज्ञानिकानां इदं  प्रत्यभिज्ञानं  नवम्बर् १८ दिनाङ्के एजिङ् मासिकायां प्रकाशितम्। ओक्सिजनस्य अधिक सम्मर्देन सज्जीकृते प्रकोष्ठे  कोशेभ्यः संशुद्धं ओक्सिजनम्  दत्वा असीत् प्राथमिकपरीक्षणम् । 

Saturday, November 28, 2020

कृषकसञ्चलनं दिल्लीं प्रविष्टम्। 
प्रतिरोधः विफलः। 
    नवदिल्ली> सर्वकाराणां सर्वविधप्रतिरोधानतिक्रम्य कृषकाः राष्ट्रराजधानीं प्रविष्टवत्। All India Kisan Sangharsh Coordination Committee नामकसंघटनस्य 'दिल्ली चलो' इत्युपरोधान्दोलनस्य अंशतया पञ्चाबः , हरियाणम् इत्यादिभ्यः राज्येभ्यः सहस्रशः कृषकाः गुरुवासरादारभ्य दिल्लीसीमायां शिबिरमध्यास्य वर्तितवन्त आसन्। 
   दिल्लीस्थे बुराडिस्थाने वर्तमानं 'निरङ्कारि' क्रीडाङ्कणं प्राप्य उपरोधान्दोलनं कर्तुम् अनुज्ञा लब्धा। कृषकैः सह डिसम्बर् तृतीये दिने चर्चां कर्तुं केन्द्रकृषिमन्त्री नरेन्द्रसिंहतोमरः सन्नद्धतां प्राकशयदपि कृषकसमितिनेतारः न प्रत्युत्तरवन्तः।

Friday, November 27, 2020

 निवारचक्रवातः - मरणानि त्रीणि; २.२७लक्षं जनाः सुरक्षितस्थानं नीताः। 

    चेन्नै> तमिल्नाट्राज्ये गतदिने प्रवृत्तेन निवारचक्रवातेन त्रयः जनाः मृताः। राज्यस्य औत्तरजनपदेषु व्यापकरीत्या कृषिनाशः अभवत्। जलोपप्लव-साध्यताप्रदेशेभ्यः २.२७ लक्षं जनाः सुरक्षितस्थानं नीताः। 

  १०१ गृहाणि विशीर्णानि। भूतलं प्राप्य अतितीव्रचक्रवातः दुर्बलं भूत्वा आन्ध्रप्रदेशं प्रविष्टः। चेन्नै विमाननिलयस्य प्रवर्तनं ह्यः पुनरारब्धम्।

Thursday, November 26, 2020

 'निवारचक्रवातः' भूतलमुपगतः।

   चेन्नै>  निवारनामकस्य अतितीव्रस्य  चक्रवातस्य प्रथमः अंशः  तमिल्नाडुराज्यसीमायां प्राप्तः।   पुतुच्चेरि प्रदेशात् ३० कि.मी उत्तरेभागे भूतलस्पर्शमकरोत्।

  प्रदेशे शक्ता वर्षा प्रचलति। चक्रवातस्य मध्यभागः भूतलं प्राप्तुं होराः अपेक्षिताः इति पर्यावरणविभागेन निगदितम्।

 न्यूसिलान्टस्य प्रतिनिधिसभायां

भारतवंशजः संस्कृतेन शपथग्रहणं  कृत्वा  इतिहासम् अलिखत्।  

 डो. गौरवशर्मा (वामभागे)

    वेल्लिङ्टण्> भरतवंशजः डो. गौरवशर्मा न्यूसिलान्टस्य प्रतिनिधिसभायां

 संस्कृतेन शपथग्रहणं  कृत्वा  इतिहासम् रचितवान्।  हिमाचल् प्रदेशस्य हमिर्पुरं मूल स्थानभूतः भवति। एष: हमिल्टण् वेस्टिल्तः 'लेबर् पार्टी' स्थानाशित्वेन विजयीभूतः। बुधवासरे आसीत् अस्य शपथग्रहण-समारोहः। न्यूसिलान्ट् प्रतिनिधिसभायां  निवाचितेषु न्यूनवयस्कः भवति एषः। एष: गौरव् शर्मा न्यूसिलान्टस्य मावोरी इति प्रादेशिकभाषायां तदनन्तरं पौराकायां संस्कृतभाषायां च शपथग्रहणं कृतवान् ।  

किमर्थं भारतस्य प्राशासनिकभाषां हिन्दीं शपथग्रहणाय न स्वीकृतः इत्यस्य प्रश्नस्य सौरवशर्मा सविनयम् उत्तरं दत्तवान्। 

'विषयमधिकृत्य बहु चिन्तितवान्। मम प्राथमिक भाषा भवतः पहारि पञ्चाबि च।  सर्वान् तोषयितुं  क्लेशः भवति। अतः सर्वैः समादृता संस्कृतभाषा एव मया स्वीकृता इति गौरवेण ट्वीट् कृतम्।

 ट्रम्पः पराजयं अङ्गीकृतवान्। शासनस्य हस्तान्तरीकरणाय प्रक्रमाः समारब्धाः। 

 वाषिङ्टण्> अमिरिकस्य राष्ट्रपतिनिर्वाचने ट्रम्पः पराजयं अङ्गीकृतवान्। अपि च नियुक्त राष्ट्रपतये जोबैडनाय राष्ट्रस्य शासनस्य हस्तान्तरीकरणाय प्रक्रमान् समारब्धुं 'वैट् हौस्' वृन्देभ्यः  आदेशं दत्तवान् इति सः 'ट्वीट्' कृतवान्।  अनुबन्ध प्रवर्तनाय बैडनस्य कार्यालयाय ६३ लक्षं डोलर् धनं च प्रदत्तवान्।

Wednesday, November 25, 2020

 पादकन्दुकप्रभुः डीगो मरडोणः निर्यातः। 

     विश्वपादकन्दुकक्रीडायाः आराधकानामीश्वरः इति स्तुत्यमानः दीगो मरडोणः दिवंगतः। षष्टिवयस्कः सः हृदयाघातेनैव मृत्युमुपगतः इति स्थिरीकरणमागतम्। 
  कतिपयदिनेभ्यः पूर्वं तस्य षष्ट्यब्दपूर्तिः आविश्वं जनैः आघुष्टमासीत्। अचिरेणैव मस्तिष्के रक्तस्रावहेतुना शस्त्रक्रियाविधेयः आसीत्। स्वास्थ्यमुपगतः सः गृहं प्रत्यागतवानासीत्। अर्जन्टीनराष्ट्रस्य पादकन्दुकदलस्य नेता आसीत्। वारचतुष्टयं सः अर्जन्टीनाराष्ट्रस्य कृते विश्वचषकपादकन्दुकस्पर्धायां भागभागित्वं कृतवान्। १९८६ तमे वर्षे तेन कृतेन लक्ष्यकन्दुकेन अर्जन्टीनं विश्वविजयिनमकरोत्। तत्र तेन प्राप्तं लक्ष्यकन्दुकद्वयं 'ईश्वरस्य हस्तेन प्राप्तम्' 'शताब्दस्य लक्ष्यकन्दुक'मिति च प्रसिद्धमभवत्।

संस्कृतं जनभाषा भवेत् आमुखपटलसमूहेन संस्कृत बालगीत प्रतियोगिताया: आयोजनम्

       संस्कृतस्य संरक्षणाय, वर्धनाय, प्रचाराय च आमुखपटले; संस्कृतं जनभाषा भवेत् इति नाम्ना संस्कृतस्य बृहद् समूह: वर्तते। समूहे प्रतिदिनं संस्कृतस्य लेखा:, हास्यकणिका:, चलचित्राणि च संस्कृतज्ञा: प्रेष्यन्ति। बाला: अपि संस्कृतं प्रति आगच्छेयु: इति विचिन्त्य अस्मिन् वर्षे बालानां कृते; संस्कृत बालगीत प्रतियोगिता इत्या: आयोजनं संस्कृतं जनभाषा भवेत् समूहेन कृतम्। प्रतियोगितायां सम्पूर्ण भारतदेशात् २१ बालका: बालिकाश्च भागं गृहीतवन्त:। प्रतियोगितायां बालका: बालिकाश्च संस्कृतगीतं गीत्वा चलचित्रं निर्मित्वा प्रेषितवन्त:। अस्यां प्रतियोगितायां प्रथमं स्थानं भावनगर, गुजरातत: बालिका व्यास प्रियांशी (७ वय:), द्वितीयं स्थानं औरंगाबाद, महाराष्ट्रत: बालक: अर्जुन सुशांत: ( ७ वय:), तृतीयं स्थानं श्रीगंगानगर, राजस्थानत: बालक: हेमन्त जोशी: (५ वय:) प्राप्तवन्त:। एते सर्वे प्रतियोगितायां अधिका: अंका: स्वीकृतवन्त:। प्रतियोगितायां ये भागं गृहीतवन्त: तेषां कृते समूहपक्षत: प्रमाणपत्राणि मेलिष्यन्ति। अस्या: प्रतियोगितायाः पुरस्कारप्रायोजक: रा. ई. का. कोटद्वारे सहायकसंस्कृतशिक्षकरूपेण कार्यं करोति श्री कुलदीपकुमार: मैन्दोला अस्ति। महोदय: प्रथमद्वितीयतृतीयविजेतृभ्य: क्रमश: ३००, २५०, १५० इति पुरस्कारराशिं प्रदास्यति। प्रतियोगिताया: आयोजकौ समूहस्य सञ्चालक: दीपकः शास्त्री, सूरतत: प्रकाशितं दैनिकसंस्कृतसमाचारपत्रं विश्वस्य वृत्तान्त: च स्त:।

Tuesday, November 24, 2020

 IMA आयुर्वेदं निराकरोति - विश्व आयुर्वेदपरिषद्  


 

 नवदिल्ली> आयुर्वेदभिषग्वरेभ्यः शल्यचिकित्सायैः अनुज्ञा विधास्यति इत्यनेन 'अलोपति' वैद्यानां सङ्घटनेन (ऐ. एम्. ए.) विप्रतिपत्तिः प्रकाशिता आसीत्।  आयुर्वेदं भरतीयं अन्यम्  औषधविज्ञानान् च विरुद्ध्य IMA सङ्घटनम्  सदाकालम् अनृतप्रचारेषु व्यापृतं वर्तते इति विश्वायुर्वेदपरिषदः अखिलभारतीय-सचिवः डा. नितिन् अग्रवालः खेदं प्रकाशितवान्। अयुर्वेदौषधानां औषधसस्यानां च प्रयोजनान् अधिकृत्य वैज्ञानिक-प्रमाणानवलंम्ब्य वस्तुनिष्ठावलोकनं विना एते जनानां मनसि अविश्वासं जनयन्ति अनृतं प्रसारयन्ति च। आयुर्वेदस्य सार्वजनिक-स्वीकार्यतायाः एते बिभ्रेन्ति इति च  नितिन् अग्रवालः सम्प्रतिवार्तां प्रति अवदत्।  जनेभ्यः आयुर्वेदात् प्रयोजनं लभते चेत् रोगग्रस्तान् धनागमोपकरणम् इति मन्वानः औषधव्यवसायिनः  वृथा न तिष्ठन्तः  इति सामान्यजनाः अपि जानन्ति इति च तेनोक्तम्।

www.samprativartah.in

 असमस्य भूतपूर्वमुख्यमन्त्री तरुण गोगोयः निर्यातः। 


   गुहावती> कोविड्मुक्त्यनन्तरम् अनुबन्धरोगैः प्रपीड्य परिचर्यायां वर्तितः असमराज्यस्य भूतपूर्वः मुख्यमन्त्री तथा वरिष्ठः कोण्ग्रस्दलस्य नेता तरुण गोगोयः [८४] दिवंगतः। सोमवासरे सायं ५.३४ वादने गुहावतीस्थे चिकित्सालये आसीत् तस्यान्त्यम्। 

  २००१ तमादारभ्य २०१६ पर्यन्तं त्रिवारं असमस्य मुख्यमन्त्री आसीत्। द्विवारं केन्द्रमन्त्रिपदमलङ्कृतवान्।

Monday, November 23, 2020

 आयुर्वेदभिषग्वरेभ्यः शल्यचिकित्सायैः अनुज्ञा। ऐ. एम्. ए. विप्रतिपत्तिः प्रकाशिता। 

 नवदिल्ली> भारते इतःपरं आयुर्वेदभिषग्वरेभ्यः सार्वजनिक-शल्यचिकित्सायैः अनुज्ञा प्रदत्ता। बिरुदानन्तर-बिरुद-धारिभिः श्रोत्र-नासा -गल-अस्थि-नेत्रदन्तेभ्यः शल्यचिकित्सां कर्तुं शक्यते। २५वर्षाणि यावत् अयुर्वेदभिषग्वराः लघु शल्यक्रिया: कुर्वन्तः सन्ति। नियमानुसारं भवति इयं शल्यक्रियानुमतिः इति बोधयितुमेव नूतनम् इदं विज्ञापनम् इति भारतीयौषधविज्ञानीय आयोगस्य अध्यक्षेण उक्तम्। नियमानुसारं शल्यकियायाः अनुशीलनपाठः अपि पाठ्यप्रणाल्यां निवेष्टुं प्रक्रमाः समारप्स्यते इति विज्ञप्तम्।  किन्तु आयुर्वेदभिषगवरेभ्यः शल्य-क्रियायां सन्दर्भः दत्तः इत्यतः ऐ एम् ए वि प्रतिपत्तिः प्रकाशिता।

Sunday, November 22, 2020

 जेय्षे भीकराक्रणप्रकल्पनं - पागधिकारिणमाहूय प्रतिषेधमादिशत्। 

   नवदिल्ली> भारते आक्रमणाय प्रकल्पितवतां भीकराणां वधानन्तरं पाकिस्थानस्य स्थानपतिप्रतिनिधिम् आहूय भारतं प्रतिषेधं प्राकाशयत्। 

  पाकिस्तानीयास्थानत्वेन प्रवर्तमानस्य जेय्षे भीकरसंघनस्य अनुयायिन एव हताः इति निर्णीतमासीत्। मृतदेहेभ्यः एतदुपस्थापयितुमावश्यकानि प्रमाणानि लब्धानि। भीकराणां कृते दीयमानं साहाय्यं समाप्तव्यमिति विदेशमन्त्रालयेन पाकिस्थानस्य अधिकारिणं प्रति आदिष्टम्।

Saturday, November 21, 2020

 एषः इक्षुचोरः - निलीनस्य  कलभस्य चित्रम् विश्वस्मिन् व्याप्तम्।

 बाङ्कोक्> इक्षुकेदारे चोरणाय समागतः कलभः गृहीतः। ताय् लान्टस्य  चियाङ् माय प्रदेशे भवति इयं रसकरी घटना। इक्षुखादनाय रात्रौ एकाकी भूत्वा इक्षुकेदारे प्रविष्टवानऽयं गजसूनुः।  किन्तु कृषकाणां शब्दं श्रुत्वा विद्युद्स्तंभस्य पृष्टतः निलीनः अतिष्टत्। किन्तु तस्य प्रयत्नः विफलम् अभवत्, कृषकाः करदीपं प्रकाशितवन्तः। इदानीं निलीनस्य कलभस्य चित्रम् वार्तामाध्यमेषु प्रसृतं वर्तते।

भारते सर्वेषां कृते एप्रिल् मासे कोविड् वाक्सिन् उपलप्स्यते। 
    पूने> ओक्स् फड् संस्थया साक्षात्क्रियमाणं कोविड्वाक्निौषधं आगामि एप्रिल् मासादारभ्य भारते सर्वेषां कृते उपलब्धुं शक्यते इति पूणेस्थस्य 'सिरम् इन्स्टिट्यूट' इत्यस्य अधिकारिणा अदार् पुनावाला इत्यनेन निगदितम्। वरिष्ठनागरिकेभ्यः स्वास्थ्यप्रवर्तकेभ्यश्च फेब्रुवरिमासे लप्स्यते। 
  रोगप्रतिरोधसूचीप्रयोगाय अपेक्षितस्य मात्राद्वयस्य औषधस्य सहस्ररूप्यकं मूल्यं कल्प्यते। २०२४ तमात् पूर्वं भारते प्रतिरोधसूचीप्रयोगं पूर्तीकर्तुं  शक्ष्यति इति अदारवर्यः प्रत्याशां प्राकटयत्।

Friday, November 20, 2020

 अलास्क नगरे आगामि सूर्योदयः ६६ दिनानन्तरं भविष्यति।

(आलास्कस्य  उत्कियाविक् नगरः निशीथे)|Photo: University of Alaska Fairbanks Sea Ice Group

    टोरन्टो> आर्टिक् मण्डले #विशेषघटना  (Phenomenon) अस्ति।सूर्योदयरहितानि दिनानि। अत्र सूर्योदयं विना निशायाः दैर्ख्यः ६६ दिनानि पर्यन्तं भविष्यति। ध्रुवरात्रिः इति इयं कथ्यते। उत्तर-अमेरिक्कस्य अलास्क इति विख्यातनगरे उत्कियाग्विग् निवासिनः प्रभातसूर्यं द्रष्टुं ६६ दिनानि यावत् प्रतिक्षया स्थातव्याः। अस्य वर्षस्य अन्तिमः सूर्यास्तमयः बुधवासरे मध्याह्ने आसीत्। २०२१ जनुवरि २३ दिनाङ्कानन्तरमेव अत्र सूर्योदयः भविष्यति इति यू स् वातावरण निरीक्षण-सङ्घटनेन उक्तम्। २४ होराः यावत्  सूर्यः चक्रवाल सीमायाः अधः भविष्यति इति कारणतः एव अस्य वर्षस्य अन्तिमा रात्रिः एतावती दीर्घिता ।

जम्मुकाश्मीरे चत्वारः जेय्षे भीकराः व्यापादिताः। 
श्रीनगरं > जम्मु काश्मीरे विविधप्रदेशेषु आक्रमणाय उत्साहितवन्तः चत्वारः जेय्षे मुहम्मद् नामकातङ्कवादसंस्थानुयायिनः भीकराः सुरक्षासेनया व्यापादिताः। पाकिस्थानात् अतिक्रम्य प्रविष्टैः भीकरैः सञ्चरितं ट्रक् यानं जम्मु - श्रीनगरराष्ट्रियमार्गे 'नगरोटा' नामकस्थाने सि आर् पि एफ् सेनया निरुद्धमासीत्। तदा प्रवृत्ते अभिद्वन्द्वे आसीत् चतुर्णां भीकराणां वधः। द्वौ सैनिकौ व्रणितौ च। 
   भीकरात् 'ए के' शतघ्नयः, त्रयः भुषुण्डयः, ३५ स्फोटकसामग्र्यः इत्यादयः निगृहीताः।

Thursday, November 19, 2020

मोदी बैडनश्च मिथः भाषितवन्तौ। 
   नवदिल्ली> नियुक्तामेरिक्काराष्ट्रपतिना जो बैडनेन सह भारतप्रधानमन्त्री नरेद्रमोदी दूरवाण्या संभाषणं कृतवान्। मङ्गलवासरे रात्रौ ११.५० वादने [भारतीयकालः] आसीत् तयोः चर्चा सम्पन्ना।
  बैडनस्य निर्वाचनविजयः अमेरिक्कायाः जनाधिपत्यपारम्पर्यशक्तेः तथा ऊर्जस्वलतायाश्च निदर्शनमिति मोदिना प्रस्तुतम्। उभयराष्ट्रस्य धार्मिकमूल्येषु समानतात्पर्यविषयेषु च अधिष्ठितं भारतामेरिक्कयोः आगोलनयभागभागित्वं परं दृढतया अग्रे नेतुं सहवर्तित्वेन प्रवर्तिष्यते इति उभौ नेतारौ उक्तवन्तौ। 
  बैडनं तथा उपराष्ट्रपतिनं कमला हारिसं च प्रधानमन्त्री अभिनन्दितवान्।

 वदनक्षालनद्रवः कोरोणां विरुद्ध्य फलप्रदः वा ? अनुसन्धानं प्रचलति।  

  लण्टण्> कोविड् रोगकारिणं कोरोणवैराणुं प्रतिरोद्धुं वदनक्षालनद्रवः(Mouth Wash) फलप्रदः इति नूतनम् अध्ययनफलं समागच्छति। कार्डिफ् विश्वविघालयस्य परीक्षणशालायां कृते परीक्षणे ३० निमेषानन्तरं वदनक्षालनद्रवः वैराणुं नाशयति इति अवगतम्। अन्येषां गवेषकाणाम् अङ्गीकारं प्रतीक्ष्य तिष्ठत् अस्ति नूतनं इदम् अध्ययन-फलम्। वदनक्षालनद्रवे उपयुज्यमानः सेट्टिपिरिडिनियं क्लोरैड् (CPC) एव वैराणुं नाशयति।

Wednesday, November 18, 2020

 अन्धविश्वासः षट्वयस्कायाः प्राणानपाहरत्। 

    काण्पुरम्> उत्तरप्रदेशे काण्पुरे षड्वयस्का बालिका आभिचारकर्मणे अतिनिष्ठुरेण व्यापादिता। घटनायामस्यां एकां महिलामभिव्याप्य चत्वारः आरक्षकैः निगृहीताः। 

   काण्पुरे घट्टंपुरप्रदेशीयस्य परशुरामनामकस्य अनपत्यतापरिहाराय आभिचारकर्म कर्तुं कस्याश्चन बालिकायाः श्वासकोशसहिताः आन्तरावयवाः अपेक्षिताः इति तस्य निर्देशमनुसृत्य अङ्कुल् कुरीलः, बीरानः इत्येतौ बालिकामपहृत्य समीपस्थं वनं नीत्वा बलात्कारं कृतवन्तौ। तदनन्तरं शरीरमुच्छिद्य आन्तरावयवान् समाहृत्य परशुरामाय दत्तवन्तौ इति आरक्षकाधिकारिणा उक्तम्।

 आगोलसंस्थानां विधानं कालोचितं भवितव्यं - नरेन्द्रमोदी। 

   नवदिल्ली> संयुक्तराष्ट्रसभा, अन्ताराष्ट्रनाणकनिधिः [ऐ एम् एफ्], लोकवाणिज्यसंस्था [W T O] , विश्वस्वास्थ्यसंघटनम् इत्येतेषां विधाने कालोचितं परिष्करणमावश्यकमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। 'ब्रिक्स्' राष्ट्राणां शिखरसम्मेलने भाषमाणः आसीत्सः। 

  आतङ्कवादः अतिबृहदागोलविषयः इति नरेन्द्रमोदिना प्रस्तुतम्। सर्वाणि राष्ट्राणि मिलित्वा अभियोद्धुं सज्जानि भवेयुरिति मोदी उक्तवान्।

Tuesday, November 17, 2020

 अमेरिक्कस्य कोविड् प्रत्यौषधस्य  तृतीय श्रेणीपरीक्षणं ९४.५ % फलप्राप्तिः।

 


   वाषिङ्टण्> अमेरिककस्य बयो टेक्नोलजी संस्था इति सुज्ञातेन मोडेणेन परीक्षितस्य कोविड् प्रत्यौषधस्य  तृतीय श्रेणीपरीक्षणस्य ९४.५ % फलप्राप्तिः  अस्ति इति आवेद्यते। सोमवासरे मोडोणेन एव इयं वार्ता आवेदिता। प्रत्यौषधाय कोविड्१९ वैराणुना* (virus)# सह अन्येषां वैराणुनां नाशाय क्षमता अस्ति इति मोडेणस्य अध्यक्षः स्टीफन् बेण्सलः अवदत्।  सप्ताहाभ्यन्तरे यु एस् मध्ये  राष्ट्रान्तरेषु च प्रत्योषधस्य अङ्गीकाराय आवेदनपत्रं समर्पयितुं संस्थया प्रक्रमाः स्वीकृताः।

 सौमित्र चाटर्जी कालयवनिकां प्राप्तः। 

  कोल्कत्ता> नटनोत्कृष्टतया भारतीयचलच्चित्रख्यातिम् अन्ताराष्ट्रस्तरं संवर्धमानेषु प्रमुखः वङ्गीयः नटः सौमित्र चाटर्जी [८५] दिवंगतः। गतदिने कोल्कत्तायां निजीयातुरालये आसीत्तस्यान्त्यम्। कोविड्बाधितः अासीत्। कोविडात् मुक्तिं प्राप्तः अपि तस्य स्वास्थ्यस्थितिः अशुभा अनुवर्तमाना आसीत्। 

   सत्यजितरायिवर्यस्य प्रियनटः सौमित्रः तस्य चलनचित्रेषु सर्वदा नायकस्थानमलङ्कुर्वति स्म। भारतस्य परमोन्नतचलच्चित्रपुरस्कारः दादा साहिब् फाल्के पुरस्कारः, फ्रान्स् राष्रस्य परमोन्नतनागरिकबहुमतिः 'लेज्यन् आफ् ओणर्', पद्मविभूषण्, वङ्गविभूषण् इत्यादिभिः बहुभिः पुरस्कारैः विभूषित आसीदयं वरिष्ठाभिनेता।

Monday, November 16, 2020

 बिहारे नितीशकुमारस्य नेतृत्वे नूतनसर्वकारस्य शपथसमारोहः अद्य। 

   


पट्ना> बिहारराज्ये जे डि यू राजनैतिकदलस्य नेतुः नितीशकुमारस्य नेतृत्वे एन् डि ए सख्यमन्त्रिमण्डलम् अद्य सायं शपथं करिष्यति। सार्धचतुर्वादने राजभवने सम्पत्स्यमाने कार्यक्रमे राज्यपालः फगु चौहानः शपथवचनं कारयिष्यति। 

   अनुस्यूततया चतुर्थवारमेव नितीशकुमारः मुख्यमन्त्रिपदं प्राप्नोति। सर्वकाररूपीकरणाय यत् न्यूनातिन्यूनम् अङ्गबलमपेक्षितं तदतिरिच्य त्रीणि स्थानान्येव एन् डि ए सख्येन प्राप्तानि। भाजपा दलात् तर् किषोरप्रसादः उपमुख्यमन्त्री भविष्यतीति कल्प्यते।

 मणिप्पुरमुख्यमन्त्री कोविड्बाधितः। 

   नवदिल्ली> मणिप्पुरराज्ये मुख्यमन्त्री एन् बिरेन् सिंहः कोविड्बाधितः अभवत्। गृहे एव निरीक्षणे वर्तमास्यास्य स्वास्थ्यस्थितिः शोभनः वर्तते। तथा च कोविड् बाधितः वरिष्ठः कोण्ग्रस् दलनेता अहम्मदपट्टेलः तीव्रपरिचरणविभागे प्रवेशितः।

 विश्वस्य बृहत्तमं वाणिज्यप्रतिज्ञापत्रम् हस्ताक्षरीकृतम्। 

चीनः १५ एष्यापसफिक् राष्ट्राणि च सहकारिणः।

 


  बेय्जिङ्> चीनेन सह १५ एष्यापसफिक् राष्ट्राणि च मिलित्वा वाणिज्यप्रतिज्ञापत्रे हस्ताक्षरं कृतम्।  विश्वस्य बृहत्तमं स्वतन्त्र-वाणिज्य-प्रतिज्ञापत्रम् (आर्. सि. ई. पि) भवति इदम्। चीनस्य दशवर्षाणां प्रयत्नः एव इदानीं सफलीकृतः। २०१२ तमे असियान् शिखरसम्मेलनस्य अन्ते आसीत् हस्ताक्षरीकरणम्। भारतं सन्धीतः प्रतिनिवृत्तः अभवत्।  विगतानि अष्टवर्षाणियावत् प्रचालिते सूक्ष्मातिसूक्ष्म चर्चायाः अन्ते सन्धिः इदानीं सफलता प्राप्ता इत्यनेन वयं सन्तुष्टाः इति वियट्नामस्य प्रधानमन्त्री गुयिन् सुवान् फुक् इत्याख्यः अवदत्। जापानतः ओस्त्रेलिय- न्यूसिलान्ट् पर्यन्तं विद्यमानानां राष्ट्राणाम् अर्थिकसमन्वयः अनेन लक्षीक्रियते।

Sunday, November 15, 2020

 सैबर् सुरक्षाम् उपस्थापयतुं नूतननियमः ।

   नवदिल्ली> व्याजसङ्केतम् उपयुज्य कियमाणं चौरादिकं रोद्धुं अन्तर्जालीयार्थिकचौर्यं निवारयितुं सुरक्षित-व्यवस्थायुक्तः सैबरसुरक्षा नियमनिर्माणं केन्द्रसर्वकारेण पर्यालोच्यते। एतदर्थम् राष्ट्रिय-सैबर् सेक्यूरिट्टी को-ओर्डिनेर्स् कार्यालयः कर्मपथे नियुक्तः अस्ति। डिसम्बर् मासे एव नयरूपरेखां प्रकाशयिष्यते।


 बैडनः ३०६ ; ट्रम्पः २३२। प्रप्रथमं शासनपरिवर्तनं सूचयन् ट्रम्पः। 

   वाषिङ्टण्> अमेरिक्कायाः राष्ट्रपतिनिर्वाचने इतःपर्यन्तं पराभवमनङ्गीक्रियमाणात्  डोणाल्ड् ट्रम्पात् इदंप्रथमतया शासनपरिवर्तनस्य सूचना आगता। 'वैट् हौस्' स्थाने वार्ताहरान् प्रति भाषमाणे सन्दर्भे आसीत् ट्रम्पस्य ईदृशं प्रतिकरणम्। "वर्तमानः सर्वकारः सम्पूर्णपिधानं न करिष्यति। किन्तु शासनपरिवर्तने किं भविष्यतीति न जानामि" एतान्यासन् ट्रम्पस्य वचांसि। 

  जोर्जियस्थानि १६ इलक्टरल् मतेषु प्राप्तेषु  बैडनः स्वकीयमतानि ३०६ प्राप्तवान्। ट्रम्पस्य मतानि २३२ अभवन्।

Saturday, November 14, 2020

 पूर्ववृत्तम् अन्वतिष्टत्। अस्मिन् संवत्सरेऽपि भारत प्रधानमन्त्रिणः दीपावली सैनिकैः साकम्।

 


      नवदिल्ली> स्वस्य दीपावली स्वराष्ट्रस्य सैनिकैः सह आघुष्टवान् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। प्रधानमन्त्रिपदं स्वीकृत्यानन्तरं प्रतिसंवत्सरम् दीपवली पर्वणि सैनिकेभ्यः सह आसीत् एषः। जय सालमिर् प्रदेशे सुंयुक्त सैनिकाध्यक्षः बिपिन् रावत्तः, स्थलसेनाध्यक्षः जनरल् मनोज मुकुन्द नारवाने, बि एस् एफ् सर्वाध्यक्षः राकेशःअस्थानः च प्रधानमन्त्रिणम् अनुगच्छन्तः आसन्। सैनिकानां त्यागस्य पुरतः राष्ट्रं नमस्करोति इति प्रधानमन्त्रिणा उक्तम्।

Friday, November 13, 2020

 कोरोणानन्तर-रोगावस्था प्रधानावयवेभ्यः गुरुतरा भीषा - स्वास्थ्यानुसन्धायिनः।

  अनन्तपुरी> कोरोणाबाधितेभ्यः कोरोणानन्तर-रोगावस्था दृश्यते। प्रधानावयवान् गुरुतररीत्या रोगाः बाधन्ते।  बाह्यलक्षणहीनाः कोरोणारोगग्रस्थाः बहवः सन्ति इति स्वास्थ्य विशारदैः अनुमीयते। तेषां बाह्य-लक्षणहीनत्वेन ते रोगिणः इति कोऽपि न जानन्ति। किन्तु कोरोणानन्तररोगाः तान् अपि बाधन्ते इति आवेद्यते।  अतः कोरोणानन्तर-रोगावस्था पालनाय सर्वत्र प्रदेशेषु विशेषातुरालयाः त्वरितप्रक्रमेण स्थापनीयाः इत्यस्ति तेषाम् अभिमतानि। रोगबाधिताः मासद्वयं यावत् जाग्रतया तिष्ठेयुः इत्यस्ति पूर्वसूचना।

 फिलिपैन्स् राष्ट्रस्य सुरक्षायै भारतस्य ब्रह्मास्त्रम्।

विश्वस्य प्रथम श्रेणीस्थानां राष्ट्राणां पट्टिकायां भारतं च।

   नवदिल्ली> भारतात् प्रथमतया ब्रह्मोस् अग्निसायकान् स्वायत्तीकृतं राष्ट्रं भविष्यति फिलिप्पैन्स्। आगामि संवत्सरे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी फिलिप्पैन्स् राष्ट्रपतिः रोड्रिगो डुट्टेर्टः च सन्धौ हस्ताक्षरं करिष्यतः। रष्य भारतं च संयुक्तरूपेण ब्रह्मोस् शस्त्रस्य निर्माणज्ञानं संगृहीतम्।   इदं शस्त्रं भवति फिलिपैन्स् राष्ट्रेण  गृह्यते। अनया भारतात् शस्त्राणि क्रीणीतानि प्रथमं पूर्वदक्षिणेष्यराष्ट्रं भवति फिलिप्पैन्स्।

Thursday, November 12, 2020

 बिहारनिर्वाचनं - अन्तिमफलम् एन् डि ए सख्याय अनुकूलम्। 

     पट्ना> बिहारराज्ये सम्पन्ने विधानसभानिर्वाचने भा ज पा दलेन नेतृत्वमाहवत् एन् डि ए सख्यम् अत्यन्तमाकाङ्क्षानिर्भरायां मतगणनायां शासनपदं प्राप।

Wednesday, November 11, 2020

 पांगोङ् सीमाप्रदेशे चीनभारतसेनयोः प्रतिनिवर्तनम् 

 नवदिल्ली>  पूर्वलडाक् प्रदेशस्थ-नियन्त्रण रेखातः सैनिकान्  प्रतिनिवर्तयितुं चीनभारतयोः मध्ये संयुक्तनिश्चयः अभवत्। द्वयोः राष्ट्रयोः सीमासङ्घर्षे न्यूनता अभवत्।  अस्मिन् सन्दर्भे एकसप्ताहाभ्यन्तरे  सैनिकानां  प्रतिनिवर्तनं भविष्यति।

Tuesday, November 10, 2020

 कोविड् प्रत्यौषधं ९०% फलप्रदम् - यू एस् संस्था

 पारिस्> कोविड् प्रत्यौषधं ९०% फलप्रदम् इति यू एस् राष्ट्रे विद्यमानया फारिस् नाम औषधनिर्माण संस्थया उक्तम्। जर्मनीय बयेण्टेक् औषध-निर्माण-संस्थायाः  साह्येन आसीत् औषधनिर्माणम्। तृतीयश्रेणीपरीक्षणे एव औषधस्य फलप्राप्तिः प्रत्यभिज्ञाता इति ए एफ् पि वार्ता संस्थया आवेद्यते। मात्राद्वयस्य कृते अनुमत्यर्थं यू एस् औषधनियन्त्रणाधिकारिणां पुरतः आवेदनं निवेदितम् इति न्यूयोर्क् टैंस् पत्रिकया आवेदितमस्ति। 

Monday, November 9, 2020

 बैडनाय विश्वनेतॄणामाशंसाः ; अमेरिक्कस्य एकतां विभावयन् बैडनः। 

    वाषिङ्टण् > अमेरिक्कस्य नियुक्तराष्ट्रपतये जो बैडनाय विश्वनेतारः शुभकामनाः समर्पितवन्तः। आगोलप्रकरणेषु धार्मिकमूल्यानि लोकहितं च अग्रे संस्थाप्य प्रश्नपरिहाराय प्रयतितुं बैडनः प्रभवतु इति सन्देशेषु प्रशंसितश्च। 

  भारतस्य राष्ट्रपतिः रामनाथकोविन्दः, उपराष्ट्रपतिः एम् वेङ्कय्या नायिडुः, प्रधानमन्त्री नरेन्द्रमोदी च बैडनस्य कर्मकुशलतां लोकहितदर्शनं च प्रकीर्तितवन्तः। 

  पर्यावरणव्यतियानं,सुरक्षा , वाणिज्यमित्यादिविषयेषु सहवर्तित्वेन प्रवर्तनमिच्छन् ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः बैडनाय आशंसां प्रकाशितवान्। इरानराष्ट्रस्य राष्ट्रपतिः हस्सन् रूहानी स्वस्य आशंसासन्देशे , अमेरिक्कायाः आणवसन्धिं प्रत्यागन्तुमवसरः इति प्रतीक्षां प्रकाशितवान्। 

  फान्स् राष्ट्रपतिः इम्मानुवल् मक्रोणः , न्यूसिलान्टस्य प्रधानमन्त्रिणी जसीन्दा आर्डेणः इत्यादयः बहवः लोकनेतारः बैडनाय शुभाशंसाः समार्पयन्। 

  तथा नियुक्तराष्ट्रुतिः जो बैडनः अमेरिक्कायां राज्यानाम् एकतामिच्छन् राष्ट्रं प्रति अभिसम्बुद्धिं कृतवान्। शत्रुतामीर्ष्यां च त्यक्त्वा राष्ट्रसमुन्नतये अग्रे गच्छामः इति डेलवेयरनामके स्थाने आयोजिते विजयाह्लादकार्यक्रमे सः प्रख्यापितवान्। नियुक्तेन प्रथममहिलोपराष्ट्रपतिना कमला हारिसेन सहैव बैडनः वेदिकां प्राप्तः।

  ९० होरायाः प्रयत्नं निष्फलम् - ५ वयस्क: नालीकूपे पतित्वा मृतवान्।

 भोपालः> चतुर्भ्यः दिनेभ्यः पूर्वं मध्यप्रदेशस्य निवारि जनपदे नालीकूपे पतितः पञ्चवयस्कः बालकः मृतवान् । अधः २०० पादमितः  आसीत् कूपः। ९० होरा-पर्यन्तं बालकस्य रक्षायै प्रयत्नं कृतम्। किन्तु प्रयत्नः विफलः अभवत्। कृषकस्य हरिकिषन् कुश्वाह इत्यस्य पुत्रः भवति प्रह्लादो नामकः अयं बालकः।

Sunday, November 8, 2020

 जो बैडन् अमेरिक्कस्य राष्ट्रपतिपदं प्राप्तवान्  

     वाषिङ्टण्> अमेरिक्कस्य राष्ट्रपतिनिर्वाचने डेमोक्राट्टिक् दलस्य स्थानाशी जोबैडनः विजयं प्राप्तवान्। अमेरिकस्य ४६ तमः राष्ट्रपतिः भवति एषः। रिप्पब्लिक्कदलस्य स्थानाशिनं  राष्ट्रपतिस्थानिनं डोणाल्ड् ट्रम्पं विजित्य भवति अस्य राष्ट्रपति-स्थानप्राप्तिः। उपराष्ट्रपतिस्थाने भारतवंशजा कमला हारिसः भविष्यति।

 कोविड् प्रत्यौषधाय सामान्यजनाः २०२२ पर्यन्तं प्रतीक्षा करणीया - एयिम्स् (AIMS) निर्देशक:

     नवदिल्ली> कोविड् प्रत्यौषधस्य उपलब्धये सामान्यजनाः २०२२ पर्यन्तं प्रतीक्षा करणीया इति एयिम्स् (AIMS) निर्देशकेन रणदीपगुलेरिय वर्येण उक्तम्। एकं कोविड् प्रत्यौषधं भारतराष्ट्रस्य विपण्याम् उपलब्धुम् एकसंवत्सरात् अधिकं कालम् आवश्यकम् इति च तेन उक्तम्। वाक्सिन् औषधेन कोविडं पूर्णतया मार्जयितुं न शक्यते इति तेन अभिप्रेतम्। सि एन् एन् न्यूस् १८ इत्यस्य प्रस्तुतौ असीत् तस्य अभिमतप्रकाशनम्।

 केरले प्रादेशिकनिर्वाचनं प्रख्यापितम्। 

व्यवहारनियमाः उपस्थापिताः। 

  अनन्तपुरी>  मासैकस्य कालान्तरेण केरलराज्ये त्रिस्तरग्रामस्वराजनिर्वाचनस्य काहलः उद्घुष्टः। डिसम्बरमासस्य ८ , १० , १४ दिनाङ्केषु चरणत्रयैः निर्वाचनानि विधास्यन्ति। मतगणना १६ तमे भविष्यति। कोविड् नियन्त्रणदिशासूचकान् परिपाल्य एव निर्वाचनप्रक्रियाः सम्पत्स्यन्ते। 

  राज्यस्य निर्वाचनायोगेन वि भास्करेण गतदिने निर्वाचनप्रक्रियायाः मार्गनिर्देशाः पदक्षेपाश्च प्रख्यापिताः। 

  आगामिनिसंवत्सरे सम्पद्यमानस्य विधानसभानिर्वाचनस्य निकषोपल इतीदं निर्वाचनं परिगण्यते।

Saturday, November 7, 2020

 यू एस् राष्ट्रपतिनिर्वाचनं - बैडनः प्रथमस्थाने। 

   वाषिङ्टण्> अमेरिक्कायां राष्ट्रपतिनिर्वाचनस्य मतगणनाप्रक्रिया इदानीमपि अनुवर्तते। 'डमोक्राटिक्पार्टी' दलस्य स्थानाशी जो बैडनः वर्तमानराष्ट्रपतेः डोणाल्ड् ट्रम्पात् अग्रे तिष्ठतीति स्पष्टीकृतम्। राष्ट्रपतिपदं लब्धुं २७० 'इलक्टरल् स्थानेषु अपेक्षितेषु बैडनः २६४ स्थानानि लब्धवान्। ट्रम्पेन  २१४ स्थानानि लब्धानि। 

  मतगणनामनुवर्तमानेषु ६ राज्येषु चतुर्षु बैडनस्य अग्रत्वं स्पष्टीकृतम्। आधिकारिकतया उद्घोषणार्थं विलम्बः भविष्यतीति सूच्यते।

 बिहारनिर्वाचनस्य अन्तिमचरणम् अद्य। 

   पटना> बिहारे विधानसभानिर्वाचनस्य तृतीये अन्तिमे च चरणे १५ जनपदेषु ७८ विधानसभास्थानेषु अद्य मतदानं भविष्यति। सीमाञ्चलप्रविश्यायाः जनहितं सर्वेषां राजनैतिकसंघानां कृते प्राधान्यमर्हति। 

  १२०४ स्थानाशिनः अन्तिमे चरणे जनहितं कांक्षन्ति। सोष्यलिस्ट् नेता शरदयादवस्य पुत्री सुहासिनी यादवः, वर्तमानमन्त्रिमण्डले विद्यमानाः अष्ट मन्त्रिणश्च अद्यतनीयनिर्वाचने जनविधिं प्रतीक्ष्यमाणेषु प्रधानिनः भवन्ति। मतगणनमितःपरं दशमदिनाङ्के विधास्यति।

Friday, November 6, 2020

 'राष्ट्रपतिः अनृतं वदति'

ट्रम्पस्य सततप्रसारणम्  अर्थावस्थायां स्थगायितम्।


वाषिङ्टण्> दोषप्रवक्तता यदि वा भवतु राष्ट्रपतिः, वार्तामेलनस्य सततप्रसारणं न करिष्ये इति अमेरिक्कस्य   वार्तामाध्यमैः निश्चितम्। जनाभिलाषः जननिर्णयः च  आशङ्क्य ट्रम्पः वार्तामेलने भाषमाणः आसीत्। तस्मिन् समये वार्ताप्रसारकवाहिनीभ्यः  अर्धावस्थायां स्थगायितम्। गुरुवासरे सायंकाले आसीत् इयं घटना। निर्वाचनानन्तरं ट्रम्पस्य प्रथमवार्तामेलन-भाषणमासीत् इदम्।  अ अवस्तुभूतानि ट्रम्पेन उच्चते इत्युक्त्वा आसीत् टी वी प्रसारणस्य स्थगनम्  । 
अर्धावस्थायां स्थगायितम्। 

 कोविड्रोगः हृदयं क्लमयति। मुक्तैः कठिनकर्माणि न करणीयानि। 

   अनन्तपुरी>  कोविड्मुक्तैः मासत्रयं यावत् आयासपूर्णानि कर्माणि कठिनव्यामाश्च न करणीयानीति जाग्रतासूचना। हृदयसम्बन्धरोगैः पीडितैः अस्मिन् विषये श्रद्धा दातव्या इति केरलसर्वकारस्य  कोविडनन्तरचिकित्सामार्गरेखायां निर्दिश्यते। 

  कायिकतारैः कठिनव्यायामाः षण्मासपर्यन्तं त्याज्याः। कोरोणाविषाणुबाधितेषु  तदभावभूतेषु अपि विषाणोराघातः उच्चतरः वर्तते इति स्वस्थ्यविदग्धैरभिप्रेतम्।

 आन्ध्रप्रदेशे विद्यालयोद्घाटनस्य पश्चात् २६२ छात्रेभ्यः १६० अध्यापकेभ्यः च कोविड् रोगबाधा। 


 हैदराबाद्> आन्ध्रप्रदेशे विद्यालयोद्घाटनस्य दिनत्रयानन्तरं २६२ छात्रेभ्यः १६० अध्यापकेभ्यः च कोविड् रोगबाधा आवेद्यते। रोगाणुव्यापनेन मार्च् मासे  पिधानीकृताः सर्वकारीयविद्यालयाः कलाशालाः च नवम्बर् मासस्य द्वितीयदिनाङ्कात् एव उद्घाटिताः। नवम-दशमकक्ष्यायाः छात्रेभ्यः इदानीमेव कक्ष्या समारब्धा आसीत्। किन्तु भीतिदा अवस्था राज्ये नास्ति इति सर्वकारेण उक्तम्। कोविड्काल-जाग्रता-निर्देशान् पालयन्ति इति निश्चित्य प्रमाणीकरणाय सर्वे श्रद्धालवः भवन्तु इति शिक्षाविभागाध्यक्षेण चिन्नवीरभद्रडुना उक्तम्।