OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 30, 2020


ऐक्यराष्ट्रसभायां भारतस्य स्थिरप्रतिनिधिरूपेण टि एस् तिरुमूर्तिः नियमितः।

   नवदहली > ऐक्यराष्ट्रसभायां भारतस्य स्थिरप्रतिनिधिरूपेण टि एस् तिरुमूर्तिः नियमितः। सयीद्‌ अक्बरुदीनस्य स्थाने एव तिरुमूर्तेः नियमनं वर्तते। सार्वलौकिकमण्डले विविधेषु विषयेषु भारतस्य शब्दः भवति सयीद्‌ अक्बरुदीन्।  सः अचिरादेव स्वस्थानात् विरम्यते।  १९८५ वर्षस्य ऐ एफ् एस् गणे उद्योगस्थः भवति टि एस् तिरुमूर्तिः।अधुना भारतस्य विदेशकार्यमन्त्रालये कार्यदर्शी भवति टि एस् तिरुमूर्तिः।
भारते कोविड्मरणानि सहस्रमतीतानि। 
नवदिल्ली >  राष्ट्रे कोविड्बाधया मृतानां संख्या १००८ अभवदिति स्वास्थ्यमन्त्रालयेन निगदितम्। गतदिने ७१ रोगिणः मृताः। प्रप्रथममेव एकेनैव दिनेन एतावन्ति मरणानि भूतानि। ३१,७८७ जनाः रोगबाधिताः अभवन्। इतःपर्यन्तं ७,७९६ जनाः रोगमुक्ताः जाताः। 
  भारते महाराष्ट्रं कोविड्विषये अत्यधिकां दुर्दशामावहति। तत्र कोविड्बाधितानां संख्या नवसहस्रमतीता। गुजरात् , दिल्ली राज्यद्वयमपि महाराष्ट्रमनुगच्छति। त्रिसहस्राधिकाः जनाः प्रत्येकस्मिन् राज्ये रुग्णाः सन्ति।
यु ए इ प्रार्थना भारतसर्वकारेण अङ्गीकृता - अचिरादेव वैद्यसङ्घं प्रेषयिष्यति।
    नवदहली > कोविड्१९ व्यापनवेलायामस्यां भारतेन आवश्यकः वैद्यसङ्‌घः प्रेषणीयः इति यु ए इ अधिकृतानां प्रार्थना भारतसर्वकारेण अङ्गीकृता। एतद्विषये गतसोमवासरे एव यु ए इ अधिकृतैः अभ्यर्थिता। भारतेन कुवैत् राष्ट्रं प्रति १५ अङ्‌गपरिमितः सैनिकवैद्यसङ्घः प्रेषितः आसीत्। अधुना विदेशराष्ट्राणि प्रति सेवनमण्डलात् विरमितानां सैनिकवैद्यानां प्रेषणमेव केन्द्रसर्वकारेण उद्दिश्यते। भारते प्रतिवर्षं सैनिकमण्डलात् शताधिकाः वैद्याः चत्वारिंशदधिकाः आतुरसेवकाः च विरम्यन्ते। एतेषां प्रेषणमेव केन्द्रसर्वकारेण प्रमुखतया क्रियते। विविधेभ्यः गल्फ् राष्ट्रेभ्यः वैद्यसम्बन्‍धं साहाय्यम् अभ्यर्थ्य निवेदनानि विदेशकार्यमन्त्रालये लब्धानि वर्तन्ते। एतदुपरि उचितः निर्णयः स्वीकरिष्यतीति मन्त्रालयेन सूचितं च। अधुना हैड्रोक्सिक्लोरोक्विन् औषधानि विविधाः औषधनिर्माणसामग्र्यः च भारतेन विदेशराष्ट्राणि प्रति प्रेष्यन्ते च।

Wednesday, April 29, 2020

ब्रिट्टने यूएस् राष्ट्रे च कोविड् अनियन्त्रणरीत्या।
फ्रान्स् स्वीडन् राष्ट्रयोः आश्वासप्रक्रमाः।
आविश्वं कोविड्बाधिताः ३१लक्षं ; मरणानि लक्षद्वयाधिकानि। 
  > लोके बहुषु इतरराष्ट्रेषु यद्यपि  कोविड्रोगः नियन्त्रणविधेयः अभवत्तथापि ब्रिट्टने यू एस् राष्ट्रे च रोगव्यापनम् अनियन्त्रणरीत्या अनुवर्तते। लोके विद्यमानेषु रोगिषु ⅓अंशः अपि अमेरिक्कायामेव वर्तते। इतःपर्यन्तं तत्र ५७,०४९ जनाः मृत्युमुपगताः। रोगबाधितास्तु दशलक्षाधिकाः अभवन्। 
  ब्रिट्टने तु मरणमानं तीव्रमुद्गच्छति। इतःपर्यन्तं २१,००० परं जनाः मृताः। गतसप्ताहेन मृत्युसंख्या द्विगुणितमभवत्। शताधिकाः स्वास्थ्यप्रवर्तका अपि मृत्युमुपगताः। 
  किन्तु फ्रान्स् स्वीडन् इत्यस्मिन् राष्ट्रद्वये मृत्युमानं न्यूनीकरोति इत्यतः तत्र आश्वासप्रक्रमान्  प्रख्यापितुम् उद्दिश्यते। आस्ट्रेलिया राष्ट्रे नियन्त्रणानि अंशतया निराकृतानि।
व्यङ्ग्यचित्रम्। 
-देविदासः देशपाण्डे

पृथक् विमानं प्रेषयामः, साहाय्यम् आवश्यकम् - भारतं प्रति यु ए ई प्रार्थना।
    नवदहली> कोविड् प्रतिरोधप्रवर्तनेभ्यः भारतस्य साहाय्यम्‌ अभ्यर्थ्य यु ए ई। कोविड्रोगीणां परिचरणाय भारतात् वैद्यान् आतुरसेविकाः च प्रेष्य साहाय्यं करणीयम् इत्येव यु ए इ अधिकृतानाम् अभ्यर्थना। यु ए इ मध्ये आतुरालयेषु प्रायः भारतीयाः एव सेवनं कुर्वन्तः वर्तन्ते। किन्तु, तेषु केचन विरामवेलायां भारतमागत्य सम्पूर्णपिधानकारणात् प्रतिगन्तुम् अशक्ताः च भवन्ति। एतेषां सेवां लब्धुं विशेषविमानमपि वयं प्रेषयामः इति अबुदाबि अधिकृतैः विदेशमन्त्रालयं प्रति सूचितम्। एतद्विषये चर्चा क्रियमाणा वर्तते, अचिरादेव उचितः निर्णयः स्वीक्रियते इति च विदेशमन्त्रालयाधिकारिभिः उक्तम्।

Tuesday, April 28, 2020

पिधानकारणात् विदेशराष्ट्रेभ्यः भारतम् प्रत्यागन्तुम् अशक्तेभ्यः साहाय्यं दीयते - भारतसर्वकारः।
   नवदहली > भारते तथा विदेशेषु च सम्पूर्णपिधानात् क्लेशमनुभवतां भारतीयानां प्रत्यागमनविषये केन्द्रसर्वकारेण पर्यालोच्यते। भारते सम्पूर्णपिधानस्य प्रतिनिवर्तनात्परम् एतेषां प्रत्यागमनाय उचितः निर्णयः स्वीक्रियतेति सूचना। एतदर्थं विविधमन्त्रालयाधिकारिभिः सह प्रधानमन्त्रिणा नरेन्द्रमोदिना चर्चा कृता। प्रत्यागमनात्परम् एतेषां सम्पर्कनिरोधावासादीनां विषये अवलोकनं समर्पयितुं विविधेभ्यः राज्यस्तरीयाधिकारिभ्यः केन्द्रसर्वकारेण निर्देशः दत्तः वर्तते। एतदर्थं विदेशकार्यमन्त्रालयेन आविष्कृता रूपरेखा केन्द्रमन्त्रिसभायाः कार्यदर्शिनः राजीव् गौब महोदयस्य आध्यक्षे उन्नतसमित्या अवलोकिता। विदेशेषु वर्तमानानां भारतीयानां संख्या, भारते तेषां राज्यानि, प्रत्यागमनाय आवश्यकानां विमानानां संख्या इत्येते अंशाः समित्‍या पर्यालोचिता च ।
उच्चतरन्यायालयीयकर्मकरस्य कोविड्१९ रोगः स्थितीकृतः।
 
  नवदहली> उच्चतरन्यायालयीयकर्मकरस्य कोविड्१९ रोगः स्थितीकृतः। तेन गतसप्ताहे वारद्वयं यावत् उच्चतरन्यायालयः सन्दर्शितः वर्तते। अस्य जनसम्पर्कपट्टिका अधिकृतैः क्रियमाणा वर्तते। कर्मकरस्य कोविड्१९ स्थितीकरणात्परं उच्चतरन्यायालयस्य द्वयोः लेखाधिकारिणोः गृहे निरीक्षणे भवितुं निर्देशः दत्तः वर्तते च।

Monday, April 27, 2020

प्रधानमन्त्रिणो नरेन्द्रमोदिनो मन की बात कार्यक्रमः
-पुरुषोत्तमशर्मा नवदेहली
    मन की बात / श्रीमोदी प्रावोचत् यत्  - कोरोना-विषाणुं विरुध्य जनसामान्यं सङ्घर्षरतं वर्तते,अस्मिन् सङ्घर्षे समेषां योगदीनमस्ति, आत्मविश्वासाधिक्यं नैव पालयन्तु यदयं सङ्क्रमणः अस्मान् पुरतः नैवागमिष्यतीति 

प्रधानन्त्री नरेन्द्रमोदी ऐषमः चतुर्थे मन सी बात कार्यक्रमे जनान् सम्बोधयत्। प्रोक्तं च कोरोना संङ्घर्षो नैवास्ति दुर्बलः, अग्निः ऋणं रोगश्च कदापि पुनरुद्भवितुं शक्नुवन्ति, अत अस्माभिः सदैव जागरूकैः भाव्यम् ’ सममेवोक्तं यत् स्वयं व्यवहारं परिवर्तनीयं बहिर्गमनसमये मुखावेष्टं स्वीकरणीयम्, कुत्रापि निष्ठीवनं नैव कर्तव्यम्।

प्रधानमन्त्री नरेन्द्रमोदी अकथयदहं त्रिंशदुत्तरैकशतकोटि-देशवासिभ्यः सादरं नमामि। प्रशासनेन https://covidwarriors.gov.in/ इति अन्तर्जालपुटकमि निर्मितम्। अनेन जनाः परस्परं सम्पृक्ताः। इदानीं यावत् सपादकोटिजनाः अस्योपयोगं कृतवन्तः। चिकित्सकाः स्वास्थ्यकर्मिणः आशाकार्यकर्त्र्यः परिचायिकाश्च परस्परं सम्पृक्ताः वर्तन्ते। एते भावियोजनानिर्माणाय अपि साहाय्यं कुर्वन्ति।
पिधानदीर्घीकरणम् अपेक्षितमिति ६ राज्यानि। 
मुख्यमन्त्रिभिः सह प्रधानमन्त्रिणः 'वीडियोसम्मेलनम्' अद्य। 
नवदिल्ली >  कोविड् - १९ रोगस्य व्यापनं रूक्षतया अनुवर्तते इत्यतः पिधानमपि अनुवर्तनीयमिति ६ राज्यैः अपेक्षितम्। दिल्ली, महाराष्ट्रं, पश्चिमवंगः, पञ्चाबः, मध्यप्रदेशः, ओडीषा इत्येतानि राज्यानि केन्द्रसर्वकारम् अभ्यर्थयन्। तेलुङ्कानेन तु पिधानं मेय् सप्तमदिनाङ्कपर्यन्तं दीर्घीकृतम्। इदानीं मेय् ३तममेव पिधानमुद्घुष्टम्। 
  तथा अद्य प्रधानमन्त्री नरेन्द्रमोदी मुख्यमन्त्रिभिः साकं वीडियोद्वारा सम्मेलनमायोजितवान् अस्ति। तदा अमुं विषयं चर्चिष्यति। स्वदेशं प्रत्यागमनेच्छुनां प्रवासिनां निवेदने अपि निर्णयः भविष्यतीति प्रतीक्षते।

Sunday, April 26, 2020


विषाणुव्यापनं  येषु राष्ट्रेषु अनियन्त्रितया अनुवर्तते तेषु राष्ट्रेषु उपयोगाय श्वसनसहायीनि यन्त्राणि प्रदास्यन्ति - ट्रम्पः।
  वाषिङ्टण्> कोरोणा विषाणुव्यापनम्  अनियन्त्रितया अनुवर्तमाने सन्द्रर्भेऽपि अन्यस्मै सौलभ्यं प्रकटीकरोति अमेरिक्कस्य राष्ट्रपतिः डोणाल्ड् ट्रम्पः।   येषु राष्ट्रेषु अनियन्त्रितया नोवल् कोरोणा विषाणु व्यापनम् (कोविड्१९) अनुवर्तते, तेभ्यः राष्ट्रेभ्यः  श्वसनयन्त्राणि प्रदास्यन्ति इति ट्रम्पः अवदत्। इदानीं  स्वस्य राष्ट्रे अधिकतया यन्त्राणि सन्ति इति  ट्रम्पः अवदत्। मेक्सिको, होण्डूरास्, फ्रान्स्, इट्टली, इन्दोनेष्य, स्पेयिन्, आदि राष्ट्रेभ्यः श्वसनसहायीनि यन्त्राणि प्रदास्यन्ति इति ट्रम्पः उक्तवान्।
‘मनोगतम्’ [०२.११] ‘मन की बात’ प्रसारण-तिथि: - २६-एप्रिल, २०२०         
[भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-पुरुषोत्तम-शर्मभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]           


            मम प्रियाः देशवासिनः, नमस्कारः | भवन्तः सर्वे lockdown-इति सञ्चाररोधे ‘मन की बात’-‘मनोगतं’ शृण्वन्ति | अस्य ‘मनोगत’-स्य कृते सम्प्राप्यमाणा परामर्श-दूरभाषाकारणानां संख्या, सामान्यतः अनेकधा अधिकास्ति | अनेकान् विषयान् स्वस्मिन् समाकलय्य, भवतामिदं ‘मनोगतम्’, मम पार्श्वे, आगतम्  | मया प्रयतितं, यदहं एतान् विषयान् अधिकाधिकान् पठेयम्, शृणुयाम् च | भवतां वृत्तेभ्यः अनेके तादृशाः पक्षाः अवगताः, ये नाम दुष्करेsस्मिन् सङ्घर्षमये काले, सरलतया अवधातुं नैव शक्यन्ते | नूनं समीहे, यत्  सङ्घर्षमयेsस्मिन् काले, प्रसार्यमाणे ‘मनोगते’, तान् एव काँचन् पक्षान्, भवद्भ्यः देशवासिभ्यः सम्विभाजयेयम्|
        सखायः, कोरोना-विरोधि भारतीयं युद्धं वस्तुतस्तु people driven- इति जन-सञ्चालितमस्ति | भारते कोरोना-विरोधि युद्धं जनाः सञ्चालयन्ति, भवन्तः प्रवर्तयन्ति, जनैः सम्भूय शासनम्, प्रशासनञ्च सञ्चालयतः | भारत-सदृशः विशालोsयं देशः, यो हि विकासार्थं सततं प्रयतते, निर्धनतां विरुद्ध्य निर्णायक-सङ्घ

Saturday, April 25, 2020

आगामिनि अध्ययनवर्षे विद्यालयेषु मुखावरणम् अवश्यं धार्यम्।
तृश्शूर् >  कोविड् व्यापनस्य परिसमाप्तिः यदि भविष्यति वा न वा, आगामिनि अध्ययनसंवत्सरे केरलस्य विद्यालयेषु छात्रैः अध्यापकैश्च मुखावरणम् अवश्यं धार्यमिति सर्वकारस्य स्वास्थ्यविभागेन आदिष्टम्। मेय् ३० तः पूर्वं केरलस्य  सार्वजनीनविद्यालयेषु ५०लक्षं परिमितानां छात्राणां तत्रत्यानां शिक्षकाणां च कृते  निःशुल्कतया मुखावरणं निर्मीय दातुं 'समग्र शिक्षा केरलं' नामिकां संस्थां निरदिशत्। तदर्थः व्ययः छात्राणां गणवेषनिधेः स्वीकर्तुम् अनुमतिः लब्धा।

Friday, April 24, 2020

सम्पूर्णपिधानम् - उत्तरभारते वायुमलिनीकरणस्य अनुपातः न्यूनत्वं प्राप्तः।
 नवदहली> भारते कोविड्१९ प्रतिरोधाय सम्पूर्णपिधानं मेय् मासस्य ३ दिनाङ्कपर्यन्तं परिवर्तितमासीत्।  एकमासात्मककालस्य सम्पूर्णपिधानस्य अवलोकनवेलायां कोविड्१९ व्यापननस्य प्रतिरोधेन सह प्रकृतेः संरक्षणकार्यमपि साधितं वर्तते। अनेन एकमासात्मककालेन उत्तरभारते वायुमलिनीकरणस्य अनुपातः गतविंशतिवर्षापेक्षया न्यूनत्‍वं जातः इति अमेरिक्कस्य बहिराकाशपठनकेन्द्रेण नासेन प्रस्तावितम्। सम्पूर्णपिधानं राष्ट्रस्य विविधप्रदेशेषु अन्तरीक्षमलिनीकरणस्य अनुपातं न्यूनीकर्तुम् अत्यन्तम् उपकारकम् अभवदिति नासकेन्द्रस्य वैज्ञानिकेन पवन् गुप्तेन अभिप्रेतम्। पिधानकारणतया मार्गेषु वाहनानां न्यूनत्वं तथा व्यावसायिकशालानां प्रवर्तनराहित्यं च अन्तरीक्षमलिनीकरणं न्यूनीकर्तुं सहायकमभवत्।
जम्मु काश्मीरे ४ भीकराः निहताः। 
श्रीनगरं > जम्मु काश्मीरस्य षोपियानजनपदे गतदिने सुरक्षासेनया सह प्रतिद्वन्द्वे चत्वारः भीकराः हताः। 
  मेल्होरा प्रविश्यायां भीकराणां सान्निध्यं वर्ततेति सूचनानुसारं सुरक्षासेनया आरक्षकैः च कुजवासरे एव अन्वेषणमारब्धमासीत्। निलीनाः भीकराः कार्यसंघं विरुध्य नालिकाशस्त्रं प्रयुक्तवन्तः। तदनन्तरं सम्पन्ने प्रतिद्वन्द्वे भीकराः व्यापादिताः। मृतभीकराणां प्रत्यभिज्ञानप्रक्रिया अारब्धा।
कोविडीयकालस्य विद्यालयीयछात्राणां रचनाः
अक्षरवृक्षः प्रथमभागः  प्रकाशितः। 
'अक्षरवृक्षस्य' प्रकाशनं केरलस्य मुख्यमन्त्री पिणरायि विजयः सांस्कृतमन्त्रिणे जि. सुधाकराय ददन् निर्वहति।
अनन्तपुरी > कोविड्काले केरले सम्पूर्णपिधाने प्राप्ते विद्यालयीयछात्राः वृथा कालं नीतवन्तः नासन्। शिक्षाविभागस्य निर्देशं शिरसा वहन्तः तेषाम् अध्यापकानां प्रोत्साहने स्वकीयसर्गशक्तेः प्रकाशनाय प्रयतितवन्तः। कथा कविता लेखनरूपैः तेषां कोविड्कालचिन्ताः बहिरागताः। ताः डिजिटल् रूपेण स्वीकृतवत्यः विद्यालयस्थानां ऐ टि अध्यापकानां साह्येन 'स्कूल् विक्की' नामिकां डिजिटल् मासिक्यां निवेशिताः। 
  ताः रचनाः राज्यस्तरे क्रोडीकृत्य श्रेष्ठरचनाः निर्वाच्य केरलशैक्षिकविभागेन पुस्तकरूपेण प्रकाशिताः। कथा-कविता-लेखनविभागेषु त्रयः ग्रन्थाः प्रकाशिताः। तेषां प्रथमभागस्य प्रकाशनं मुख्यमन्त्री पिणरायि विजयः सांस्कृतिकमन्त्रिणे जि सुधाकराय समर्प्य कृतवान्। शिक्षामन्त्री प्रोफ. सि. रवीन्द्रनाथः, एस् ई आर् टि निदेशकः प्रोफ. प्रसादः इत्यादयः तस्मिन् कार्यक्रमे सन्निहिताः आसन्।

Wednesday, April 22, 2020

कोविड्१९ सान्निध्य निरीक्षणाय न्यूनमूल्येन भारतीयं संविधानम्।
    नवदहली> कोविड्१९ रोगस्य सान्निध्य-निरीक्षणम् अतिमूल्यवत् भवति।  एकस्य सान्निध्य-निरीक्षणाय प्रायः ४०००-४५०० रूप्यकाणि भवेयुः। रोगव्यापनस्य प्रथमदिनेषु शरीरे रोगाणोः सान्निध्यं परीक्षितुम् उपकरणानि विदेशेभ्यः स्वीक्रियमाणानि आसन्‌। तदनन्तरं  भारतेन परीक्षणोपकरणं विकसितम्। अधुना नूतनपठनानां साह्येन मूल्यस्य न्यूनीकरणेन च नवीनं संविधानं भारतीयगवेषकाभ्यां विकसितम्। सि एस् ऐ आर् विभागस्य देब्ज्योति चक्रवर्ति, सौविक् मौति चेति द्वाभ्यां जीवशास्त्रगवेषकाभ्यामेव उपकरणं विकसितं वर्तते। अनेन उपकरणेन एकखण्टाभ्यन्तरे अल्पेन व्ययेन शरीरे रोगाणोः सान्निध्यं सम्बन्ध्य निरीक्षणफलं ज्ञातुं शक्यते। प्रसिद्धस्य चलच्चित्रनिदेशकस्य सत्यजित् राय् महोदयस्य प्रमुखकथापात्रस्य 'फेलूद'स्य नाम्ना इदं नूतनं कोविड्१९ परीक्षणोपकरणं व्यवह्रियते। एतत्सम्बन्ध्य विशदीकरणं ऐ जि ऐ बि अध्यक्षेण अनुराग् अगर्वालेन कृतम्।
कोविड् १९- आविश्वं दुर्दशा आगम्यमाना वर्तते। 
यू एस् कृते अपि जाग्रतासूचना दत्तेति विश्वस्वास्थ्यसंघटनम्। 
जनीवा >  कोविड् महामारेः अतिदुष्टा दशा लोकैः अभिमुखीक्रियमाणा भवेदिति विश्वस्वास्थ्यसंघटनस्य [WHO] जाग्रतासूचना। "उच्यते यत् तद्विस्वसिहि ; आलोकं महती दुर्दशा आगम्यमाना भविष्यति।" जनीवस्थे 'हू'आस्थाने समायोजिते वार्ताहरसम्मेलने संघटनस्य निदेशकाध्यक्षः टेड्रोस् अथनोम् गब्रियेलः उक्तवान्। किन्तु प्रस्तावस्य विशदीकरणं तेन न कृतम्। संघटनस्य प्रवर्तनं सुतार्यमस्ति। विषाणुः अत्यन्तं विनाशकारी इत्यतः अस्मासु जायमाना मतभिन्नता अपि रोगनिर्व्यापने तस्य प्रतिरोधविषये च क्लिष्टतां जनयेत् - तेनोक्तम्। स्वास्थ्य, प्रतिरोधसंविधानेषु क्षीणविभवम् आफ्रिक्कामण्डलं विषाणोः आगामिप्रभवकेन्द्रमिति पूर्वमेव तेन सूचितमासीत्। 
  यू एस् कृते जाग्रतासूचना दत्ता। 
  चीनराष्ट्रे वुहाने कोरोणास्थिरीकरणस्य प्रथमदिनादारभ्य एव अमेरिक्कायै अपि जाग्रतासूचना दत्ता इति टेड्रोस् अथनेन उक्तम्। इतदधिकृत्य ट्रम्पेन उन्नीताः आरोपाः तेन निरस्ताः। अमेरिक्कातः किमपि वृत्तान्तं निलीतं कृतम्। 
  विषाणुव्यापननिरोधे प्रथमसोपाने स्वास्थ्यसंघटनस्य प्रवर्तने अलम्भावः जातः इति डोणाल्ड् ट्रम्पेन बहुवारमारोपितमासीत्।
जर्मनी देशः कोरोना-विषाणो: कारणात्  क्षतिपूर्तिं विधातुं चीनराष्ट्रं द्वादश लक्षषं कोटिरूप्यकाणां  देयकं प्रेषितवान्। 


  लण्टन् >  चीनराष्ट्रस्य वुहानात्  प्रसरितेन कोरोणा विषाणु-संक्रमणेन  चीनराष्ट्रं  विश्वस्य अनेकेषां देशानां निन्दां सम्मुखीकरोति। अमेरिकायाः यूरोपस्य च अनेकानि राष्ट्राणि चीनस्योपरि दोषारोपणं कृतवन्तः। जर्मनी देशेन चीनराष्ट्रं प्रति कोरोना-विषाणुना जायमानां हानिं पूरयितुं 130 अर्बुदम् पौंड (द्वादश लक्ष कोटिः रूप्यकाणि ) देयकं प्रेषितम्।  
   यूरोपस्य महाशक्ति - जर्मनी , फ्रांस , ब्रिटेन, अमेरिका च चीन राष्ट्रस्य सन्दिग्धभूमिकां  निन्दयन्ति। जर्मन देशस्य सर्वोत्तम "बिल्ड" इति वार्ता पत्रम् एकम् "invoice" मुद्रितम् अकरोत् । अस्मिन् पत्रे वर्ण्यते यत् चीनदेशस्य राजधान्याम्  "बीजिंग" नगरे बर्लिनस्य 130 अर्बुदम् पौंड (149 बिलियन यूरो) ऋणं विद्यते। जर्मनी देशे इतः पर्यन्तं संक्रमणस्य संख्या "त्रिचत्वारिंशदधिक-सप्तशतोत्तर-पञ्चचत्वारिंशत्सहस्राधिकैकलक्षं, सार्धचतुसहस्राधिकाश्च मृता: अभवन्।
भारताय प्रत्यर्पणं - विजयमल्यस्य याचिका निरस्ता। 
विजय मल्यः।
 लण्टन् >  भारतस्य विविधेभ्यः वित्तकोशेभ्यः ९०००कोटि रूप्यकाणां ऋणं स्वीकृत्य राष्ट्रात् पलायितः मद्यराजः विजय मल्यः पुनरपि ब्रिट्टीष् उच्चन्यायालयेन प्रहरितः। प्रकरणस्य उपधार्थं मल्यं भारतं प्रतिनिवर्तयितुं अधोनीतिपीठस्य आदेशं विरुध्य मल्येन समर्पिता याचिका उच्चनीतिपीठेन निरस्ता। अनेन मल्यं भारतमानेतुं 'सि बि ऐ , ई डि संस्थयोः प्रयत्नाः सफलप्रायाः वर्तन्ते। पुनः यू के सर्वोच्चन्यायालयः एव मल्यस्य एकमात्रं शरणस्थानम्। तदर्थं १४ दिनानां कालः अनुमोदितः। सर्वोच्चनीतिपीठस्यापि विधिरपि मल्याविरुद्धः तर्हि भारत-यु के आदानप्रदानसन्ध्यनुसारं २८ दिनाभ्यन्तरे मल्यं भारताय प्रत्यर्पयिष्यति।

Tuesday, April 21, 2020

पि.पि.ई.स्यूतः ददातु! ब्रिटीश् प्रधानमन्त्रिणः पुरतः प्रतिषेधं प्रकाशितवती ‌भारतीयवैद्या।
डा. विनोविन्
   लन्डन्> वय्यक्तिकानि सुरक्षा उपकरणानि अलब्धानि इति आरोपयित्वा ब्रिटीश् प्रधानमन्त्रिणः कार्यालयस्य पुरतः प्रतिषेधं प्रकाशितवती भारतीयवैद्या। षण्मासगर्भा डा.मीनल् विस् एवं कोविड् महाव्याधिंविरुद्ध्य प्रतिरोधप्रवर्तने निमग्ना भवति।
 राष्ट्रिय-स्वास्थ्य-सेवा-प्रवर्तने निमग्नानाम् उपयोगाय वय्यक्तिकानि सुरक्षा उपकरणानि न लभन्ते इति दोषारोपणेन सा प्रतिषेधं प्रकाशितवती। आतुरालय कर्मकराणां गणवेषं, मुखावरणं च धृत्वा 'स्वास्थ्यप्रवर्तकान् संरक्षयतु' इति आलेखितं स्फोरकफलकमपि स्वीकृत्य आसीत् तस्याःप्रतिषेधं। तुर्की देशात् वितरणे

Monday, April 20, 2020

इस्रायेलस्य प्रधानमन्त्रिणं नेतन्याहुं विरुद्ध्य २००० जनाः रथ्यायां मिलिताः।
 चित्रम् AFP
    टेल्अवीव्> कोरोण विषाणुव्यापन-काले बञ्चमिन् नेतन्याहु जनतन्त्र विधानम् अपाकरोति इत्युक्तवन्तः इस्रायेलस्य द्विसहस्राधिकाः नागरिकाः रथ्यायां प्रतिषेधमेलनं कृतवन्तः। सामूहिक असन्निकर्षं पालयन्तः तेषां प्रतिषेधः विश्वस्य श्रद्धाकेन्द्रः अभवत्I अलीक-व्यवहारात् रक्षां प्राप्तुं कोरोणाकालं नेतन्याहुना दुरुपयोगं करोति इति उक्त्वा आसीत् प्रतिषेधः। मुखावरणं धृतवन्तः षट्‌ पादमितान् दूरं परिपाल्यन्तः आसन् टेल् अवीव् नगरे  प्रतिषेधसङ्गमाय आगतवन्तः।
भारते कोविड् बाधिताः १६,००० अतीताः ; मरणानि ५००।
दिल्ल्यां नवजातशिशुः मृतः। 
महाराष्ट्रे स्वास्थ्यप्रवर्तकेषु रोगबाधा वर्धते। 
नवदिल्ली >  भारते कोविड्रोगबाधिताः १६,११६ वर्तन्ते। मृत्यमुपगतास्तु ५१९। ह्यः ३१ जनाः मृताः।
   महाराष्ट्रे एव अधिकानि मरणानि अभवन् - १२।  स्वास्थ्यप्रवर्तकेषु अपि रोगबाधा वर्धते इति आशङ्कां जनयति। नगरस्थेषु विविधेषु आतुरालयेषु उपत्रिंशत् वैद्याः २००अधिकाः अनुवैद्याः अपि कोविड्ग्रस्ताः वर्तन्ते। रोगग्रस्तासु अनुवैद्यासु १२० केरलीयाः सन्ति। 
  राष्ट्रराजधान्यां दिल्ल्यां रोगः अनियन्त्रितरीत्या व्याप्यते। प्रकटितलक्षणहीनेष्वपि विषाणुः स्थिरीक्रियते इत्यवस्था अस्ति। केवलं ४५ दिनवयस्कः नवजातः शिशुः अपि ह्यः कोविड्बाधया मृतः। भारते कोविडेन मृत्युं प्राप्नोतीति प्रथमः प्रकरणः भवत्येषः।
जपान् देशे तीव्रः भूकम्पः, भूकम्पमापिन्यां ६.९ इति सूचितं, सुनामि प्रत्यादेशः नास्ति।.
-डा‌‌.विनोविन्.वि.ए
    टोकियो> जपान् देशे अतिशक्तः भूकम्पः अभवत्। भूकम्पमापिन्यां ६.९ इति सूचितः भूकम्पः जपानस्य पूर्व तटे संस्थिते ओगसवार द्वीपे अभवत्। भूकम्पाधिष्ठताः विनाशाः न अभवत्। जपानस्य वातावरण-निरीक्षण-केन्द्रस्य निगमनमनुसृत्य भूकम्पस्य प्रभवकेन्द्रः उत्तरे २७.२ डिग्रि अक्षांशस्य पश्चिमे १४०.७ डीग्रि रेखांशस्य च मध्ये ४९० कि.मी. अन्तर्भागे आसीत्। प्रादेशिक-समयः सायं काले ४.२६ तः भूकम्पः अनुभूतः। द्वीपे आहत्य चत्वारः भूकम्पाः अभवन्। भूकम्पानुबन्धतया जाग्रता निर्देशमपि न दत्तम्।

Sunday, April 19, 2020

हिमाचले रोगविमुक्तः  पुनरपि कोविड् १९ रोगबाधितः अभवत्।
 षिंल>  कोविड् १९ रोगविमुक्तः  पुनरपि कोविड्  रोगबाधितः अभवत्। हिमाचलप्रदेशतः आवेद्यते इयं घटना।
कोविडस्य आगामी प्रभवकेन्द्रम् आफ्रिक्का स्यादिति विश्वस्वास्थ्यसंस्था।

जनीवा > कोविड् - १९ विषाणोः आगामी प्रभवकेन्द्रम् आफ्रिक्का स्यादिति विश्वस्वास्थ्यसंघटनस्य [WHO] पूर्वसूचना। गतसप्ताहे आफ्रिक्कयीयराष्ट्रेषु कोरोणाबाधितानां संख्या आशङ्कया वर्धते इत्यस्याधारेण एवेदं निगमनम्। 
  एतावत्पर्यन्तं १८,००० जनाः रोगबाधिताः, उपसहस्रं मृताश्चाभवन् । इदानीं तु रोगव्यापनं नगरप्रदेशान् विहाय ग्रामग्रामान्तरेषु प्राप्तम्।
  अवश्यानुसारं चिकित्साव्यवस्थायाः अभावः, प्रतिरोधप्रवर्तनाय धनसञ्चयस्य अपर्याप्तता च विषाणुव्यापनवर्धनस्य हेतुरिति ऐक्यराष्ट्रसभायाः 'इकणोमिक् कम्मीषन् फोर् आफ्रिक्का' नामिकया संस्थया सूच्यते। 
  महामारिं प्रतिरोधुं पर्याप्ताः प्रवातशय्याः  [Ventilator] आफ्रिक्कायां कस्मिन्नपि राष्ट्रे न सन्तीति 'हू' संस्थायाः आफ्रिक्कामण्डलस्य निदेशका  मात्षि डिसो मोय्ती नामिका उक्तवती।

Saturday, April 18, 2020

मृतानां सङ्ख्यायाम् अधिक योजनम् - चीनेन कृतं सर्वेऽपि कर्तव्यम् - विश्व स्वास्थ्य संस्था।
     जनीव> कोरोणा रोगाणुव्यापनं  यदा नियन्त्रणविधेयं भवति तदा सर्वाणि राष्ट्राणि चीनमिव कोविड् बाधया मृतानां गणनायाम्  अधिकयोजनं करिष्यति  इति विश्व-स्वास्थ्यसंस्थया विश्वासं प्राकटयत्।  कोविड् बाधया मृतानां सङ्ख्यायाम्  वुहान देशे  ५०% वर्धितम् आसीत्। विगते दिने गणनायाः समवलेकनं कृत्वा चीनेन  अधिकयोजनं कृतं च। किन्तु चीनस्य पदक्रमः संशयेन वीक्षयन्तः आसन् अन्ये राष्ट्राणि। एतेषां राष्ट्राणां संशयनिवारणाय विश्वस्वास्थ्य संस्थया चीनस्य अधिक-संख्यायोजनम् अनुकूल्य अभिमतं प्राकाशयत्। 
कोविड् - आविश्वं मरणानि सार्धलक्षमतीतानि ; रोगबाधिताः २२ लक्षम्।
अमेरिक्कायां अवस्था कष्टतरा। 
वाषिङ्टण् >  आविश्वं कोव्ड्रोगबाधिताः २२लक्षमतीताः। १,५०,६२३ जनाः मृत्युमुपगताः। अमेरिक्कायां गत२४होराभ्यन्तरे ४५९१ जनाः कोविड्रोगबाधया मृताः। तत्र अवस्था आशङ्काजनका वर्तते। 
  केवलममेरिक्कायाम् इतःपर्यन्तं मरणानि ३४,७०५ अभवन्। रोगबाधिताश्च ६,७९,७६२ भवन्ति। स्पेयिने १,८४९४८ रोगबाधितेषु १९,३१५ जनाः कालयवनिकां प्राप्ताः। इट्टली, फ्रान्स्, जर्मनी, ब्रिट्टन् इत्येतेषु यूरोपीयराष्ट्रेषु एकैकेषु लक्षाधिकाः रोगिणः सन्ति।
केरलं मण्डलानि विभज्य उपशान्तिप्रक्रमाः। 
अनन्तपुरी >  कोविड्रोगव्यापनस्य परिमाणमालम्ब्य केरलराज्यं चत्वारि मण्डलानि विभज्य पिधाने उपशान्तिप्रक्रमाः सर्वकारेण विज्ञापिताः। कासर्गोड्, कण्णूर् , कोष़िक्कोड् , मलप्पुरम् इत्येतानि जनपदानि 'रक्तमण्डल'मिति कृत्वा मेय् तृतीयदिनाङ्कपर्यन्तं संपूर्णं पिधानमनुवर्तिष्यते। पत्तनंतिट्टा, एरणाकुलं, कोल्लं जनपदेषु [ओरञ्च् - ए  मण्डलं] एप्रिल् २४ परं , आलप्पुष़ा, तिरुवनंतपुरं, पालक्काट्, वयनाट्, तृश्शूर् जनपदेषु [ओरञ्ज् - बी मण्डलं] २० दिनाङ्कात् परं च  पिधाने भागिकतया शिथिलीकरणानि अनुमोदितानि। 'हरित मण्डल'मिति निर्णीतयोः कोट्टयम्, इटुक्की जनपदयोः एप्रिल् २० परं सम्पूर्णोपशान्तिः प्रख्यापितः। 
 प्रस्तुतदिनाङ्केभ्यः परं तत्तथोक्तजनपदेषु निजीयवाहनेभ्यः , नगरप्रदेशेषु बस् यानेभ्यश्च उपाधिसहिता अनुमतिः दत्ता।

Friday, April 17, 2020

'तृश्शिवपेरूर् पूरं' परित्यक्तम्। 
तृश्शूर् पूरे कुटमाट्टं नामकस्य आघोषस्य विदूरदृश्यम्। 
तृशूर् > दक्षिणभारतस्य अतिप्रशस्तः  'तृशूर् पूरं' नामकः मन्दिराघोषः कोविड् प्रतिरोधस्य अंशतया अस्मिन् संवत्सरे पूर्णतया परित्यक्तः। मेय् द्वितीयदिनाङ्के अस्त्ययमुत्सवः। भारते संपूर्णपिधानं मेय् ३ पर्यन्तं दीर्घीकृतम् इत्यस्य आधारे तिरुवम्पाटि पारमेक्काव् देवस्वप्रतिनिधयः मन्त्रिणः जनपदाधिकारी इत्यादीनां नेतृत्वे आयोजिते उपवेशने आसीदयं निर्णयः।
   शक्तन् तम्पुरान् महाराजेन व्यवस्थापितं ४८ होरापरिमितं यावत् अनुवर्तमानं 'पूरं' पूर्णतया परित्यक्तुं निर्णयः इदंप्रथममेव। इतःपूर्वं त्रिवारं पूरं नाममात्रं सम्पन्नम्। १९४८ तमे वर्षे महात्मागान्धिनः निहननं, १९५७ तमे ध्वनकाघोषनियन्त्रणं , १९६३ तमे भारत-चीनयुद्धं च आलक्ष्य आसीत् नाममात्रेण पूरमायोजितम्। किन्तु अस्मिन् वर्षे मन्दिरेषु पूजादयः आचाराः एव भवेयुः। तिरुवम्पाटी, पारमेक्काव् मन्दिराभ्यां विना अष्ट इतराणि समीमस्थानि मन्दिराणि च अस्मिन् पूरे भागं वहन्ति। 
  'इलञ्ञित्तरमेलं' नामकं लोकोत्तरं पञ्चेन्द्रियसुखदं तालैक्यं [  विश्वस्य नयनाभिरामदृश्येषु अन्यतममिति युनस्कोसंस्थया प्रकीर्तितं 'कुटमाट्टम्' इत्याख्यं छत्रपरिवर्तनं , रात्रेः अन्त्ययामेषु सम्पद्यमानं नयनाभिरामं ध्वनकमालाविस्फोटनं च आस्वदितुं वैदेशिकान् अभिव्याप्य दशसहस्रशः जनाः तृश्शूरे वटक्कुन्नाथमन्दिरम् उपयान्ति। सहस्रशानां जनानां कर्मकराणां च उपजीवनमार्गश्च  अस्त्ययमाघोषः। एतत्सर्वं कोरोणाव्यापनस्य हेतुना स्थगितं जायते।
समुद्रे परिभ्रमन्तः २४ रोहिंग्य अभ्याभयार्थिनः अनशनतया मृताः।
-डा. विनोविन् .वि. ए
   धाक्का> बङ्ग्लादेशस्य  समुद्रभागे स्थगिताः २४ रोहिंग्य अभयार्थिनः बुभुक्षया मृत्युं प्राप्तवन्तः इति आवेदनम्। मलेष्याराष्ट्रं प्रति गच्छन्तः एते जनाः कतिपय सप्ताहान् यावत् उपसमुद्रभागे स्थगिताः अभवन्I ३८२ जनाः बंगलादेशस्य तीर-संरक्षणसेनया रक्षिताः इति आवेद्यते। मासद्वयं यावत् अनशनतया बुभुक्षया एते मृताः इति रोयिट्टेर्स् वार्ता संस्थया आवेदितम्।
 बङ्गलादेशस्य तीरसंरक्षणसेनया विगते बुधवासरे रात्रौ दक्षिण-पूर्व-तटे एते दृष्टवन्तः।
ते बङ्ग्लादेशस्य दक्षिणपूर्व तटस्य अभयार्थी शिबिरात् मलेष्यं लक्ष्यीकृत्य गतवन्तः आसन्। किन्तु मलेष्य सर्वकरेण कोरोण महाव्याधि-व्यापनानुबन्धतया कृतान्वेषणयोः मध्ये ते मलेष्यस्य तीरं प्राप्तुं अशक्ताः अभवन् इति प्रादेशिकवार्ता-माध्यमेन आवेदितम्।

Thursday, April 16, 2020

विश्वस्वास्थ्यसंस्थायै दीयमानम् आर्थिकसाहाय्यम् अमेरिकेन स्तगितम्।
-विनोवन्
   वाषिङ्टण्>  विश्वारेग्यसंस्थायै दीयमानम् आर्थिकसाहाय्यम् अमेरिकेन स्तगितम् इति अमेरिकस्य राष्ट्रपतिः डोणाल्ड् ट्रम्प् उक्तवान्। कोरोणामहाव्याधिं विरुध्य प्रतिरोधप्रवर्तने विश्वस्वास्थ्य संस्थया विलम्बः कृतः इति वार्ता सम्मेलन वेलायां तेन उक्तम्। कृत्यनिर्वहणे विश्वस्वास्थ्यसंस्था पराजिता अभवत्। महाव्याधि व्यापनानन्तरं विश्वस्वास्थ्यसंस्थया स्वस्याः पराजयं  आच्छादितं च।   एतस्याः घटनायाः  उत्तरदायित्वं संस्थायै एव इत्यपि तेन उक्तम्। अस्य विषाणोः  विश्वव्यापनकाले अपि अणुसन्तरणात् पूर्वं लब्धान् विवरणान् रहसि निधाय चीनं केन्द्रीकृत्य प्रवर्तनं कर्तुं  उत्साहः प्रदर्शितः इति ट्रम्पेण दोषारोपः कृतः।

Wednesday, April 15, 2020

कोरोणा - द्वितीयव्यापनं प्रति जाग्रता करणीया। 
कोष़िक्कोट् > केरलं कोविड् प्रतिरोधे अन्ताराष्ट्रप्रशस्तियुक्तां सफलतां प्रापयत् तथापि जनैः  द्वितीयं व्यापनं प्रति जाग्रता करणीया इति राज्यस्थस्वास्थ्यविभागः पूर्वसूचनामदात्। द्वितीयव्यापनं कदाचित् तृतीयव्यापनमपि सम्भवेदिति एतादृशसंपर्कव्याधीनां सविशेषता अस्ति। चीनः, सिङ्गप्पूर्, जप्पान् इत्यादिषु राष्ट्रेषु कोविडस्य द्वितीयव्यापनं आरब्धदृष्टमस्ति। 
  केरले द्वितीयव्यापनस्य साध्यता एवमस्ति। 
१. यदा विदेशात् रोगबाधिताः आगच्छन्ति तदा।
२. समीपराज्येषु अणुबाधा तीव्रतरा इत्यस्मात् व्यापनसाध्यता अधिकमस्ति। 
३. विषाणुबाधा सत्यपि अप्रकाश्यमानलक्षणाः जनाः बहवः समाजे भवेयुः। तेभ्यः रोगबाधा स्यात्। 
 अतः कञ्चित्कालं यावदपि नितान्तजाग्रता आवश्यकी।
भारते मेय् मासस्य तृतीयदिनाङ्कपर्यन्तं रेल् यानसेवा न भविष्यति।
-डा.विनोविन्
    नवदिल्ली>  भारतदेशे सम्पूर्णपिधानं दीर्घितम्। अत एव रेलयाना सेवायाः पुनरारम्भः मेय् तृतीयदिनाङ्कानन्तरं स्यात् इति रेल् अधिकारिणम्  उद्‌घृत्य पि टि ऐ वार्तासंस्थया आवेदितम्।  एप्रिल चतुर्दश दिनाङ्के अर्धरात्रीसमयपर्यन्तं प्रथमतया रेलयानसेवा निरुद्धधा आसीत्। तावदेव इदानीम् मेय् तृतीयदिनाङ्कपर्यन्तं निरुद्धधा। मेयिल्, एक्स्प्रस्, पासञ्चर्,मेट्रो रेल् च मेय्  तृतीय दिनाङ्के अर्धरात्रीपर्यन्तं न धावनं करिष्ये।

Tuesday, April 14, 2020

भारते सम्पूर्णपिधानं मेय् ३ पर्यन्तं दीर्घीकृतम्। 
कोविड् प्रतिरोधे भारताय विजयः।
आगामिसप्ताहः निर्णायकः। 
कतिपयमण्डलेषु एप्रिल् २०तः  आ श्वास पदक्षेपाः। 
नरेन्द्रमोदी राष्ट्रं सम्बुध्य भाषते। 
नवदिल्ली> कोविड्रोगस्य सम्पूर्णनिर्माजनं लक्ष्यीकृत्य सम्पूर्णं पिधानं मेय् तृतीयदिनाङ्कपर्यन्तं दीर्घीकृतमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घुष्टम्। सम्पूर्णपिधानस्य प्रथमसोपानम् अद्य समाप्यमाणे राष्ट्रम् अभिसम्बुध्य भाषमाणः आसीत् सः। 
  एतावत्पर्यन्तं सर्वे भारतीयाः कोरोणाविषाणुप्रतिरोधे अभ्यस्ताः सैनिका इव व्यवहृतवन्तः इति प्रशंसां कृतवान्। किन्तु आगामिसप्ताहः अतीवनिर्णायकः इति प्रधानमन्त्रिणा सूचितम्। तीव्रबाधितमण्डलेषु कर्कशं नियन्त्रणमावश्यकम् । कतिपयेषु अवश्यसेवनमण्डलेषु एप्रिल् २० दिनाङ्कात् केचन आश्वासप्रक्रमाः भविष्यन्तीति तेन सूचितम्। तदर्थं मानदण्डाः श्व आरभ्य प्रख्यापयिष्यन्ति।

Monday, April 13, 2020

बोरिस् जोण्सणः आतुरालयात् प्रतिगतः। 

लण्टन् >  कोविड् बाधया सप्ताहं यावत्  आतुरालयं प्रवेशितः ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः ह्यः  प्रतिगतः। गतरविवासरे आसीत् सः लण्टने  सेन्ट् तोमस् आतुरालयं प्रवेशितः। तत्र प्रथमं दिनत्रयं तीव्रपरिचर्याविभागे आसीत्। 
  आतुरालयात् स्वस्मै श्रेष्ठा चिकित्सा लब्धा इति तेनोक्तम्। तदर्थं सर्वेभ्यो सः कृतज्ञतां प्रकाशितवान्।
चीनराष्ट्रे कोरोणा विषाणोः पुनरागमनम् ? ९१ जनाः ह्यः अणुबाधिताः।
      बीजिङ्> कोरोणा विषाणोः  व्यापनस्य स्तगनानन्तरं पुनरपि अणुव्यापनम् आरब्धम् इति चीनराष्ट्रतः नूतनम् आवेदनम् आगच्छति। विगतदिने ९९ जनाः रोगबाधिताः अभवत्l एतेषु ६३ जनाः रोगलक्षणरहिताः इति चीनं आशाङ्क्यते  

Sunday, April 12, 2020


कोरोणा प्रतिरोधौषधं सेप्तंबर् मासे सुसज्जं भविष्यति। 
   न्यूयोर्क्‌> कोविड् १९ इत्यस्य  प्रतिरोधौषधं सेप्तंबर् मासे सुसज्जं भविष्यति। ओक्स्‌फोड् विश्वविद्यालयस्य गवेषकाः एव कोरोणा प्रतिरोधौषधाय प्रयतन्ते| स्वेषां औषधं ८०% फलप्रदो  भविष्यति इति  प्रोफ़ सारा गिल्बर्ट् अवदत्I सप्ताह-द्वयानन्तरम् औषधं मनुष्येषु परीक्षणाय प्रदास्यते।  २१ कोटि यूरो धनं औषध निर्माणाय यु के राष्ट्रेण व्ययीक्रियते। तथापि अन्यैः औषधानुसन्धानदलैः उच्चते यत् औषध सज्जीकरणय संवत्‍सर-पर्यन्तं प्रतीक्षया स्थास्येयुः।

Saturday, April 11, 2020

महाराष्ट्रं, पश्चिमबङ्गालं च प्रतिबन्धनं एप्रिल् ३० दिनांक पर्यन्तम् अदीर्घयत्
  मुम्बै/कोल्कत्त> राज्यानां मुख्यमन्त्रिभिः साकं प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतं वीडियो भाषाणानन्तरं महाराष्ट्रं, पश्चिमबङ्गालं च प्रतिबन्धनं एप्रिल् ३० दिनांक पर्यन्तम् अदीर्घयत्। दुष्करे कालेऽपि राज्यं राष्ट्राय मार्गं प्रदर्शयेत् इति महाराष्ट्रस्य  मुख्यमन्त्री उद्‌ध्दव ताक्करे अवदत्। 
   पश्चिमबङ्गालस्य मुख्यमन्त्रिणी ममता बानर्जी  च प्रतिबन्धनं एप्रिल् अन्तिम वार पर्यन्तम् अनुवर्तिष्यति इति अवदत्I शिक्षा स्थानानि जूण् दशदिनाङ्कपर्यन्तं पिधास्यति इत्यपि तया उक्तम्।
मरणानि लक्षमतीतानि;रुग्णाः१६ लक्षं च।
  ब्रस्सल्स् > लोकं भीत्याः सूच्यग्रे स्थापयन् कोविड् मरणानि एकलक्षमतीतानि। ह्यः यावत् १,००१५६ जनाः मृत्युमुपगताः। २१० राष्ट्रेषु १६,३९,७६३ जनाः रोगबाधिताः अभवन्। गतसप्ताहे मरणानि पूर्वेभ्यः द्विगुणितं प्राप्तानि।
राष्ट्रम्
रोगिणः
मरणानि
यू एस्
,७७,९४४
१७,९०९
स्पेयिन्
,५७,०५३
१५,९७०
इट्टली
,४७,५७५
१८,८४९
जर्मनी
,१९६२४
,६०७
फ्रान्स्
,१७,७४९
१२,२१०
चीना
८१,९०७
३३३६
इरानः
६८,१९२
४२३२
ब्रिट्टनः
६५,०७७
८९३१
कोविड्रोगबाधया तीव्रपरिचर्याविभागं प्रवेशितः ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः स्वास्थावस्थां प्राप्नुवन्नस्ति। दक्षिणकोरियायां विषाणुप्रभवकेन्द्रात् देगु नगरात् नूतनः प्रकरणः नावेदितः।

कोरोणाबाधया इट्टलिराष्ट्रे १०० वैद्याः ३० अनुवैद्याश्च मृताः
   रोम्> कोरोणाबाधया इट्टलिराष्ट्रे शतं (१००) वैद्याः त्रिंशत्‌ (३०) अनुवैद्याश्च मृताः।  इदम् एफ्.एन्.ओ.एम्.सि.हेल्त् असोसिएषन् इति सघटनेन आवेदितम् आसीत्। निवृत्ताः वैद्याश्च  रोगीपरिचर्यायाम् आसीत्।  अवश्यं संरक्षणं विना पुनरपि स्वास्थ्य-संरक्षक-प्रवर्तकान्  प्रेषयतुं वयं निर्बद्धाः भवेम इति  एफ्.एन्.ओ.एम्.सि.हेल्त् असोसिएषन् इत्यस्य अध्यक्षः फिलिप्पो ओनली अवदत्I

Friday, April 10, 2020

तैलेन्धनोत्पादनं न्यूनीकरिष्यति - ओपेक् ।
 कोच्ची> तैलेन्धनस्य उत्पादनं न्यूनीकर्तुम् अन्ताराष्ट्रिय तैलेन्धनोत्पादकराष्ट्राणां संघटनेन [ओपेक् प्लस्] निश्चितम्। प्रतिदिनं एककोटिबारल् परिमितम् इन्धनस्य न्यूनीकरणमेव कारयिष्यति। कोविडस्य आधारे तैलेन्धनस्य उपभोगः क्रमातीतं न्यूनीकृतम् इत्यत एव एतादृशः निर्णयः कृतः। तथा च इन्धनस्य मूल्यमपि गतानां२५ संवत्सराणां न्यूनातिन्यूनं प्राप्तं च। 

Thursday, April 9, 2020

हैड्रोक्सी क्लोरोक्विन् औषधस्य विदेशनयनम् -
मोदी ट्रम्पः च। 
"मोदी महान्" इति ट्रम्पः ; "औषधं मृतसञ्जीवनी"ति ब्रसील् राष्ट्रपतिः। 
जैर् बोल्सोनारो 
वाषिङ्टण् / नवदिल्ली > शीतज्वराय भारते उपयुज्यमानं 'हैड्रोक्सि क्लोरोक्विन्' नामकम् औषधं कोविड् प्रतिरोधाय विदेशराष्ट्राणि प्रति नेतुं भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः अनुमतिः सर्वत्र श्लाघ्यते। डोणाल्ड् ट्रम्पस्य अभ्यर्थनानुसारं गुज्रालराज्यस्थेभ्यः उद्योगशालेभ्यः २.९कोटि 'डोस्' परिमितं औषधं अमेरिक्कां नीतमासीत्। ततः नरेन्द्रमोदी अतिमहान् तथा श्रेष्ठ इति ट्रम्पः मोदिनं प्राशंसत। 
  तथा च हैड्रोक्सि क्लोरोक्विनं रामायणस्थं मृतसञ्जीवनिं उपमीय ब्रसील् राष्ट्रपतिः जैर् बोल्सोनारो वर्यः। शीतज्वरस्य औषधरूपं हैड्रोक्सि क्लोरोक्विनम् अपेक्षयन्तः ३० राष्ट्रनेतारः भारतम् अभ्यर्थितवन्तः आसन्।
येमन् राष्ट्रे गोलिकाप्रहराय विरामः। ५० कोटि डोलर् धनस्य  सौदिसाहाय्यम् I 
 मनाम> येमन् राष्ट्रे वारद्वयस्य गोलिकाप्रहर- विरामाय अरब् सख्यसेनया निश्चितम्। यु एन् इत्यस्य नेतृत्वे शान्तता प्रक्रमाः पुनरारंभणीयाः। कोराणा विषाणुरोधाय प्रयत्नाय समयः आवश्यकः अतः एव गोलिकाप्रहराय विरामः कृतः इति सख्यसेनायाः वक्ता केणल्. तुर्की अल् मालिकी अवदत्l  मानुषिकसाहायार्थं ५० कोटि डोलर् धनं तथा विषाणु प्रतिरोधाय २.५ कोटि डोलर् धनस्य साहाय्यं च सौदी अरेब्या राष्ट्रेण प्रदास्यते। पञ्चवर्षाणि यावत्‌ अनुवर्तमानेन युद्धेन  भग्नं भवति येमन् राष्ट्रम्।

Wednesday, April 8, 2020

प्रधानमंत्ररिणा-नरेन्द्रमोदिना महामारी-इत्यस्मिन् दुर्नाशे दुर्धटना समये अन्येभ्य: देशेभ्यः कर्तुं निश्चयः कृतः। 
-साक्षी चौरसिया
    नवदेहली> कोविड-१९ एतेन सह भारतः स्वयुद्धं करोति परमस्यां दुर्नाशे दुर्घटसमये साहाय्यं कर्तुं सामान्यतया सन्नद्धाः वयं न भवेम। प्रातिवेशिनः वाऽन्येभ्यः सहाय्यमपेक्षितेभ्यः देशेभ्यः क्लोरोक्वीन वान्येषां औषधीनां आपूर्तिङ्कृत्वा भारतेन वैदेशिकानां सहाय्यं वर्धितुं निश्चयः कृतः। 

श्रीलंकायां महामारीतः रक्षणार्थं १० टण् चिकित्सकीय सामग्रयः प्रापिताः। 
    मङ्गलवासरे प्रतिवेशी-देश-श्रीलंकां कोरोना-महामारीतः संरक्षणार्थं १०टन् चिकित्सकीय सामग्रीन् प्रेषितवान्। खाड़ी इत्यस्य मित्रराष्ट्रं  कुवैताय अपि एतादृशीं प्रापयितुं सम्पूर्ण-सिद्धता अस्ति।

प्रधानमन्त्री मोदी ओमानस्य सुल्तानेन स्वीडनस्य प्रधानमन्त्रिणा च सह भाषणं कृतवान् सहाय्यं कर्तुम् सन्नद्धतां प्रकटितवान् च।
     पी.एम-मोदी मङ्गलवासरे ओमानस्य सुल्तानेन स्वीडनस्य प्रधानमन्त्रिणा च सह भाषणं कृतवान् पुनश्च समाश्वासितवान् साहाय्यं कर्तुं सन्नद्धतां प्रकटितवान् च। वस्तुतः पीएम-मोदी असामान्यः अनितरसाधारणैकाद्वितीयः नेता अस्ति यः अस्मिन् अस्यां दुरन्तस्थित्यां निरन्तरं अन्येषां देशानां प्रमुखैः सह सम्पर्के अस्ति पुनश्च तेभ्यः साहाय्यं कर्तुं समागच्छति।

भारतेन मालद्वीपाय चिकित्सकीय-सामग्र्या सह चिकित्सकानामेकं विशेषदलमपि प्रेषितः। 

विदेशमंत्रालयस्य सूत्रानुसारेण एयरइंडियायाः विशेषविमानेन १० टन् चिकित्सकीय सामग्रीं स्वीकृत्य विमानमेकं श्रीलंकां प्राप्तवत्। अस्मिन् विमाने केवलं तानि वस्तूनि सन्ति यानि प्रतिवेशीदेशानां कृते आपेक्षितानि। इतः पूर्वं लघुदेशाय मालिद्वीपाय अपि भारतस्य पक्षतः त्रिमासस्य चिकित्सकीय सामग्रयः प्रेषिताः सन्ति। चिकित्सकानामेकं विशिष्टदलमपि प्रेषितम् ये स्थानीय-चिकित्सकान्  आवश्यकं शिक्षणमपि दास्यन्ति। कुवैत्-देशायापि एतादृशीं सहायतां दास्यन्ते।

खाडी़-इति देशेषु शनैः शनैः कोविड-१९ इत्यस्य समस्या वर्धते।
     खाडी़-इति देशे अधुना शनैः शनैः कोविड-१९ इत्यस्य समस्या वर्धमाना दृश्यते। तत्र अधिकांशदेशैः सह भारतस्य मित्रवत् सम्बन्धाः सन्ति पुनश्च अन्यदेशाः भारतं कोविड-महामार्यां प्रयुक्ता मलेरियारोगस्य औषधीं क्लोरोक्विन व अन्यौषधीं याचन्ति। तथापि भारतमपि एतेषु देशेषु ऊर्जायाः कारणेन बहु आवश्यकता अस्ति।

तैलस्य आपूर्त्यां बाधा नागच्छेत् एतदर्थं धर्मेन्द्रप्रधानस्य यूएई-मंत्रिणा सह वार्ता।
    अंतरराष्ट्रीय-विपण्यां क्रूड अथवा गैस इत्याद्योः मूल्येषु अतिन्यूनतायाः उपरान्तम् एतयोः आपूर्तिः विषये आशंका स्थिता। आशंकायाः कारणं अस्ति यत् यदि महामार्याः प्रसारः एवमेव भविष्यति तर्हि अन्येषु देशेषु क्रूड अथवा गैस इत्याद्योः समस्या भवितुमर्हति। मङ्गलवासरे एतदर्थं पेट्रोलियम् व प्राकृतिक-गैस-मंत्रिणा धर्मेन्द्रः प्रधानः यूएई इत्यस्य राज्यमंत्री व अबूधाबी नेशनल आयल कम्पनी इत्यस्य सीईओ सुल्तान-अल-जबेरेण सह द्वितीयवारं वार्तां कृतम्। द्वयोः नेतयोः मध्ये एलपीजी आपूर्तिः विषये विशेषवार्ता जाता। ८ कोटिः एलपीजी गैसस्य अतिरिक्त अनिलकोशस्य आपूर्तिः कर्तुं भारतं अधिकमात्रायां एलपीजी अपेक्षितम्।
वुहान् उद्घाटितम् ; चीनः आश्वस्तः। 
 नियन्त्रणानि अपसृतानि , जनानां बहिर्गमनाय अङ्गीकारः ।
वुहान् >  चीनराष्ट्रस्य वुहान् नगराय एतत् द्वितीयजन्म। कोरोणाविषाणोः प्रभवकेन्द्रे वुहानप्रदेशे जनवरी ३० दिनाङ्के आयोजितं सम्पूर्णं पिधानं निरस्तम्। जनाः एतदाघुष्यमाणाः नगरं प्रविशन्ति। दिनद्वयं यावत् चीने नूतनं कोविड् प्रकरणं न प्रकाशितम्। 
  किन्तु स्वास्थ्यपरिशोधनाः कर्कशेण अनुवर्तन्ते। आरोग्यशीलाः पालनीयाः इति उद्घोषितमस्ति।

Tuesday, April 7, 2020

संसदः सदस्यानां वेतनम् एकवर्षं यावत् प्रतिशतं त्रिंशन्मितं न्यूनं भविष्यति- मन्त्रिमण्डलस्य निर्णय:
-पुरुषोत्तमशर्मा
   नवदेहली> केन्द्रीयमन्त्रिमण्डलेन संसदः सदस्ययानां वेतने वित्तानुमोदने गतशताब्दस्य चतु:पञ्चाशततमे सेवानिवृत्तिवेतनाधिनियमे संशोधनाय अध्‍यादेश: अनुमत:। अनेन संसत्सदस्यानां वेतनम् एकवर्षं यावत् प्रतिशतं त्रिंशन्मितं न्यूनं भविष्यति। अयम् अध्‍यादेश: अप्रैलमासात् प्रारब्धो भविष्यति। 
    सूचनाप्रसारणमन्त्री प्रकाशजावडेकर: वार्ताहरान् प्रावोचत् यत् वर्षद्वयाय संसदः सदस्यानां क्षेत्रीयविकासनिधे: स्थगननिर्णयः अपि मन्त्रिमण्डलेन कृतः। श्रीजावडेकर: न्यगदत् यत् नव सप्तति: अर्बुदरूप्यकाणां राशि:  कोविड-१९ सङ्क्रमणस्य निवारणाय  भारतस्य समेकितनिधौ प्रत्यर्पयिष्यते इति।
ब्रिट्टनप्रधानमन्त्री तीव्रपरिचरणविभागं प्रवेशितः। 

लण्टन् >  कोविड्रोगबाधितः ब्रिट्टनस्य प्रधानमन्त्री बोरिस् यत्सनः तीव्रपरिचरणविभागं प्रवेशितः। तस्य स्वास्थ्यावस्था कठिनतरा वर्तते इति अधिकृतैरुक्तम्। 
  विदेशकार्यमन्त्री डोमिनिक् राबिनः प्रधानमन्त्रिणः उत्तरदायित्वं वहति।
मुम्बय्यां  ‍भिषग्वराणां अनुवैद्यानां च कोविड्रोगः।
मुम्बई > महाराष्ट्रे 'मुम्बई सेन्ट्रल्' स्थाने 'वोक्काड् क्रिट्टिक्कल् केयर्' नामके कस्मिंश्चन निजीयातुरालये त्रयाणां वैद्यानां  ५३ अनुवैद्यानां च कोविड्-१९ रोगः स्थिरीकृतः। अनुवैद्यासु ४६ केरलीयाः सन्ति। अनेन आतुरालयः पिहितः। 
 अस्मिन्नातुरालये १५० अनुवैद्याः निरीक्षणे नियुक्ताः। स्वास्थ्यप्रवर्तकानां मध्ये कोरोणाबाधा आशङ्काहेतुः भवति। पूर्वं त्रयः जनाः कोविड्रोगबाधया मृता आसन्। तेभ्यः एव रोगव्यापनमभवदिति मन्यते। अवश्यानुसारसुरक्षासंविधानस्य अभावः एव कारणमिति सूच्यते। 
  कोरोणाबाधिताः अनुवैद्याः मुम्बय्यां 'सेवन् हिल्' नामके आतुरालये परिचरणाय प्रवेशिताः। अन्ये अनुवैद्याः च तत्रैव निरीक्षणाय प्रवेशिताः।

Monday, April 6, 2020

न्यूयोर्कस्थे जन्तुशालायां व्याघ्रः कोराणबाधितः अभवत् ।
Image by Razlisyam Razali from Pixabay 
   न्युयोर्क्> विश्वम् कोरोणविषाणुभीत्याम्। तदा जन्तवः अपि कोरोणबाधिताः भविष्यन्ति इति विवरणं भीतिं वितरति। न्यूयोर्कस्थे ब्रोण्क्स्  जन्तुशालायां  व्याघ्रः त्रयः  शार्दूलः च कोराणबाधिताः अभवन्। जन्तुशालाकर्मकराणां पार्श्वतः अणुव्यापनमभवत् इति मन्यते। विगते मासे चीन राष्ट्रेपि बिडालेषु रोग व्यापनम्  आसीत् इति पूर्वं आवेदिम्।

Sunday, April 5, 2020

कोरोणा-विषाणुव्यापनस्य कारणं '५ जि' इति व्याजवार्ता - जनाः ५ जि स्तम्भाः अग्निसात् कृतवन्तः।
    लण्टन् >  ५ जि' इति चलदूरवाण्‌याः प्रसारणस्तंभः कोरोणा-विषाणुव्यापनस्य कारणं भवति इति  व्याजवार्तया दूषिताः जनाः ५ जि स्तम्भाः अग्निसात् कृतवन्तः। फेस्बुक् यू ट्यूब् आदि माध्यमद्वारा आसीत् व्याजवार्ता-प्रसारणम्। राष्ट्रेऽपि सेवा प्रवर्तनानि स्थगितानि। बेर्मिङ्हां, लिवर् पूल, मेल्लिङ्, मेर्सिसैड् प्रदेशस्थाः प्रसारण-स्तम्भाः एव अग्निसात्  कृताः। 
भारते अद्य ऐक्यदीपज्वालनम्।
 नवदिल्ली >  कोरोणानिर्व्यापनप्रवर्तनानाम् अंशतया भारते अद्य रात्रौ नववादनतः नवनिमेषान् यावत् विद्युद्दीपान् निर्व्याप्य सिक्थवर्तिका, मृद्दीपः, तैलदीपः, करदीपः इत्यादीन् अन्यान् दीपान् 'मोबैल् दीपान्' वा प्रज्वाल्य जनाः कोरोणाप्रतिरोधप्रवर्तनेषु ऐक्यबोधं प्रकाशयन्ति। प्रधानमन्त्रिणः नरैन्द्रमोदिनः  निर्देशं शिरसा वहन्तः एव एतादृशं प्रतीकात्मकं प्रवर्तनं जनानाम् ऐक्यबोधनाय निर्वहन्ति। 
  जनानाम् वासस्थानेषु एव एवं ऐक्यबोधनं करणीयम्। विद्युद्दीपा एव निर्व्यपनीयाः। दूरदर्शनं, व्यजनं, प्रशीतकम् इत्यादीनि न निर्व्यापनीयानि। कोरोणानामकम् अन्धकारमपनीय सम्पूर्णस्वास्थ्यरूपं प्रकाशम् आभारतं व्यापयितुमेव इदं प्रवर्तनमायोजितम्। 
भारते मरणानि ९४ ; रोगबाधिताः३०७२।
 नवदिल्ली > भारते कोरोणाबाधया ९४ जनाः मृताः। गतदिने महाराष्ट्रं, गुजरात्, मध्यप्रदेशः, राजस्थानं, कर्नाटक, तेलुङ्कानं इत्येतेषु राज्येषु १२ मरणानि भूतानि। 
  राष्ट्रे इतःपर्यन्तं ३०७२ जनाः रोगबाधिता इति दृढीकृतम्। नूतनतया ३७० जनाः रोगबाधिताः। किन्तु अत्र आशङ्कायाः विषयः नास्ति, निसामुद्दीने तब्लीग् सम्मेलने भागभागित्वं कृतेषु रोगबाधा दृढीकृता इत्यत एव संख्यावर्धनस्य कारणमिति स्वास्थ्यमन्त्रालयेन स्पष्टीकृतम्। राष्ट्रे रोगबाधितेषु ३०% (१०२३ जनाः) तब्लीग् सम्मेलनमनुबध्य वर्तिताः सन्ति! कोरोणाप्रतिरोधाय राष्ट्रे नितान्तजाग्रता अनुवर्तते। 

Saturday, April 4, 2020

कोविड् प्रतिरोधे विश्वादर्शरूपेण केरलम्।
वरिष्ठवयस्कौ दम्पती रोगविमुक्तौ। 
कोविड्-१९ रोगात् विमुक्तिं प्राप्तवन्तौ दम्पतीः तोमसः मरियाम्मा च आतुरालयात् बहिरागच्छतः। 

कोट्टयम् >  ९३ वयस्कः तोमसः ८९ वयस्का मरियाम्मा च कोट्टयं वैद्यककलालयस्य  द्वितीयविभागस्य द्वारेण यदा बहिरागतौ तदा 'स्वास्थ्यकेरलस्य' भारतस्य च अभिमाननिमेषः आसीत्। कोविड्-१९ रोगात् विमुक्तिं प्राप्तवन्तौ प्रप्रथमवयोधिकौ भारतीयौ अभवदेतौ दम्पती। 
  केरले पत्तनंतिट्टा जनपदात् मार्च् ८तमे दिनाङ्के आसीत् कोरोणाबाधया पूर्वोक्तौ दम्पती कोट्टयं वैद्यककलालयस्य कोरोणा एकान्तवासविभागं प्रवेशितौ। इट्टलीतः स्वदेशं प्राप्तस्य कोविड्बाधितस्य पितरौ स्तः एतौ। सम्पर्केण आसीदेतयोः रोगबाधा।
  प्राथमिकस्तरे तयोः चिकित्सा सङ्कीर्णा आसीत्। ९३वयस्कः तोमसः श्वासरोगेण हृद्रोगेण च पीडितः आसीत्। डो. सजित्कुमारस्य नेतृत्वे रूपीकृतस्य वैद्यकसंघस्य अश्रान्तपरिश्रमः एतयोः दम्पत्योः पुनरुज्जीवनाय मार्गः उद्घाटितः। द्वावपि २५ दिनानि पृथक् पृथक् प्रकोष्ठे एकान्तवासे आस्ताम्। मार्च् ३० दिनाङ्के तृतीया स्रवशोधना अपि अभावात्मिका इति विज्ञाय कतिपयदिनान्यपि निरीक्षणे नियुक्तवन्तौ। ह्यः द्वावपि विसृष्टवन्तौ गृहं प्रेषितवन्तौ च। 
  एतस्मिन्नन्तरे तौ दम्पती परिचरणं कृतवती तीव्रपरिचरणविभागस्था अनुवैद्या रेष्मा मोहन्दासः  कोरोणाबाधिता अपि दशदिनानन्तरं रोगविमुक्ता च। सा अपि स्वगृहं नीतवती।

Friday, April 3, 2020

कोरोणा - आविश्वं मरणानि अर्धलक्षम् अतीतानि। 
इट्टली - १३,०००+, स्पेयिन् - १०,०००+, यू एस् - ५,०००+, फ्रान्स् - ४,०००+, इरान् - ३,०००+ चीनः - ३३००+!
 >  आविश्वं कोरोणा विषाणुबाधया इतःपर्यन्तम् अर्धलक्षाधिकं जनाः मृत्युपगताः। विषाणुबाधिताः दशलक्षमुपगताः। इट्टली, स्पेयिन्, यू एस् इत्येषु राष्ट्रेषु विषाणुबाधा नियन्त्रणातीता वर्तते। प्रतिरोधप्रवर्तनानि प्रतीक्षानुसारं फलप्राप्तिं न एति। 
  यूरोपीयराष्ट्रेषु रोगिणां संख्या पञ्चलक्षमतीता। स्पेयिन् इट्टली राष्ट्रयोः प्रतिदिनं सामान्यतः ८०० जनाः मृत्युमुपयान्तीति आशङ्कां वर्धयति। इतःपर्यन्तम् इट्टल्यां १३,००० अधिकाः, स्पेयिने १०,०००अधिकाः जनाः मृताः। बल्जियंराष्ट्रे मृत्युसंख्या सहस्रं प्राप्ता। 
  गल्फ् राष्ट्रेषु च रोगबाधिताः वर्धन्ते। सौदीराष्ट्रे १८८५ जनाः रोगबाधिताः इति दृढीकृतम्। २१ मरणानि अभवन्। सर्वेषु राष्ट्रेषु शक्तं नियन्त्रणप्रक्रमाः स्वीकृताः सन्ति।

Thursday, April 2, 2020

सम्पूर्ण-पिधान कालानन्तरं सम्मर्दनियन्त्रणाय सर्वजनिक सुविधा आवश्यकी इति  मुख्यमन्त्रिणान् प्रति प्रधानमन्त्री। 
   नवदेहली> 21 दिनानां  सपूर्णपिधानकालानन्तरं जायमानं जनसम्मर्दनियन्त्रणाय सर्वजनिक सुविधा आवश्यकी इति  मुख्यमन्त्रिणान् प्रति प्रधानमन्त्री नरेन्द्रमोदी अभ्यर्थितवान्। कोरोण-विषाणुव्यापनस्य पृष्ठभूमौ राज्यानां मुख्यमन्त्रिणः प्रति वीडियोद्वारा भाषमाणः आसीत् सःl सपूर्णपिधानाय कृतसाह्याय सः धन्यवादमर्पितवान् I विषाणुरोधनाय समागतेषु सप्ताहेषु अपि रोगनिर्णयः, एकान्तवासः, सम्पर्कनिरोधः इत्येतेषु प्रक्रमेषु श्रद्धा देया इत्यपि नरेन्द्रमोदिना अभ्यर्थितम्। औषधसामग्रीणां निर्माणं वितरणं  च कार्यक्षमतायुक्तं भवितव्यम् इति प्रधानमन्त्रिणः कार्यालयात् प्रकाशिते सूचनापत्रे स्मारयति।
       गृहमन्त्री अमितशाहः प्रधिरोधमन्त्री राजनाथ सिंहः स्वास्थ्य-मन्त्रालयस्य वरिष्ठोद्योगिनः च भागं स्वीकृतवन्तः।
सीमा अपावरणीया - उच्चन्यायालयः। 
कोच्ची >  केरलस्य सीमाप्रदेशतः कासर्गोडतः समीपस्थं कर्णाटकस्थं मङ्गुलुरु नगरं प्रवेष्टुं कर्णाटकसर्वकीरेण पिहिता राष्ट्रियवीथिः झटित्येव अपावरणीया इति केरलस्य उच्चनीतिपीठेन आदिष्टम्। मनुजप्राणानां संरक्षणम् अतिप्रधानमिति अवगम्य केन्द्रसर्वकारस्य पदक्षेपः अस्मिन् विषये अनिवार्य इति न्यायमूर्ती ए के जयशङ्करन् नम्प्यारः, षाजि पि चाली इत्येतावुपेतेन नीतिपीठेनोक्तम्।
संस्कृतभियनम्
व्यंगचित्रम्-षिबुकुमारः
  नमांसि, संस्कृतज्ञै: अस्माभि: यथाकालं व्यवहर्तव्यं, कालानुवर्तिभि: भवितव्यं च। अत: तदनुगुणं नूतना: अंशा: योजनीया:। इतिहासत: पाठा: पठनीया:। इतरेभ्य: उदाहरणेभ्य: आदर्शा: स्वीकरणीया:। आवश्यकतानुगुणं नावीन्यं सम्पादनीयम्। अस्मान् परित: किं प्रवर्तते इति अवलोकयद्भि: भवितव्यम्। अस्माकं शक्तिदौर्बल्ययो: मूल्याङ्कनं करणीयम्। उपायापायौ चर्चनीयौ। एतत्सर्वं विचिन्त्य अस्माभि: दृष्टिकेन्द्रं परिवर्तनीयम्। जगति तम: आवृतम् अस्ति। दीपा: ज्वालनीया:। किम् अस्मासु एव केचन वर्तिका:, तैलं च भवेम? मित्राणि,कविवाक्यं स्मरामः-
" विश्वमखिलं प्रेरयेयं त्यागसंयुतजीवनाय
प्रतिपदं ननु चिन्तयेयं संस्कृतोन्नतिसाधनाय
क्षणलवं खलु यापयेयं जगति धर्मस्थापनाय।।"
 जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्।