OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 1, 2020

विषाणुव्यापनप्रतिरोधे निस्साह्यतां प्रकाश्य लोकराष्ट्राणि। 
नियन्त्रणाणि कर्कशायन्ते। 
> कोणोणाविषाणुव्यापनं प्रतिरोद्धुं भूरिशः राष्ट्रेषु अशक्यमानेषु नियन्त्रणानि इतोपि कर्कशं कर्तुं राष्ट्राणि निर्बद्धानि सन्ति। मोस्को लागोस्, नगरद्वयं ह्यः पूर्णतया पिहितम्। अमेरिक्कायां विर्जीनिया , मेरिलान्ट् राज्ययोः  जनाः गृहान्तवासाय कल्पिताः। नियन्त्रणानि सन्त्यपि इट्टली, स्पेयिन्, जर्मनी, ब्रिटेन् इत्यादिषु राष्ट्रेषु रोगव्यापनम् अनियन्त्रितं वर्धते। 
  अमेरिक्कायां मृत्युसंख्या गतदिनपर्यन्तं ३२०० अतीता। सार्धलक्षं  जनाः  विषाणुबाधिताः अभवन्। दशलक्षं जनाः निरीक्षणे वर्तमानाः सन्ति। 
 इट्टलीराष्ट्रे एकादशसहस्रं जनाः विषाणुबाधया मृताः। एप्रिल् १२दिनाङ्कपर्यन्तं पिधानमनुवर्तिष्यते इति प्रधानमन्त्रिणा जुसप्पे कोन्ते इत्यनेनोक्तम्। 
 स्पयिने मृत्युसंख्या इतःपर्यन्तं ८००० अतीता। केवलं  ह्यः ८२९ मरणान्यभवन्। 
   ब्रिट्टने गतदिने ३९३ जनाः मृत्युमुपगताः। लण्टने गात्विक् विमाननिलये सर्वाणि सेवनानि निरुद्धानि।