OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 18, 2020

केरलं मण्डलानि विभज्य उपशान्तिप्रक्रमाः। 
अनन्तपुरी >  कोविड्रोगव्यापनस्य परिमाणमालम्ब्य केरलराज्यं चत्वारि मण्डलानि विभज्य पिधाने उपशान्तिप्रक्रमाः सर्वकारेण विज्ञापिताः। कासर्गोड्, कण्णूर् , कोष़िक्कोड् , मलप्पुरम् इत्येतानि जनपदानि 'रक्तमण्डल'मिति कृत्वा मेय् तृतीयदिनाङ्कपर्यन्तं संपूर्णं पिधानमनुवर्तिष्यते। पत्तनंतिट्टा, एरणाकुलं, कोल्लं जनपदेषु [ओरञ्च् - ए  मण्डलं] एप्रिल् २४ परं , आलप्पुष़ा, तिरुवनंतपुरं, पालक्काट्, वयनाट्, तृश्शूर् जनपदेषु [ओरञ्ज् - बी मण्डलं] २० दिनाङ्कात् परं च  पिधाने भागिकतया शिथिलीकरणानि अनुमोदितानि। 'हरित मण्डल'मिति निर्णीतयोः कोट्टयम्, इटुक्की जनपदयोः एप्रिल् २० परं सम्पूर्णोपशान्तिः प्रख्यापितः। 
 प्रस्तुतदिनाङ्केभ्यः परं तत्तथोक्तजनपदेषु निजीयवाहनेभ्यः , नगरप्रदेशेषु बस् यानेभ्यश्च उपाधिसहिता अनुमतिः दत्ता।