OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 19, 2020

कोविडस्य आगामी प्रभवकेन्द्रम् आफ्रिक्का स्यादिति विश्वस्वास्थ्यसंस्था।

जनीवा > कोविड् - १९ विषाणोः आगामी प्रभवकेन्द्रम् आफ्रिक्का स्यादिति विश्वस्वास्थ्यसंघटनस्य [WHO] पूर्वसूचना। गतसप्ताहे आफ्रिक्कयीयराष्ट्रेषु कोरोणाबाधितानां संख्या आशङ्कया वर्धते इत्यस्याधारेण एवेदं निगमनम्। 
  एतावत्पर्यन्तं १८,००० जनाः रोगबाधिताः, उपसहस्रं मृताश्चाभवन् । इदानीं तु रोगव्यापनं नगरप्रदेशान् विहाय ग्रामग्रामान्तरेषु प्राप्तम्।
  अवश्यानुसारं चिकित्साव्यवस्थायाः अभावः, प्रतिरोधप्रवर्तनाय धनसञ्चयस्य अपर्याप्तता च विषाणुव्यापनवर्धनस्य हेतुरिति ऐक्यराष्ट्रसभायाः 'इकणोमिक् कम्मीषन् फोर् आफ्रिक्का' नामिकया संस्थया सूच्यते। 
  महामारिं प्रतिरोधुं पर्याप्ताः प्रवातशय्याः  [Ventilator] आफ्रिक्कायां कस्मिन्नपि राष्ट्रे न सन्तीति 'हू' संस्थायाः आफ्रिक्कामण्डलस्य निदेशका  मात्षि डिसो मोय्ती नामिका उक्तवती।