OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 1, 2020

‘मनोगतम्’ [०२.१०] ‘मन की बात’ प्रसारण-तिथि: - २९-मार्च, २०२०                      [भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-गवीश-द्विवेदि-पुरुषोत्तम-शर्मभिः सम्भूय बलदेवानन्द-सागर-द्वारा]                 
        मम प्रियाः देशवासिनः, सामान्यतया ‘मन की बात’-‘मनोगतम्’ इत्यत्र अहं विविधान् विषयान् समादाय आगच्छामि | परन्तु साम्प्रतं, देशस्य जगतश्च मनसि केवलं, केवलम् एकमात्रञ्च वृत्तमस्ति - ‘कोरोना-वैश्विक-महामारी’-तः समापन्नं भयङ्करं सङ्कटम् | एतादृश्यां स्थितौ,  अहम् अन्यत् किमपि वृत्तं कथयेयम् इति नैवोचितम् | बहूनि महत्वपूर्णानि वृत्तानि वदेयम्, परञ्च अद्य मम मनः अस्याः महामार्याः सन्दर्भे कानिचित् वृत्तानि वक्तुं वाञ्छति | परञ्च सर्व-प्रथमं सर्वेषां देशवासिनां समक्षं क्षमां याचे | ममात्मा कथयति यत् भवन्तः अवश्यं मां क्षमिष्यन्ते यतो हि केचन एतादृशाः निर्णयाः विहिताः येषां कारणात् भवन्तः अनेकविधानि कष्टानि
सहन्ते, विशेषेण यदाहं मम निर्धनान् भगिनी-भ्रातॄन् पश्यामि, तदा अवश्यं प्रतीयते यत् ते नूनम् अनुभवेयुः यत् कीदृशोsयं प्रधानमन्त्री, येन वयम् एतादृशे महति व्यसने पातिताः? तान् अपि विशेषेण क्षमां याचे | एवमपि सम्भाव्यते यत् अनेके जनाः मयि रुष्टाः अपि स्युः यत् एवं केन प्रकारेण सर्वे जनाः गृहेषु निरुद्धाः विहिताः इति | भवतां काठिन्यानि वेद्मि, भवतां परिदेवनानि चापि अवगच्छामि परञ्च भारत-सदृशस्य त्रिंशदुत्तर-शत-कोटि-जनता-युतस्य देशस्य कृते, कोरोना-विरुद्धं संघर्षार्थं, एतदुपायस्य अनुष्ठात् ऋते नान्यः पन्था आसीत् | कोरोना-विरुद्धं युद्धमिदं, जीवन-मृत्योः मध्यगतं युद्धं वर्तते, तथा च, नूनम् अस्माभिः युद्धमिदं विजेतव्यमस्ति | अत एव, एते कठोरोपायाः अतितराम् अनुष्ठेयाः आसन् |  न कस्यचन अपि मनसे एवं रोचते, किन्तु संसारस्य प्रवर्तमानाः स्थितीः दृष्ट्वा एवं प्रतीयते यत् अयमेव अनन्यतमः पन्था अवशिष्टः | भवन्तः, भवतां  कुटुम्बानि च सुरक्षितानि स्युः | पुनरपि, अहं भवताम् असौविध्यार्थं, काठिन्यार्थञ्च, क्षमां याचे | सखायः, अस्माकं चरक-निदान-स्थाने प्रोक्तम्–  ‘एवमेव विकारोsपि तरुणः साध्यते सुखं’- अर्थात् रोगस्य तत्-प्रकोपस्य चारम्भे एव तन्निवारणार्थं प्रयतनीयम् | अनन्तरं रोगाः असाध्याः भवन्ति, तदा तेषां निदानमपि कठिनायते | तथा च, साम्प्रतं पूर्णमपि हिन्दुस्थानम्, प्रत्येकमपि हिन्दुस्थानीयः इदमेव विदधाति |
भ्रातरः, भगिन्यः, मातरः, वरिष्ठाः नागरिकाः !!! कोरोना-विषाणुः अशेष-संसारं निगृहीतवान् | अयं हि ज्ञानम्, विज्ञानम्, निर्धनम्, समृद्धम्, निर्बलम्, सबलम् – प्रत्येकमपि समाह्वयति | नायं राष्ट्र-सीमस्सु निबद्धः, न चायं किञ्चन क्षेत्रमपि अवलोकयति, न वा कञ्चन ऋतु-विशेषम् | विषाणुरयं मानवान् हन्तुं, तान् च विनाशयितुं साग्रहं सन्तिष्ठते, अत एव सर्वेsपि जनाः, पूर्णा मानवजातिश्च विषाणुमेनं समापयितुं, सम्भूय नूनं सङ्कल्पयेयुः | केचन एवम् आमनन्ति यत् ते लॉकडाउन-इति सङ्गरोधम् अनुपालयन्ति, एवं कृत्वा च, अपरेभ्यः साहाय्यं कुर्वन्तीति | अयि भोः भ्रातरः, भ्रमोsयं नैवास्ति समुचितः |  अयं सङ्गरोधस्तु भवताम् स्वीय-सुरक्षायाः कृते एवास्ति | भवद्भिः आत्मा संरक्षणीयः, स्वीयः कुटुम्बः संरक्षणीयः | इतः परमपि भविष्यति काले अनेकानि दिनानि यावत् भवद्भिः एवमेव धैर्यं संधारणीयमेव, लक्ष्मण-रेखायाः पालनमपि करणीयमेवास्ति | 
  सखायः, अहमिदमपि जानामि यन्नैकोsपि जनः विधिम् उल्लङ्घयितुं वाञ्छति, नियमं वा उपेक्षितुं समीहते परन्तु केचन जनाः एवमाचरन्ति यतो हि साम्प्रतमपि ते स्थितेः गम्भीरतां नैवावगच्छन्ति | एतान् तु इदमेव वच्मि यत् लॉकडाउन-इति सङ्गरोधस्य नियमान् ते उल्लङ्घयन्ति चेत् कोरोना-विषाणुभ्यः संरक्षणं कठिनतरं भविता | अशेष-विश्वस्य जनानाम् अधिसंख्यं एतादृशीमेव भ्रान्तिं सन्धारयति स्म | सम्प्रति ते सर्वे पश्चात्तापम् अनुभवन्ति |
 सखायः,  अस्माकं ग्रन्थेषु प्रोक्तम् – ‘आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम्’ अर्थात् आरोग्यमेव सर्वोत्तमं भाग्यमस्ति | जगति सर्वेषामपि सुखानां साधनम्, स्वास्थ्यमेवास्ति | एतादृश्यां स्थितौ नियमोल्लङ्घकाः स्वीयेन जीवनेन साकं नितरां क्रीडन्ति | 
     मित्राणि,  अस्मिन् आपद्-काले नैके योद्धारः एतादृशाः सन्ति ये गृहेषु न, गृहेभ्यः बहिर्भूत्वा कोरोनाविषाणुं परास्तुं प्रयतमानाः सन्ति। ये अस्माकं सीमवर्तिनः सैनिकाः सन्ति। विशेषरूपेण अस्माकं चिकित्सक-सहायिकाः भगिन्यः, चिकित्सक-सहायकाः भ्रातरः, चिकित्सकाः , पराचिकित्सकीय-कर्मिणः च । एतादृग्भ्यः जनेभ्यः, ये कोरोना-सङ्क्रमणं पराजितवन्तः। अद्य तेभ्यः प्रेरणा स्वीकरणीया। विगतदिवसेसु अहं एतादृशैः कतिपय-जनैः सह दूरभाषेण सम्भाषितवान्, तेषाम् उत्साहवर्धनं कृतवान् अथ च तैः सह संभाष्य ममापि उत्साहः वर्धितः। अहं तेभ्यः बहु अधीतवान्नस्मि। मम मनः आसीत् अतः ऐषमः मनोगते एतादृग्भिः सह जातान् अनुभवान्, सम्वादान्, ततश्च चितान् कतिपयान् अंशान् भवतां कृते अत्र प्रकटयामि। सर्वप्रथमम् अस्माभिः सह योजितः भविष्यति श्रीरामगम्पा-तेजा । एवं तु असौ सूचनाप्रविधिविद् अस्ति, आयान्तु, शृण्मः एतस्य अनुभवान्। कथयतु राम! 
रामगम्पा-तेजा   :  नमो नमः | 
मोदिमहोदयः    :  कः? रामः वदति वा?
रामगम्पा-तेजा   :  आम् महोदय, अयम् अहं रामः वदामि। 
मोदि-महोदयः   :  राम! नमस्ते | 
रामगम्पा-तेजा  :  नमस्ते, नमस्ते!! 
मोदिमहोदयः  :  अहं श्रुतवान् यत् भवान् कोरोनाविषाणु-सङ्क्रमणस्य गभीरसङ्कटतः मुक्तः सम्प्रति?
रामगम्पा-तेजा  : आम् महोदय! 
मोदिमहोदयः   : अवश्यम्, अहं भवता सह सम्भाषणं कर्तुम् इच्छामि स्म। कथयतु भवान् ?  एतस्मात् सङ्कटात् निर्गतः, तर्हि अनुभवं श्रोतुम् इच्छामि स्म।
रामगम्पा-तेजा  : अहं सूचना-प्रविधि-क्षेत्रे कार्मिकः अस्मि। अहं कार्यवशात् दुबई-देशम् अगच्छम्। वस्तुतः गोष्ठी-निमित्तम्। आगमनानन्तरमेव ज्वर इत्यादि आरब्धम् आसीत्। पञ्च-षड् वा दिवसानन्तरं चिकित्सकः कोरोना-विषाणोः परीक्षणम् अकरोत्, तदा च अहं सङक्रान्तः इति पुष्टिः अभवत्। तदा हैदराबादस्थे शासकीये गान्धि-चिकित्सालये मम प्रवेशः जातः, ततश्च चतुर्दश-दिनानि अनन्तरं अहं स्वस्थः भूत्वा प्रत्यागतः। आसीत् भयावहः एषः कालक्रमः।
मोदिमहोदयः   : अर्थात् यदा भवान् सङ्क्रमणविषयं ज्ञातवान् 
रामगम्पा-तेजा  : आम् | 
मोदिमहोदयः   : अथ एतत् तु पूर्वमेव ज्ञातं स्यात् यत् विषाणुः अयं भयङ्करः कष्टदायकः च । 
रामगम्पा-तेजा  : आम् | 
मोदिजी       : तर्हि, यदा भवता सह एतत् घटितं तत्क्षणं का प्रतिक्रिया आसीत्?
रामगम्पा-तेजा : पूर्वं तु अतिभीतः, विश्वासः एव न अजायत यद् कथम् अहं सङ्क्रान्तः इति। यतोहि भारते तु द्वि-त्राः एव सङ्क्रान्ताः आसन्, अतः विषयेSस्मिन् बोधः न आसीत्। चिकित्सालयं यदा प्रविष्टः तदा संगरोधे अहं स्थापितः। तदा तु आद्याः द्वि-त्रि-दिवसाः एवमेव पूर्णतां गताः। परं येsपि तत्रत्याः चिकित्सकाः चिकित्सक-सहयोगिनः च  सन्ति किल,    
मोदिमहोदयः   :  आम्  
रामगम्पा-तेजा  :  ते मया सह अत्युत्तमाः आसन्। प्रतिदिनं दूरभाषेण  मया सह सम्भाषणं कुर्वन्ति स्म, मम उत्साहवर्धनम् कुर्वन्ति स्म, भवान् स्वस्थः भविष्यति इति सर्वदा अकथयन्। दिवसे द्वि-त्रि-वारं चिकित्सकाः सम्भाषणम् अकुर्वन्, चिकित्सक-सहयोगिनः अपि सम्भाषणं कुर्वन्ति स्म। पूर्वं तु भयम् आसीत्, परन्तु तदनन्तरम् अनुभूतवान् यद् अहं सज्जनैः सह अस्मि, एते जानन्ति किं करणीयम्, अथ अहं स्वस्थः भविष्यामि इति। 
मोदिमहोदयः   :  गृह-सदस्यानां मनःस्थितिः कीदृशी आसीत्?
रामगम्पा-तेजा : यदा अहं चिकित्सालयं प्रविष्टवान् तदा सर्वे अपि संक्षोभिताः आसन्, सञ्चारमाध्यम-कारणैः समस्या आसीत्। अत्यवधानकेन्द्रम् अभवम्। आम्, सर्वप्रथमं तु समेषां परीक्षणं कृतवन्तः। ईश्वर-कृपा अभवत् परिवाराय प्रतिवेशिभ्यश्च | परीक्षण-परिणामे ते सङ्क्रमण-रहिताः आसन्। तदनन्तरं तु प्रतिदिनं स्वास्थ्य-लाभाः दृष्टिंगताः। चिकित्सकाः सर्वदा मया गृहजनैः च सह सम्पर्के आसन्।  
मोदिमहोदयः   : भवता स्वयं कुत्र अवधानं कृतम् ?  गृहजनेभ्यः के नियमाः उक्ताः? 
रामगम्पा-तेजा : गृहजनेभ्यः तु......... प्रथमं यदा सङ्क्रमणं ज्ञातम्, अहं संगरोधे आसम्, परं संगरोधानन्तरम् अपि चिकित्सकैः इतोsपि चतुर्दश-दिनानि स्वगृहे स्वीयप्रकोष्ठे संगरोधं पालयितुम् अहं सूचितः । अतः चिकित्सालयतः आगमनान्तरम् अपि स्वगृहे अधिकाशंतया स्वप्रकोष्ठे एव तिष्ठामि। मुखाच्छादकं उपयुञ्जामि आदिनम्, यदा च भोजनार्थं गच्छामि तदा  हस्तप्रक्षालनं तु अतिमहत्त्वपूर्णम्।    
मोदिमहोदयः   : अस्तु राम, भवान् स्वस्थः भूत्वा आगतः। भवते भवत्-परिवाराय च मम शुभकामनाः।
रामगम्पा-तेजा   : धन्यवादः।
मोदिमहोदयः      : परम् अहं इच्छामि भवतः एषः अनुभवः ..... 
रामगम्पा-तेजा     : आम् 
मोदिमहोदयः      : भवान् तु प्रविधि-क्षेत्रे अस्ति।  
रामगम्पा-तेजा     :  आम्
मोदिमहोदयः       : तर्हि ध्वन्यङ्कनं कृत्वा
रामगम्पा-तेजा     :  आम्
मोदिमहोदयः    : जनेभ्यः प्रेषयतु, तस्य सञ्चारं करोतु, सामाजिक-सञ्चारमाध्यमेषु प्रसारयतु । एतेन जनाः भयभीताः अपि न भविष्यन्ति, सहैव संरक्षणविषये सहजमेव प्रयतिष्यन्ते।
रामगम्पा-तेजा  :   आम्, महोदय। बहिः आगत्य अनुभवामि यत् संगरोधं जनाः कारावास इव विचिन्तयन्तः सन्ति परं नास्ति एतादृशम्। सर्वैः ज्ञातव्यं प्रशासनेन कृतः संगरोधः तेभ्यः तत्-परिवारेभ्यश्च एव अस्ति। अतः तस्मिन् विषये अधिकान् जनान् सूचयितुम् इच्छामि यत् परीक्षणं कारयन्तु, संगरोधात् भयं मास्तु। संगरोधः कलङ्कवत् नैव स्वीकरणीयः। 
मोदिमहोदयः     :  अस्तु राम। नैकाः  शुभकामनाः भवते। 
रामगम्पा-तेजा    :  धन्यवादः! धन्यवादः!!
मोदिमहोदयः     :  धन्यवादः!
रामगम्पा-तेजा    :  महोदय! अहम् इतोsपि किञ्चित् विज्ञापयितुम् इच्छामि। 
मोदिमहोदयः     : कथयतु....
रामगम्पा-तेजा   :  अहम् अतिप्रसन्नः अस्मि। भवान् यान् पदक्रमान् आचरन्नस्ति तथा विश्वे न कोsपि एतावत् स्वदेशवासिभ्यः कुत्रापि क्रियमाणम् अस्ति। आशासे यद् वयं सकुशलम् एतस्मात् बहिः आगमिष्यामः, तदर्थं भवते धन्यवादाः।
मोदिमहोदयः    : केवलं देशः सुरक्षितः भवेत् यतोहि भयङ्करम् अस्ति इदं सङ्कटम्। पुनश्च न ज्ञायते किं भविष्यति?
रामगम्पा-तेजा   :  किं भविष्यति.... तदेव महोदय....... पूर्वं भीतिः आसीत्, परं यदा सञ्चरणरोधः घोषितः, येsपि पदक्रमाः स्वीकृताः। मयि विश्वासः दृढतरो जातः, वयं भवतां सहयोगेन शीघ्रम् एव सञ्चरिष्यामः। धन्यवादः, महोदय।
मोदिमहोदयः      :  धन्यवादः भ्रात! बहुशः धन्यवादाः।
रामगम्पा-तेजा     :  धन्यवादः
      मित्राणि। यथा रामः उक्तवान् यत् सः कोरोना-सङक्रमणानन्तरं प्रदत्त-चिकित्सक-परामर्शान् अनुसृत्य स्वस्थः जातः सामान्य-जीवनं च जीवति। इदानीम् एतादृशः एव बन्धुः अपि संयुक्तः अस्ति यः कोरोनाविषाणुं पराजितवान्। एतस्य तु समग्रपरिवारः सङ्कटापन्नः आसीत्। युवपुत्रः अपि ग्रस्तः आसीत्। आयान्तु, आगरा-वास्तव्येन श्रीमता अशोक-कपूरेण सह सम्वादं कुर्मः।   
मोदिमहोदयः   : अशोक-महोदय नमस्ते-नमस्ते | 
अशोककपूरः   :    नमस्कारः महोदय | मम सौभाग्यं यत् भवता सह सम्भाषणं जायते | 
मोदिमहोदयः      : भवतु, अस्माकमपि सौभाग्यम्, अहं दूरभाषम् एतदर्थं कृतवान् यतोहि भवतः कुटुम्बः अस्मिन् आपत्काले सङ्कटापन्नः आसीत्। 
अशोककपूरः      : आम् , आम्  | 
मोदिमहोदयः      : तर्हि अहं निश्चयेन ज्ञातुम् इच्छामि सङ्क्रमण-विषये कथं भवन्तः ज्ञातवन्तः? किम् जातम्? चिकित्सालये किं जातम् ? येन अहं योग्यं किमपि प्राप्य देशाय तत्सूचयितुं उपयुञ्जे।
अशोककपूरः       : अवश्यं महोदय । एवम् आसीत् - मम पुत्रौ, इटली-देशं गतवन्तौ। तत्र पादत्राणानां मेलकम् आसीत्। वयम् अत्र पादत्राण-निर्माणस्य कार्यं कुर्मः, अस्माकं समवायः अस्ति। 
मोदिमहोदयः      : अस्तु
अशोककपूरः      :  तर्हि मेलकं गतौ, एतौ यदा प्रत्यागतौ!   
मोदिमहोदयः      : आम्  |
अशोककपूरः     : अस्माकं जामाता अपि गतः आसीत्। सः दिल्ल्यां निवसति। सः किञ्चित् अस्वस्थताम् अनुभूय राम-मनोहर-लोहिया-चिकित्सालयं गतवान्.......
मोदिमहोदयः      : आम्....
अशोककपूरः     : तर्हि सः सङ्क्रान्तः इति विज्ञाय चिकित्सकैः असौ सफदरजंग-चिकित्सालयं प्रति अग्रेसारितः।  
मोदिमहोदयः     : आम्
अशोककपूरः    : अस्माकं कृतेsपि दूरभाषः आगतः यत् भवन्तः अपि एतेन सह गताः आसन् अतः परीक्षणम् आवश्यकम्। तदा पुत्रौ परीक्षणार्थम् आगारा-जनपद-चिकित्सायलयं गतौ, तत्र चिकित्सकैः एतौ सूचितौ यत् पूर्णपरिवारम् अत्र आह्वयतु, येन अन्य-समस्या न भवेत्, ततः किम् अन्ततो गत्वा वयं सर्वेsपि गताः... 
मोदिमहोदयः   : अस्तु
अशोककपूरः  : तदनुगामिनि दिवसे तैः सूचितं यत् भवतः परिवारस्य सदस्यषट्कं सङ्क्रान्तमस्ति – मम पुत्रौ, अहम्, मम पत्नी, अहं वस्तुतः त्रिसप्तति-वर्षीयः ...., मम पुत्रवधूः, मम षोडशवर्षीयः पौत्रः च। सर्वेsपि दिल्लीं प्रति नेतव्याः।
मोदिमहोदयः   :  हे भगवन् ! 
अशोककपूरः   : परं  महोदय। वयं न भीताः। अपि तु उक्तवन्तः यत् सम्यग् एव अभवत्, सङ्क्रमणं ज्ञातम्। वयं दिल्लीस्थं सफदरजंग-चिकित्सालयं गतवन्तः। आगरातः रोगि-यानं तैः प्रदत्तम्। धनमपि नैव स्वीकृतम्। तेषां आगरा-नगरस्य चिकित्सकानां प्रशासनस्य च उपकारः एषः। पूर्णरूपेण अस्माकं सहयोगं कृतवन्तः। 
मोदिमहोदयः    : रोगि-यानेन आगताः भवन्तः ?
अशोककपूरः    :   आम् महोदय। सम्यक् आस्म, यथाक्रमम् उपविश्य आगताः। तैः रोगि-यान-द्वयम् अस्मभ्यं दत्तम्। सहैव चिकित्सकः अपि आसीत्, सः अस्मान् सफदरजंग-चिकित्सालय-पर्यन्तं प्रापितवान्। सफदरजंग-चिकित्सालये पूर्वसूचिताः चिकित्सकाः द्वारे एव स्थिताः आसन्। ततः ते अस्मान् रोगि-निलयम् आनीतवन्तः। षट्-जनेभ्यः पृथक् कक्षाः प्रदत्ताः । उत्तमाः प्रपूर्णाः कक्षाः आसन्। ततः चतुर्दशदिनानि चिकित्सालये एकाकिनः न्यवसन्। विषयः चिकित्सकानां, तर्हि तदपि सहयोगपूर्णम् आसीत्, सम्यक्तया तैः व्यवहारः कृतः, सहायक-गणेन अपि। महोदय, वस्तुतः सर्वेsपि संरक्षण-परिधानं धृत्वा आगच्छन्ति स्मः, अतः नैव ज्ञातम् अस्माभिः, चिकित्सकः वा,  रोगि-निलय-सहायकः वा चिकित्सक-सहायिका वा? यः कोपि आगत्य यदुक्तवान् वयं सर्वं तथैव आचरितवन्तः। सम्प्रति प्रतिशतमपि बाधा नैव आगता। 
मोदिमहोदयः    :  भवतः  आत्मविश्वासः अपि अतीव-दृढः परिलक्ष्यते|
अशोककपूरः    : आम् महोदय। अहं सम्यक्, आम्।  महोदय, मया तु यद्यपि जानु-शल्यमपि कारितम् आसीत्। तथापि समीचीनः अहम्।
मोदिमहोदयः     :  परं यदा एतावत् भीषणं सङ्कटं परिवारे आगतं षोडशवर्षीयं बालकं यावत् च गतम्.. 
अशोककपूरः    :  महोदय, तस्य परीक्षा आसीत् ICSE- इत्यस्य परीक्षा किल। अस्माभिः परीक्षार्थं सः नैव प्रेषितः। उक्तम् अग्रे द्रक्ष्यामः । जीवनं स्थास्यति चेत् सर्वाः परीक्षाः भविष्यन्ति। अतः चिन्ता मास्तु। 
मोदिमहोदयः    : सत्यमेव। भवतु, तर्हि भवतः अनुभवस्य अत्र प्रयोगः अभवत्। समग्र-परिवाराय विश्वासं धैर्यञ्च भवान् प्रादात्। 
अशोककपूरः   :  आम्, पूर्ण-परिवारः तत्रैव आसीत्, मेलनं न कृतवन्तः। दूरभाषेण परस्परं सम्भाषणं यथाकालं कृतवन्तः। चिकित्सकाः अस्मत्सु अपेक्षितं पूर्णावधानं दत्तवन्तः। वयं कृतज्ञाः तेषाम्, उत्तमव्यहाराय, सहयोगाय च। महोदय, आहत्य रोगि-निलय-सहायकान् समेत्य सर्वेषामपि पूर्णसहयोगः आसीत्।
मोदिमहोदयः   :  अस्तु, भवते भवत्-परिवाराय च मम शुभकामनाः।
अशोककपूरः    :  महोदय, धन्यवादः | अतिप्रसन्नाः स्मः यत् भवता सह सम्भाषणम् अभवत् | 
मोदिमहोदयः    : नैव वयमपि यत्...... 
अशोककपूरः    : तदनन्तरमपि महोदय, अस्माकं कृते अर्थात् लोकजागरणाय किमपि अपेक्षितम्, अस्माभिः कुत्रापि गन्तव्यं चेत् वयं सर्वदा सर्वथा च सिद्धाः।
मोदिमहोदयः      : तन्नापेक्षितम्। भवन्तः स्वस्तरे आगरा-नगरे एव कुर्वन्तु। कश्चन बुभुक्षितः चेत् भोजयन्तु। निर्धनानां चिन्तां कुर्वन्तु, नियामानां पालनार्थं जनान् बोधयन्तु। जनान् अवगमयन्तु यत् मम परिवारः सङ्क्रान्तः आसीत् परं नियमान् पालयित्वा वयं रक्षिताः, तथैव सर्वे यदि नियमपालनं करिष्यन्ति तर्हि देशः अपि रक्षितः भविष्यति।
अशोककपूरः       :  मोदिमहोदय, अस्माभिः स्वकीयं चलचित्रं निर्माय वाहिनीभ्यः प्रदत्तम्।
मोदिमहोदयः      : एवम् | 
अशोककपूरः      : वाहिनीषु लोकजागरणाय तत्प्रसारणमपि जातम्। अथ..........
मोदिमहोदयः     : सञ्चारमाध्यमेषु इतोsपि अधिकं प्रसिद्धं करणीयम्।
अशोककपूरः      : आम् .. अम्म्म्म ... अथ यस्मिन् उपनगरे वयं निवसामः, स्वच्छम् उपनगरम् अस्माकम्, तत्र अस्माभिः सर्वे सूचिताः, वयम् आगताः अतः भयं मास्तु। ये समस्याम् अनुभवन्तः सन्ति ते गत्वा परीक्षणं कारयेयुः। अन्यच्च ये अस्माभिः सह मिलिताः आसन् ते अपि परीक्षणं कारयेयुः, ईश्वरकृपया सर्वं सम्यक् भवेदिति |
मोदिमहोदयः     : अस्तु शुभकामनाः सर्वेभ्योsपि | 
          मित्राणि, वयम् अशोकमहोदयाय तस्य परिवाराय च दीर्घायुष्यं कामयामहे, यथा अमुनोक्तं यत् त्रासं विनैव, भयं विनैव समये एव उचितपदक्षेपः, ससमयं चित्किसकै: साकं परामर्शं, यथोचितमवधानं विधाय वयं महद्रोगं पराजेतुं शक्नुम:। मित्राणि, वयं चिकित्सास्तरे महद्रोगस्य निराकरणं कथं कुर्म: एतदर्थं चिकित्सकानाम् अनुभवान् ज्ञातुं मया कतिपयै: चिकित्सकैश्च साकम् अपि संवादो विहित: यै: प्रप्रथमं समाधानं विधीयते। तेषां दैनन्दिन-कार्याणि पीडितै: साकं विधीयन्ते। अस्माभि: सह डाक्टर-नीतेश-गुप्ता वर्तते - 
मोदिजी  : नमस्ते, डॉक्टर!
डॉ०नीतेश-गुप्ता : - नमस्ते, महोदय!  
मोदिजी : नमस्ते, नीतेश-महोदय! भवान् तु सर्वदा तत्पर: अतोsहं ज्ञातुमिच्छामि यत् चिकित्सालये भवताम् अन्य सहयोगिनां, भवता सह कीदृशो व्यवहार: वर्तते, कृपया वदतु,
डॉ०नीतेशगुप्ता : समेषां मनसि औत्सुक्यं वर्तते | भवताम् आशीर्वाद: वर्तते | भवतां सहयोगेन वयं यत्किञ्चित् वाञ्छाम: तत्सर्वं प्राप्यते यथावसरम्, अतो वयं तथैव संलग्नाः यथा सैन्यबलेन सीम्नि युध्यते| अस्माकं कर्तव्यमस्ति यत् संक्रमित: अनारोग्यं प्राप्य गृहं गच्छेदिति | 
मोदिजी :  भवता सत्यमेवोक्तं युद्धसदृशी स्थितिरस्ति, भवद्भिरेव स्थितिः सम्मुखीक्रियते, समाधास्यते च |
डॉ०नीतेशगुप्ता  : आम्, महोदय!
मोदिजी : भवद्भिस्तु उपचारेण साकं रोगिभ्य: परामर्श: अपि दातव्य: स्यात्?   
डॉ०नीतेशगुप्ता  : आम्, महोदय! परामर्श: अत्यावश्यक:, यतोहि संक्रमित: श्रुत्वैव बिभेति यत् किं जातमिति, तस्मिन् समये तस्मै अवबोध्यं भवति यत् किमपि नैव भविष्यति, चतुर्दश-दिनेषु स्वस्थो भविष्यति, भवान् गृहं गच्छतु, इदानीं यावत् अस्माभि: एतादृशा: षोडश जना: गृहेषु प्रेषिताः |
मोदिजी  : यदा भवन्त: संलपन्ति तदा किम् अनुमीयते यत् जनान् भीति: कथं सन्तापयति?                                                                                      डॉ०नीतेशगुप्ता  : ते चिन्तयन्ति यदिदानीं किं भविष्यति? एतत् तु तादृशमस्ति यथा बहिर्जगति दृश्यते, तत्र कियन्तो जना: मृताः | अस्माभिस्साकम् अपि एवमेव भविष्यति, वयं तान् बोधयाम:, भवतां का समस्या, कदा स्वस्था: भविष्यन्ति, भवतां स्थिति: विचारणीया, सामान्य: वा रोगोsस्ति, पञ्च-सप्त-दिनेषु स्वस्था: भविष्यन्ति, अनन्तरं परीक्षणं विधाय तस्य विवरणं नकारात्मकं जायते चेत् गृहं प्रेषयिष्याम:, अत एव, वारम्वारं द्वि-त्रि-होरान्तराले तै: साकं मेलितुं गच्छाम: पृच्छामश्च, तेभ्य: आनुकूल्यं भवति तदेव तै: समीचीनमनुभूयते |  
मोदिजी  : तेषामात्मविश्वासो वर्धते, प्रारम्भिकायाम् अवस्थायां तु बिभ्यन्ति ?
डॉ०नीतेशगुप्ता  :  प्रारम्भावस्थायां तु बिभ्यन्ति, परं वयम् अवबोधयाम:, तदा द्वितीये तृतीये वा दिने यदा ते स्वयं स्वस्थमनुभवन्ति, तदात्मविश्वासः जागर्ति  यत् वयं स्वस्था: भवितुं शक्नुम: इति|
मोदिजी : परं सर्वैरपि चिकित्सकै: अनुमीयते यत् जीवनस्य सर्वतो महत्सेवा-कार्यं तेषां स्कन्धेषु आगतम्, अयमेव भाव: भवति?  
डॉ०नीतेशगुप्ता : आम्, अयमेव भवति | वयम् अस्माकं दलं प्रोत्साहयाम: यत् भयस्यावश्यकता नास्ति| यदि वयं पूर्वावधानं दास्याम:, रोगिभ्य: पूर्णावधानं बोधयिष्याम: यत् भवता इत्थं करणीयम् इति तदा सर्वं समीचीनं भविष्यति |     
मोदिजी : अस्तु महोदय! भवतां चिकित्सालये बृहन्मात्रायां जना: आगच्छन्ति, भवन्त: सर्वतोदृशा प्रयतमाना: सन्ति, भवता सह सम्वादं विधाय हर्षानुभूति: जाता, संघर्षकाले अहं भवता साकम्,  एवमेव कुर्वन्तु इति,
डॉ०नीतेशगुप्ता : भवताम् आशीर्वादो भवेदित्येव वाञ्छाम:| 
मोदिजी : भूरिशो धन्यवादा:, महोदय! 
डॉ०नीतेशगुप्ता :  धन्यवाद:, श्रीमन्!
मोदिजी : धन्यवादः, नीतेश-महोदय, भवद्भ्य: साधुवादा: | भवत्-सदृशानां जनानां प्रयासै: भारतं कोरोना-विषाणुं विरुध्य प्रवर्तिते संघर्षे अवश्यं विजयि भविष्यति | मम निवेदनमस्ति यत् आत्मन:, सहयोगिनां, कुटुम्बिनां च स्वास्थ्यं संरक्षन्तु |
     जगत: अनुभवाः विज्ञापयन्ति यत् अनेन रोगेण संक्रामितानां संख्या सहसैव  समेधते | सहसैव संजायमानया अनया वृद्ध्या एव विदेशेषु भद्रतरा स्वास्थ्यसेवा निरुत्तरिता दृष्टा | भारते एतादृशी स्थिति: नागच्छेत्, एतदर्थम् अस्माभि: निरन्तरं  प्रयत्नीयम् | अपरैक: चिकित्सक: अस्माभि: साकं संवादाय पुणेनगरात्युज्यति... श्रीमान् डाक्टर-बोरसे,
मोदिजी : नमस्ते, महोदय! 
डॉक्टर : नमस्ते!  नमस्ते!!
मोदिजी : नमस्ते | भवान् तु केवलं ‘जन-सेवा, प्रभु-सेवा’- इति धिया कार्ये संलग्न: | अत: अहम् अद्य भवता साकं सम्वादं कर्तुमिच्छामि, देशवासिनां कृते भवतां सन्देशं कांक्षे | एकतस्तु नैकेषां जनानां मनसि अयं प्रश्न: विद्यते यत् कदा चिकित्सकै: सह सम्पर्क: कर्तव्य:, कदा च कोरोना-विषाणोः परीक्षणं कर्तव्यम्? चिकित्सकरूपेण भवान्  पूर्णतया कोरोना-रोगस्य समाधानाय समर्पित: अत: भवतां सन्देश: लाभप्रद: प्रभावी च स्यात्, अत: श्रोतुमिच्छामि ?
डॉक्टर : महोदय! अहमत्र पुणेनगरस्थे बी.जे.मेडिकल-कॉलेज-इति चिकित्सामहाविद्यालये आचार्यत्वेन पाठयामि | अथ च, अस्माकं पुणे-नगरनिगमचिकित्सालये नायडू-चिकित्सालये ऐषमो जान्युआरि-मासात् एकं परीक्षणकेन्द्रं आरब्धम् | तत्र अद्यावधि यावत् षोडश-जना: COVID-19-इत्यनेन संक्रामिता: सन्तः प्राप्ताः | तेषाम् उपचारं विधाय, संगरोधं कृत्वा, एकान्ते च संस्थाप्य, तेषु सप्त जना: विमोचिता:, अन्ये नव जना: अपि सामान्याः सन्ति, तेषामुपचार: विधीयते, शरीरे प्रबलसंक्रमणं जायते, एवं सत्यपि ते भद्रमाचरन्ति, संक्रमणात् बहिरागन्तुं प्रयतन्ते, अधुना अत्र केवलं षोडश एव संक्रामिता: सन्ति, परमनुमीयते यत् युवान: अपि अनेन संक्रमणेन प्रभवन्ति,  अथ च युवान: प्रभाविताः सन्ति, परं तेषां स्थिति: नातिचिन्ताकरी, इदानीं ये नव जना: सन्ति, तेषां स्थितौ अपकर्षो नैवास्ति, वयं प्रतिदिनं तेषां निरीक्षणं कुर्म:, इमे अपि चतुर्षु पञ्चसु वा दिनेसु आरोग्यं प्राप्स्यन्ति | ये जना: अत्र संदिग्धाः आगच्छन्ति, अन्ताराष्ट्रिय-यात्रां कृतवन्त:, तेषां सम्पर्के च आगता: जना: वा, तेषां परीक्षणं कुर्म:, विवरणानन्तरं प्रभावितान् पृथक् पर्यवेक्षणे  स्थापयाम:, नकारात्मकविवरणे प्राप्ते सति गृहे एकान्तवासाय निर्देशं प्रयच्छाम:, एकान्तवासस्य च सर्वं विवरणं विज्ञापयाम:|
मोदिजी : किं किं निर्दिशन्ति भवन्त:? गृहे एकान्तवास-विषये किं कथयन्ति, विज्ञापयन्तु कृपया?
डॉक्टर : महोदय! यदि गृहे एव स्थास्यन्ति चेत् स्वस्मिन्नेव संगरोध: कर्तव्य:, न्यूनान्यूनं षड्-फिट-परिमितं दूरीकरणं पालनीयं प्रप्रथमतया, अनन्तरं मुखावेष्टनं धारणीयम्, अनवरतं हस्तक्षालनं कर्तव्यम्, यदि भवतां पार्श्वे sanitization इति हस्तक्षालनफेनकं नास्ति चेत् सामान्येन फेनकेन हस्तक्षालनं कर्तव्यम्, वारं वारं  कर्तव्यम्, यदा कास: आगच्छेत् छिक्का वागच्छेत्, तदा करवस्त्रं प्रयोक्तव्यम्, येन कास-छिक्कयो: प्रभाव: इतस्तत: मा भवेत्, न च भूमौ पतेत् - इत्थं प्रबोधयाम: महोदय! अन्यच्च कथयाम: यत् ते निजगृहे एव तिष्ठन्तु, गृहाद्बहि: मा गच्छेयु:, इदानीं तु संचाररोधो वर्तते, सममेव अस्यामवस्थायां संचरणं विहाय चतुर्दश-दिवसेसु गृहे एव एकान्तं संगरोधं च पालयन्तु इति सूचयाम:, सन्देशं च प्रयच्छाम: महोदय!............
मोदिजी : अस्तु महोदय! भवन्त: समीचीनां सेवां कुर्वन्ति,समर्पणभावेन च कुर्वन्ति, भवतां पूर्णं दलं संलग्नमस्ति, अहं विश्वसिमि यत् येsपि संक्रमिता: जना: आगता: सन्ति, ते आरोग्यं प्राप्य गृहं गच्छन्तु, राष्ट्रमपि संघर्षमिमं जेष्यति, भवतां समेषां सहयोगेन...  
डॉक्टर : महोदय! विश्वासोsस्ति यत् वयं जेष्याम: |
मोदिजी : भूरि-भूरि शुभकामना:, भवते धन्यवादा:|
डॉक्टर : धन्यवाद:, धन्यवाद:, महोदय! 
   मित्राणि! अस्माकं ये सहयोगिन: सम्पूर्णराष्ट्रम् संकटात् बहिरानेतुं संलग्ना: सन्ति, ये यत् किमपि कथयन्ति तत् सर्वम् अस्माभि: न केवलं श्रोतव्यं, अपितु स्वजीवने पालनीयम्, अधुना यदाहं चिकित्सकानां त्यागं तपस्यां समर्पणं च पश्यामि तदा आचार्यस्य चरकस्य कथनं स्मरामि, आचार्येण चरकेण चिकित्सकानां विषये  यदुक्तं तत् इदानीं चिकित्सकानां जीवने यथार्थतया दृश्यते |  तेनोक्तं – 
नात्मार्थं नापि कामार्थम् अतो भूतदयां प्रति ||
वतर्ते यः चिकित्सायां स सर्वमतिवर्तते ||
अर्थात् धनाय विशेषकामनायै च नैव अपितु जनानां सेवायै, कारुण्यभावेन य: कार्यमाचरति, सैव सर्वश्रेष्ठ: चिकित्सक: भवति|
     मित्राणि, मानवता-पूर्णायै प्रत्येकमपि परिचारिकायै अद्याहं प्रणमामि | भवन्तः सर्वेsपि येन सेवाभावेन कार्याणि विदधति, सः नितरां अतुलनीय एव | अयमपि संयोगः एव यत् वर्षेsस्मिन् अर्थात् विंशति-उत्तर-विंशति-शत-तमं वर्षं अशेष-विश्वम् ‘अन्ताराष्ट्रिय-परिचारिका-धात्री-वर्षत्वेन आमनन्ति | अस्य सम्बन्धः द्वि-शत-वर्षेभ्यः प्राक् अर्थात् विंशत्यधिक-अष्टादश-शत-तमे वर्षे जातया Florence Nightingale- इत्यनया साकं वर्तते | या हि मानव-सेवायै, परिचार-सेवायै च नवीनाभिज्ञानं प्रादात् | सेवाभावाय उच्छ्रिततां प्रदत्तवती  | जगतः प्रत्येकमपि परिचारिकायाः सेवाभावाय समर्पितम् इदं वर्षं निश्चितमेव समग्राय समुपाचार-निरताय समुदायाय अतितरां कठिन-परीक्षा-कालत्वेन समुपागतम् | दृढमहं विश्वसिमि यत् भवन्तः भवत्यश्च सर्वेsपि अस्यां परीक्षायां न केवलं सफलताम् अवाप्स्यन्ति परञ्च अनेकानि जीवनानि अपि संरक्षयिष्यन्ति | भवत्सदृशानां सर्वेषामपि मित्राणां साहसं सेवाभवाञ्च आधृत्य वयं एतादृक्-महत्तमं युद्धं कर्तुं पारयामः | भवादृशाः सखायः, भवन्तु नाम ते चिकित्सकाः वा परिचारिकाः वा आशा-ए.एन्.एम्.कर्मकराः, स्वच्छता-कर्मिणः वा, भवतां स्वास्थ्य-विषये अपि देशोsयम् अतितरां चिन्तातुरः अस्ति | एतदेव तथ्यम् अभिलक्ष्य एतादृशानां प्रायेण विंशति-लक्ष-कर्मिणां पञ्चाशल्लक्ष-रूप्यकात्मकं स्वास्थ्यागोपं कर्तुं प्रशासनेन घोषितम्, येन भवन्तः संघर्षेsस्मिन् समधिकात्मविश्वासेन सह देशस्य नेतृत्वं कर्तुं शक्नुयुः |        
        मम प्रियाः देशवासिनः! कॉरोनाविषाणुं विरुध्य अस्मिन् संघर्षे अस्मान् परितः एतादृशाः अनेके जनाः सन्ति ये समाजस्य वास्तविकाः नायकाः सन्ति, अस्यां च परिस्थितौ सर्वेभ्यः अग्रेस्थिताः सन्ति। मह्यं नरेन्द्रमोदी-एप-नमोएप- चैतयोः माध्यमेन बैंग्लुरुतः निरंजन-सुधाकर- हेब्बालेन लिखितमस्ति यत् ईदृशाः जनाः दैनन्दिनजीवनस्य नायकाः सन्ति। एतेषां जनानां कारणेन अस्माकं दैनन्दिनं जीवनं सरलतया प्रचलति। भवन्तः कल्पनां कुर्वन्तु यत् एकस्मिन् दिने यदि भवतां गृहेषु जलागमनं रुद्धं जायेत, उतवा भवतां गृहस्य विद्युदापूर्तिः सहसा बाधिता भवति, तदा एते दैनन्दिन-जीवनस्य नायकाः एव अस्माकं समस्यानां समाधानं कुर्वन्ति। कदाचित् स्वीय-गृहस्य प्रतिवेशे स्थितायाः लघ्वायाः भक्ष्यापणिकायाः विषये चिन्तयन्तु। अद्यतने कठिनसमये असौ आपणिकः अपि संकटं सम्मुखीकरोति। किमर्थं अन्ततः? निश्चयेन अस्य कृते; यत्भवद्भ्यः आवश्यकवस्तूनां उपलब्धौ काठिन्यं न भवेत्। एवमेव तेषां वाहनचालकानां, कर्मकराणां विषयेऽपि चिन्तयन्तु ये अनारतं स्वीयेषु कार्येषु निरताः सन्ति, येन अखिलदेशे आवश्यक-वस्तूनां आपूर्तिशृखलायां किमपि व्यवधानं न भवेत्। भवद्भिः दृष्टं भवेत् यत् सर्वकारेण बैंकानां सेवाः यथावत् संधारिताः, अपिच, बैंकीय-क्षेत्रस्य अस्माकं जनाः पूर्णोत्साहेन, मनसा च एतत्संघर्षस्य नेतृत्वं कुर्वन्तः बैंकानां संभालनं कुर्वन्ति। युष्माकं सेवायां उपस्थिताः सन्ति। अस्मिन् समये एषा सामान्यसेवा नास्ति। तेषां बैंककर्मिणां वयं यावन्तं धन्यवादं व्याहरामः तावानेव स्वल्पः एवास्ति। बहूनि अस्माकं मित्राणि ई-कॉमर्स-सम्बद्धेषु समवायेषु आपूर्तिकर्तृत्वेन कार्यं कुर्वन्ति। एते जनाः एतस्मिन् कठिनसमयेऽपि भक्ष्याणाम् आपूर्तौ संलग्नाः सन्ति। किंचित् चिन्तयन्तु यद्भवन्तः संचाररोधस्य समयेऽपि दृश्य-वाहिनीम् दृष्टुं शक्नुवन्ति, गृहे सन्तोsपि दूरवाण्याः अपिच, अन्तर्जालस्य प्रयोगं कुर्वन्ति; तत्सर्वं सुचारुतया संधारयितुं कोऽपि स्वीयं जीवनं अर्पयति। अस्मिन् अन्तराले भवत्सु अधिकांशजनाः सरलतया डिजिटल-अन्तरणं कर्तुं पारयन्ति, तस्य आधारेऽपि बहवो जनाः कार्यरताः सन्ति। संचाररोधावधौ एते एव जनाः देशस्य कार्यं संभालयन्ति। अद्य सर्वेषां देशवासिनां पक्षतः अहं तान् जनान् प्रति आभारं प्रकाशयामि, अनुरोधं च करोमि यत्तैः स्वस्य कृतेऽपि सर्वविधानां सुरक्षाविधानानां व्यवहारः करणीयः, अपिच आत्मनः परिवारजनानां चापि ध्यानं धारणीयं इति।
      मम प्रियाः देशवासिनः, मया कतिपयाः ईदृश्यः घटनाः ज्ञाताः यासु कॉरोनाविषाणोः संदिग्धानां अथवा गृह-संगरोधाय निर्दिष्टान् जनान् प्रति अनेके जनाः दुर्व्यवहारं कुर्वन्ति। ईदृशानि  वृत्तानि श्रुत्वा अहं अतिशयः दुःखितः अस्मि। एतत् अतीव दुर्भाग्यपूर्णमस्ति। अस्माभिः एतत्  अवगन्तव्यम् यत् अस्मिन् समये अस्माभिः केवलं सामाजिकम् अन्तरालं संधारणीयमस्ति, न तु भावनात्मकं मानवीयं वा दूरत्वम्। एते जनाः अपराधिनः न सन्ति अपितु विषाणोः संभाविताः पीडिताः सन्ति। एतैः जनैः अन्यान् जनान् संक्रमणात् रक्षितुं आत्मानं निरुद्धं कृतवन्तः, संगरोधे च निवसन्ति। कतिपयेषु स्थानेषु जनैः स्वीयोत्तरदायित्वानां गभीरतया निर्वहणं कृतमस्ति। विषाणोः लक्षणानां अप्रत्यक्षे सत्यपि तैः आत्मा संगरोधे स्थापितः । तैः एवम् आचरितं यतोहि ते विदेशेभ्यः आगताः अतः द्विगुणं अवधानं आचरन्ति। एते जनाः सुनिश्चितीकर्तुं इच्छन्ति यत्कस्यामपि स्थित्यां अन्यः जनः एतेन विषाणुना संक्रमितः न भवेदिति। अतएव, यदा जनाः स्वयमेव उत्तरदायित्वं प्रदर्शयन्ति तदा तैः साकं दुर्व्यवहारः सर्वथा अनुपयुक्तः अस्ति। प्रत्युत, तैः साकं सहानुभूत्याः सहयोगस्य चावश्यकता अस्ति। 
    कॉरोनाविषाणुं विरुध्य संघर्षे सामाजिकान्तरालः सर्वाधिकः कार्यक्षमः उपायः अस्ति। परं अस्माभिः अवगन्तव्यं यत् सामाजिकान्तरालस्य अर्थः सामाजिक-अन्तर्क्रियाणां समापनं नास्ति। वस्तुतः एषः समयः स्वीयसम्बन्धेषु प्राणसंचारस्य अस्ति, तेषां सम्बन्धानां नवीकरणस्य अस्ति। एषः समयः संकेतयति यत् सामाजिकः अन्तरालः विस्तारणीयः भावनात्मकश्चान्तरालः च संवारणीयः। अहं पुनः कथयामि - सामाजिकं अन्तरालं वर्धयन्तु, भावनात्मकं अन्तरालं च न्यूनीकुर्वन्तु। कोटातः यशवर्धनेन मेघेन च नरेन्द्रमोदीएप-उपरि लिखितमस्ति यत्तौ संचाररोधावधौ पारिवारिकबन्धनं दृढीकुरुतः। बालैः साकं बोर्डगेम्स-इति क्रिकेटं च क्रीडतः। पाकशालायां नूतनानि व्यंजनानि पाचयतः। जबलपुरस्य निरुपमा-हर्षेयः नरेन्द्रमोदीएप-माध्यमेन सूचयति यत्तया प्रथमं वारं आस्तरण-निर्माणस्य स्वीयाभिरुच्याः कृते अवसरः लब्धः। अनेन साकमेव असौ उद्यानसंभारस्य अभिरुचिमपि परिपालयति। तत्रैव रायपुरतः परीक्षितस्य, गुरुग्रामात् आर्यमनस्य, झारखण्डाच्च सूरजस्य च संदेशाः अपि पठिताः, येषु तैः स्वीय- विद्यालयीय-सहपाठिभिः साकं पुनर्मेलनस्य चर्चा कृताऽस्ति। तेषां एषः विचारः अतीव रोचकः अस्ति। संभवः अस्ति यत् भवद्भिः अपि चिरकालतः विद्यालयीय-महाविद्यालयीय-मित्रैः साकं संभाषणस्य अवसरः न प्राप्तः भवेत्। भवन्तः अपि एतत्-विचारं परिपालयन्तु। भुवनेश्वरस्य प्रत्यूषदेबाशीषः, कोलकातायाश्च वसुधा-माधोगड़िया अवदताम् यत्तौ अद्यत्वे तानि पुस्तकानि पठतः यानि  अद्य यावत् पठितुं न अपारयताम्। सामाजिक-सञ्चारमाध्यमेन एव मया ज्ञातमस्ति यत् अनेकैः जनैः वर्षेभ्यः गृहे स्थापितानां तबला-वीणा-सदृशानां वाद्यानां संगीतो- पकरणानां चाभ्यासः आरब्धः। भवन्तः अपि एतत्कर्तुं पारयन्ति। एतेन भवन्तः संगीतस्य आनन्दं तु प्राप्स्यन्ति, सहैव च विगताः स्मृतयः अपि जीविताः भविष्यन्ति। अस्य अर्थः अस्ति यत् संकटस्य अस्मिन् काले भवद्भिः ईदृशः अवसरः अधिगतः येन भवन्तः न केवलं आत्मना साकं पुनस्संयोजनस्य अवसरं प्राप्स्यन्ति अपितु स्वीय-अभिरुचिभिः साकमपि संयोगं करिष्यन्ति। भवन्तः स्वीयैः चिरमित्रैः परिवारजनैश्च साकं संयोगस्य अपि अवसरं प्राप्स्यन्ति।
      नमोएप-माध्यमेन रुड़कीतः शशिना पृष्टं यत् संचाररोधस्य समये अहं स्वीय-सौष्ठवस्य कृते किं करोमि? अस्यां परिस्थितौ नवरात्रस्य उपवासं कथं आचरेयम्? अहं पुनरेकवारं भवन्तं सूचयामि यन्मया भवन्तः बहिर्निष्क्रमणात् वारिताः परं स्वीयान्तःदर्शनाय अवसरः अपि उपस्थापितः। एषः अवसरः अस्ति, बहिः मा गच्छन्तु परं आत्मनः अन्तर्प्रविशन्तु। आत्मानं ज्ञातुं प्रयासं कुर्वन्तु। यत्र च नवरात्रस्य उपवासस्य प्रश्नः अस्ति; एषः मम शक्त्याः भक्त्याश्च मध्यस्थितः विषयः अस्ति। स्वीयसौष्ठवस्य विषये यदि अहं व्याख्यास्यामि तदा विवरणं सुदीर्घं भविष्यति। तदाऽहम् एवं करोमि यत् सामाजिक-सञ्चार-माध्यमेन यदहं करोमि तस्मिन् विषये कतिपयानि दृश्यपटलानि स्थापयिष्यामि । नरेन्द्रमोदी-एप-माध्यमेन भवन्तः अवश्यमेव तानि पश्यन्तु। यदहं करोमि तेषु कतिपय-कार्याणि सम्भवतः भवद्भ्यः उपयोगीनि भविष्यन्ति। परम्  एकं बिन्दुम् अवधारयन्तु यदहं सौष्ठव-विशेषज्ञः नास्मि। नैव च योगशिक्षकः परं केवलं अभ्यासकर्ता अस्मि। अहं स्वीकरोमि यद्योगस्य कतिपयैः आसनैः मया अतिशयः लाभः प्राप्तः। संचाररोधावधौ भवद्भिः कृतेऽपि सम्भाव्यते यत् एतेषु केचन प्रसंगाः लाभप्रदाः  भवन्तु।
         सखायः, कोरोना-विषाणुं विरुध्य युद्धमिदम् अभूतपूर्वमपि वर्तते, समाह्वान-समन्वित ञ्चापि | अतः, अस्मिन्नवधौ विधीयमानाः निर्णयाः अपि तादृशाः सन्ति, ये हि,  जगतः इतिवृत्ते न कदापि द्रष्टुं श्रोतुञ्च प्राप्यन्ते | कोरोना-विषाणुं अवरोद्धुं ये समग्राः समुपायाः भारतवासिभिः विधीयन्ते, यान् प्रयासान् साम्प्रतं वयं कुर्मः – ते एव, भारतस्य कृते कोरोना-महामारीम् पराजित्य विजयश्रियं प्रापयिष्यन्ति | प्रत्येकमपि भारतीयस्य संयमः संकल्पश्चापि, अस्मान् दुष्कर-स्थितितः उद्धरिष्यतः | युगपदेव निर्धनान् प्रति अस्मदीयाः सम्वेदनाः अधिकतराः तीव्राः भवेयुः  | अस्मदीयायाः मानवतायाः वासः एतस्मिन् तथ्ये आधृतः यत् कुत्रचिदपि कश्चन निर्धनः, दुःखी –क्षुधितः वा दृष्टिपथं आयाति तर्हि अस्मिन् संकट-काले वयं सर्वप्रथमं तस्य क्षुधा-निवारणं करिष्यामः, तस्य आवश्यकता-विषयिणीं चिंताम् करिष्यामः , हिन्दुस्थानम् हि एतत् कर्तुं शक्नोति | एते सन्ति अस्मदीयाः संस्काराः,  एषास्ति अस्मदीया संस्कृतिः  | 
मम प्रियाः देशवासिनः, अद्य प्रत्येकमपि भारतीयः, निज-जीवन-रक्षार्थं गृहावरुद्धोsस्ति,  परन्तु, अनागते काले अयमेव हिन्दुस्थानीयः निज-देशस्य विकासार्थं सर्वाः भीत्तीः भङ्क्त्वा अग्रेसरिष्यति, देशमपि अग्रे नेष्यति | भवन्तः, निज-परिवार-जनैः साकं गृहे एव तिष्ठन्तु, सुरक्षिताः अवधानपूर्णाः च भवन्तु – अस्माभिः युद्धमिदं नूनं जेतव्यमस्ति | अवश्यं जेष्यामः | भूरिशः धन्यवादः | ‘मन की बात’-‘मनोगतमिति आदाय, पुनः आगामिनि मासे,  मेलिष्यामः, तावत्-पर्यन्तं एतानि संकटानि पराजित्य वयं सफलतां प्राप्स्यामः, अनया एव कल्पनया साकं, अनया च शुभकामनया साकं, भवद्भ्यः सर्वेभ्यः कोटिशः धन्यवादाः |

    - [भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-गवीश-द्विवेदि-पुरुषोत्तम-शर्मभिः सम्भूय बलदेवानन्द-सागर-द्वारा]
                    अणुप्रैषः  - baldevanand.sagar@gmail.com