OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 7, 2020

संसदः सदस्यानां वेतनम् एकवर्षं यावत् प्रतिशतं त्रिंशन्मितं न्यूनं भविष्यति- मन्त्रिमण्डलस्य निर्णय:
-पुरुषोत्तमशर्मा
   नवदेहली> केन्द्रीयमन्त्रिमण्डलेन संसदः सदस्ययानां वेतने वित्तानुमोदने गतशताब्दस्य चतु:पञ्चाशततमे सेवानिवृत्तिवेतनाधिनियमे संशोधनाय अध्‍यादेश: अनुमत:। अनेन संसत्सदस्यानां वेतनम् एकवर्षं यावत् प्रतिशतं त्रिंशन्मितं न्यूनं भविष्यति। अयम् अध्‍यादेश: अप्रैलमासात् प्रारब्धो भविष्यति। 
    सूचनाप्रसारणमन्त्री प्रकाशजावडेकर: वार्ताहरान् प्रावोचत् यत् वर्षद्वयाय संसदः सदस्यानां क्षेत्रीयविकासनिधे: स्थगननिर्णयः अपि मन्त्रिमण्डलेन कृतः। श्रीजावडेकर: न्यगदत् यत् नव सप्तति: अर्बुदरूप्यकाणां राशि:  कोविड-१९ सङ्क्रमणस्य निवारणाय  भारतस्य समेकितनिधौ प्रत्यर्पयिष्यते इति।